________________ 343 हेतुनिरूपणम् मूलम् / साध्यनिर्देशानन्तरं कुत इत्याकाङ्क्षायां हेतुत्वप्रतिपादकविभक्तिमत् यत् लिङ्गं तद्वचनमेवोचितम् / तद्वैपरीत्ये बाधकमाह - अन्यथेति।प्रमाणाकाङ्क्षायां प्रमाणमेव वक्तव्यं न तूदाहरणादियतोऽनाकाङ्क्षिताभिधाने निग्रहः स्यादित्यर्थः / ननु हेतुत्वप्रतिपादकविभक्तिवचनेनापि नाकाङ्क्षानिवृत्तिरित्यत आह - लोक इति मूलम् / तथा चप्रमाणाकाङ्क्षायां हेतुत्वप्रतिपादकविभक्तिवचनेनैवाकाङ्क्षानिवृत्तिरित्यर्थः / उपसंहरति- प्रतिज्ञानन्तरमिति मूलम् / वाक्यं सावधारणमिति न्यायात् हेतोरेवोपन्यासः / हेत्ववयवलक्षणमाह - अनुमितीति मूलम् / अनुमितिकारणीभूतो यो लिङ्गपरामर्शस्तत्प्रयोजकं यत् शाब्दज्ञानं तस्य कारणीभूता एवंरूपा या साध्याविषयकशाब्दधीस्तजनको यो हेतुविभक्तिमच्छब्दः तत्त्वम् / पूर्वदलेऽनुमितिकारणीभूतलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणेत्यनेनन्यायजन्यशाब्दज्ञानकारणेत्यर्थः सम्पन्नः।अत्रसाध्याविषयकशाब्दधीजनकहेतुविभक्तिमच्छब्दत्वमित्युच्यमाने आप्तोक्तधूमादिति वाक्ये विवादाभावादवयवत्वाभावेनातिव्याप्तिरतोऽनुमितिकारणीभूतलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणेति पदम्। आप्तोक्तधूमादिति वाक्यजन्या या शाब्दधीः सा न्यायजन्यशाब्दज्ञानकारणं नेति तद्वयुदासः / प्रतिज्ञायामतिव्याप्तिवारणार्थं साध्येत्यादिकमुत्तरदलम् / शेषं टीकायाम् / लक्षणान्तरमाह -हेतुत्वेति मूलम्।हेतुत्वप्रतिपादिका या विभक्तिः पञ्चमी तद्वान् यो न्यायावयवः / न्यायावयवत्वमानं प्रतिज्ञायामतिव्याप्तमतो हेतुत्वप्रतिपादकेति / हेतुत्वप्रतिपादकविभक्तिमत्त्वमात्रं धूमादित्याप्तवाक्येऽतिव्याप्तमत आह - न्यायावयवेति पदम् / लक्षणान्तरमाह - उदाहरणेति / उदाहरणप्रयोजिका या आकाङ्क्षा तज्जनकं यत्शाब्दज्ञानं तज्जनको योऽवयवस्तत्त्वम्।शाब्दज्ञानजनकावयवत्वमात्रंप्रतिज्ञायामतिव्याप्तम् अत उदाहरणेत्यादि [171 A] | प्रतिज्ञावाक्यं तूदाहरणप्रयोजकाकाङ्क्षाजनकशाब्दज्ञानजनकं न भवति किन्तु तद्धत्वाकाङ्केत्यादिकं भवतीति तद्वयुदासः। हेतोर्लक्षणान्तरमाह - साध्याविषयकेति मूलम् / साध्याविषयक * * यद् ज्ञानं तजनको यो हेतुः पञ्चम्यन्तोऽनुमितिपरशब्दस्तत्त्वम्। अनुमितिपरशब्दत्वमवयवत्वमित्यर्थः, तेनाप्त वाक्यनिरासः।साध्याविषयकज्ञानजनकहेतुपञ्चम्यन्तशब्दत्वमित्युच्यमाने आप्तोक्तधूमादिति वाक्येऽतिव्याप्तिः, अतो अनुमितिपरशब्दत्वम्, तथा चैतदवयवत्वं विवक्षितमाप्तवाक्यस्यावयवत्वाभावान्न तत्रातिव्याप्तिः / हेतुपञ्चम्यन्तानुमितिपरशब्दत्वमित्युच्यमाने निगमनेऽतिव्याप्तिधूमाद् वह्निमान् इति रूपे, अतस्तद्वारणाय साध्याविषयेति पदं निगमनस्य तु साध्यविषयकज्ञानजनकत्वात् / हेतोर्लक्षणान्तरमाह - प्रतिज्ञेति मूलम् / प्रतिज्ञावाक्यधीजन्या या कारणाकाङ्क्षा तस्या निवर्तकं यद् ज्ञानं - धूमादित्येतद्वाक्यजन्येन ज्ञानेन कुत इति कारणाकाङ्क्षा निवर्तत इति धूमादितिहेतुविभक्तिमद्वाक्यं प्रतिज्ञावाक्यधीजन्यकारणाकाङ्क्षानिवर्तकं यद् ज्ञानं - तज्जनकं भवति / हेतुविभक्तिमद्वाक्यमित्युच्यमाने धूमादित्याप्तवाक्येऽतिव्याप्तिः, तद्वारणाय प्रतिज्ञावाक्यधीजन्यकारणाकाङ्क्षानिवर्तकज्ञानजनकमित्युक्तम्, आप्तवाक्यं तु प्रतिज्ञावाक्यधीजन्यकारणाकाङ्क्षानिवर्तकं न