________________ 340 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका कर्तव्यम्, तेनाप्तवाक्ये नातिव्याप्तिः / ननु लिङ्गाविषयकेति अत्र लिङ्गिपदं किमर्थम् ? लिङ्गविषयकज्ञानजनकत्वनियतावयवान्यत्वं लिङ्गिज्ञानजनकन्यायावयवत्वमित्येवास्तु / वर्तते चलिङ्गाविषयकलिङ्गिज्ञानेत्यादि इत्यत आह - लिङ्गिपदं चेति। तथा च प्रायः पुस्तकेषु नास्ति। यदि कुत्राप्यस्ति तदेतन्निष्फलमेवेत्यर्थः / ननु प्रतिज्ञात्वं जातिरिति ग्रन्थः पुनरुक्तः, तत्तद्धीजनकत्वं प्रतिज्ञात्वम् विजातीयज्ञानविशेषजनकवाक्यत्वं प्रतिज्ञात्वमिति ग्रन्थेन पुनरुक्तमित्यत आह - पूर्वमिति टीका। पूर्वं विजातीयज्ञानेति मते तत्रापि विजातीयज्ञानविशेषजनकत्वं लक्षणम् अत्रापि प्रतिज्ञाजन्यं विजातीयं ज्ञानं तज्ज्ञानविशेषजनकवाक्यत्वं प्रतिज्ञात्वमित्यत्र पुनरुक्तमित्यर्थः / समाधत्ते - निर्बीजमिति। पूर्वं प्रतिज्ञाजन्ये ज्ञाने जातिविशेषो वर्तत इत्यत्र बीजं नोक्तम्, इदानीं तु तत्र बीजमुच्यते व्यवहारादिति ग्रन्थेनेत्याह - बीजपूर्वकं परमतमिति टीका। ननु एतेनापि इत्यादिग्रन्थेन यद् विजातीयज्ञानजनकं वाक्यं प्रतिज्ञेति लक्षणम्, तत्पूर्वं प्रतिज्ञाजन्यं विजातीयं ज्ञानं व्यवहारादिति ग्रन्थेनोक्तमेव / तथा च येन तल्लक्षणं कृतं न चेदं लक्षणं कृतमिति तस्य पुनर्दूषणं किमर्थमित्यत आह - भास्करमत इति टीका। पूर्वमन्यस्य ग्रन्थकारस्य लक्षणम्, इदं तु भास्करस्येति / भेद इति वक्तृभेदात् न दूषणपौनरुक्त्यम् / ननु वक्तृभेदमात्रं भेदेन दूषणोपन्यासे न प्रयोजकं किन्तु प्रमेयभेद एवेति / स चेह नास्त्येवेति कथं भेदेन दूषणोपन्यास इति शङ्कते - यद्यपीति टीका / समाधत्ते - तथापीति टीका / उपाधिभेद इति टीका / पूर्व विजातीयज्ञानजनकवाक्यत्वं प्रतिज्ञात्वमुक्तम्, इदानीं तु विशेषाकारेण शब्दोऽनित्य इति लिङ्गिधीपरं साध्यधीपरं यद् वाक्यं तजन्यज्ञानवृत्ति / अथ च कृतकत्वादित्यादिवाक्यजन्यज्ञानावृत्तिजातियोगिज्ञानजनकं यद् वाक्यं सा प्रतिज्ञा। पूर्वं प्रतीकमात्रोक्तौ लिङ्गिधीपरवाक्यजन्यं ज्ञानं तद्वृत्तिजातियोगिज्ञानजनकं वाक्यमित्युक्तौ लिङ्गिधीपरवाक्यं प्रतिज्ञावाक्यं पर्वतो वह्निमान् इत्येतादृशं तद्वाक्यजन्यं ज्ञानं तद्वृत्तिा जातिर्ज्ञानत्वरूपा जातिस्तद्योगि यद् ज्ञानं हेतुवाक्यजन्यं ज्ञानं तज्जनकं वाक्यं हेतुवाक्यमिति तत्रातिव्याप्तिस्तद्वारणार्थं कृतकत्वादित्यादिवाक्यजन्यज्ञानावृत्तीत्याद्युक्तम् [170 A], ज्ञानत्वरूपा या जातिः सा कृतकत्वादित्यादिवाक्यजन्यज्ञानावृत्तिर्न भवति तेन तन्निरासः।अथकृतकत्वादित्यादिवाक्यजन्यज्ञानावृत्तिजातियोगियद् ज्ञानंशुकोदीरितेघटमानय इति वाक्येऽतिव्याप्तिवारणार्थम् / लिङ्गिधीत्यादिपदं शुकोदीरितं यद् वाक्यं घटमानय इति वाक्यं तजन्यं यद् ज्ञानं तद्वृत्तिर्या जातिः सा लिङ्गिधीपरवाक्यजन्यज्ञानवृत्तिर्न भवति इति न तत्रातिप्रसङ्ग इत्यर्थः / उपाधिभेदादिति टीका / तथा च पूर्वे विजातीयज्ञानविशेषजनकं वाक्यं प्रतिज्ञेति सामान्यत उक्तम्, साम्प्रतमुक्तरूपो विशेषो यथा लिङ्गिधीत्यादिरुक्तरूपः, तथा चायमेवोपाधिभेद इत्यर्थः। मूलं योजयति - आवृत्तौ त्विति टीका।शब्दोऽनित्यो न वेत्यादिरूपाया विप्रतिपत्तेरावृत्तिर्यदि क्रियते सैव प्रतिज्ञा, तथा च प्रतिज्ञैव साधनाङ्गमित्यागतम् / वक्ष्यमाणास्वरसादाह - इदमिति टीका / वक्ष्यमाणास्वरसमाह - वस्तुत इति टीका / तथा च प्रतिज्ञावाक्ये