________________ / अवयवप्रकरणे हेतुनिरूपणम्। साध्यनिर्देशानन्तरंकुतइत्याकाङ्क्षायांसाधनताव्यञ्जकविभक्तिमल्लिङ्गवचनमेवोचितम्, अन्यथाऽनाकासिताभिधाने निग्रहापत्तेः, लोके तथैवाकाङ्क्षानिवृत्तिरिति व्युत्पतेरिति प्रतिज्ञानन्तरं हेतूपन्यासः / हेतुत्वं चानुमितिकारणीभूतलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकसाध्याविषयकशाब्दधीजनकहेतुविभक्तिमच्छब्दत्वम् / हेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वं वा / उदाहरणप्रयोजकाकासाजनकशाब्दज्ञानजनकन्यायावयवत्वंवा।साध्याविषयकज्ञानजनकहेतुपञ्चम्यन्तानुमितिपरशब्दत्वंवा। प्रतिज्ञावाक्यधीजन्यकारणाकाङ्क्षानिवर्तकज्ञानजनकहेतुविभक्तिमद्वाक्यत्वं वा / पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरवाक्यत्वं वा / हेतुपदेन ज्ञाने लक्षणा, अन्यथा लिङ्गस्याहेतुत्वेनहेतुविभक्त्यर्थानन्वयात्तथैवाकाङ्क्षानिवृत्तेः। अनुमितिहेतुज्ञानकारणधूमवत्त्वादितिशब्दजन्यज्ञानवृत्तिप्रतिज्ञादिजन्यज्ञानावृत्तिजातियोगिज्ञानजनकवाक्यत्वं हेतुत्वमित्यन्ये। जातिं विना केन रूपेण ज्ञानस्यानुमितिजनकत्वं वाक्यविशेषजन्यत्वस्यापि जन्यतावच्छेदकरूपापरिचये दुर्ग्रहादित्यपरे / अन्वयव्याप्त्यभिधायकावयवाभिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वमन्वयिहेतुत्वम् / एतदेवव्यतिरेकव्याप्त्यभिधायकपदप्रक्षेपाव्यतिरेकिहेतुत्वम्। अन्वयव्यतिरेकोदाहरणाकाङ्क्षाप्रयोजकतथाभूतावयवत्वमन्वयव्यतिरेकि हेतुत्वम् / यद्वा पक्ष-सपक्षसतो विपक्षासतो हेतुवचनमन्वयव्यतिरेकि।अत्यन्ताभावाप्रतियोगिसाध्यसमानाधिकरणपक्षसपक्षसद्धेतुवचनं केवलान्वयि / यद्वा अनुमितिकारणीभूतपरामर्शप्रयोजकशाब्दज्ञानकारणसाध्याविषयकशाब्दधीजनकप्रतीतान्वयसाध्यसाधनवाचकहेतुविभक्तिमच्छब्दत्वमन्वयिहेतुत्वम् / एतदेवाप्रतीतान्वयसाध्यसाधनेतिविशेषणाद् व्यतिरेकिहेतुलक्षणम्। अथमूलम्।ननुप्रतिज्ञानन्तरं हेत्ववयवः किमर्थं वक्तव्य इत्याकाङ्क्षायां मूले आह- साध्यनिर्देशानन्तरमिति