________________ प्रतिज्ञानिरूपणम् हेतुत्वान्वयानुपपत्त्या ज्ञाने लक्षणा वर्तते, विप्रतिपत्तिवाक्ये तु लक्षणा नास्ति इति कृत्वा विप्रतिपत्ति]वाक्येन प्रतिज्ञाया नान्यथासिद्धिः / एवं विप्रतिपत्तिवाक्यात् प्रतिज्ञा भिन्ना एव सिद्धेत्यर्थः / एतदेवाह - विप्रतिपत्तौ त्विति टीका / तथा च विप्रतिपत्तौ न ज्ञाने लक्षणा इति कृत्वा न तया तदन्यथासिद्धिः / अत्राशङ्कते - न चेति / साध्ये प्रमाणाकाङ्क्षायां वह्रौ प्रमाणाकाङ्क्षायां धूमादिति प्रयोगेधूमस्य हेतुत्वं वह्नौ न सम्भवतीति कृत्वाधूमादिति पञ्चम्या ज्ञापकत्वे लक्षणा। तथा चप्रतिज्ञायां ज्ञानलक्षणां विनापिधूमादिति पञ्चम्या ज्ञापकत्वलक्षणया एवान्वयबोधोपपत्तौ प्रतिज्ञायां ज्ञानलक्षणायां मानाभावादित्यर्थः / समाधत्ते - ज्ञानलक्षणापीति टीका / तथा च प्रतिज्ञायां ज्ञानलक्षणयैवोपपत्तौ हेतुत्वशक्तायाः पञ्चम्या ज्ञापकत्वेऽपि चेत् शक्तिस्तदा नानार्थत्वकल्पनागौरवं स्यात् / यदि च ज्ञापकत्वे लक्षणा स्यात् तदा सुविभक्तौ लक्षणाभावादिति पञ्चम्या हेतुत्वमेवार्थः तच्च हेतुत्वं वहिं प्रति अनुपपन्नमिति प्रतिज्ञायामेव लक्षणा यथा पर्वतो वह्निमत्तया ज्ञातव्य इति / तदभिधानमितीति / तत्शब्देन किं परामृश्यत इत्यत आह - अवयवान्तराभिधानमिति टीका। हेत्ववयवाभिधानमित्यर्थः / अन्ये त्विति मतेऽस्वरसमाह - अन्ये त्वितीति टीका / अस्वरसबीजमाह - शब्दानित्यत्वेति टीका / तथा च शब्दानित्यत्वे प्रमाण वद इति मध्यस्थस्यानुयोगे प्रमाणमात्रे नाकाङ्क्षा किन्तु व्यावर्तकं यदनित्यत्वं तेन * व्यावर्तनाय यत् प्रमाणं तथा च अनित्यत्वव्यावर्तकव्यावृत्त्यं यत् प्रमाणं तत्राकाङ्क्षा मध्यस्थस्येत्यर्थः / एतावता शब्दानित्यत्वनिर्देशेन विना विशिष्टनिर्देशोनसम्भवतीतिशब्दानित्यत्वरूपविशेषणस्य निर्देशोऽवश्यं वक्तव्यः / स च प्रतिज्ञारूप एवेति प्रतिज्ञासाधनाङ्गम्, इदमस्वरसग्रस्तम् / यदि शब्दानित्यत्वं व्यावर्तकं यतः शब्दानित्यत्वसाधकप्रमाणस्य इतरप्रमाणापेक्षया[170B] व्यावर्तकत्वम्, व्यावर्तकं विशेषणमेव चेत् तदा विशेषस्य निर्देशेन विना विशष्टनिर्देशो न सम्भवतीति विशेषस्यापि निर्देश आवश्यकः / यदा च शब्दानित्यत्वमुपलक्षणं तदा व्यावर्तकत्वमुपलक्षणं भवत्येव ततस्तन्निर्देशेन विनापि उपलक्षणीयस्य निर्देशः सम्भवति ततः शब्दानित्यत्वस्य निर्देश आवश्यको नायातीति कृत्वा शब्दानित्यत्वे विशेषणत्वं पूर्वोक्तहेतुत्वान्वयानुपपत्त्या ग्राह्यम्, ततः सैव युक्तिरस्तु, तथा च हेत्वन्वयानुपपत्तिरेव प्रतिज्ञासाधिका / अत एवेति टीका / यतो हेतुत्वान्वयानुपपत्त्या साकाङ्गं हेतुवाक्यं केन सहान्वयं बोधयिष्यतीति साध्याभिधानमवश्यं वक्तव्यमेवेत्याह * उपसंहारे तस्मादिति ग्रन्थेनेत्यर्थः / / प्रतिज्ञानिरूपणं समाप्तम्।