________________ प्रतिज्ञानिरूपणम् 339 प्रति [169 A] / ननु तर्हि प्रतिज्ञायाः कथमुद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वमित्याह - प्रतिज्ञायाश्चेति / तथा नु प्रतिज्ञाया हेत्वाकाङ्क्षोत्थापनद्वारा उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वम् न तु निगमनस्य। ननु तर्हि निगमनस्य क्वोपयोग इत्यत आह - अवयवलक्षणे चेति टीका। तथा चावयवलक्षणे यत् परामर्शपदं तच्चरमकारणपरामर्शपरम्, स च अबाधितासत्प्रतिपक्षत्वविशिष्टः परामर्शो हि चरमकारणपरामर्शः, तेन चरमः परामर्शोऽबाधितासत्प्रतिपक्षविशिष्टः धूमवांश्चायम् इतिरूपः / अयं भावः - उपनये वह्निव्याप्यधूमवत्त्वज्ञानमात्रंजातम्, न तु वह्निव्याप्यधूमवत्त्वज्ञानमात्रादनुमितिः किन्तु अबाधितासत्प्रतिपक्षत्वविशिष्टाम्] एव चरमकारणं ततोऽबाधितासत्प्रतिपक्षप्रतिपादनद्वारा निगमनस्य चरमकारणलिङ्गपरामर्शप्रयोजकत्वेनावयवत्वमितिभावः। तथा चावयवलक्षणंचरमकारणपरामर्शघटितम्, चरमकारणपरामर्शप्रयोजकता चाबाधितत्वज्ञानद्वारा निगमनस्य तिष्ठत्येवेति कृत्वाऽवयवलक्षणं तत्रवृत(त्त)मेव।प्रतिज्ञालक्षणं तूद्देश्यानुमितीत्यादिकमुपनयजन्यपरामर्शघटितम् इति उपनयजन्यपरामर्श तुनिगमनस्य जनकतानास्ति, तस्योत्तरकालिकत्वेनाकाजोत्थापनद्वारापि नोपनयजन्यपरामर्श प्रति कारणत्वंन तत्रप्रतिज्ञालक्षणातिव्याप्तिः अनुमितिहेतुलिङ्गपरामर्शप्रयोजकत्वाभावात् / एतदेवाह - अत एवेति टीका / यतो निगमने उपनयजन्यपरामर्शहेतुत्वं नास्ति इति कृत्वा प्रतिज्ञालक्षणं तत्रनवर्ततेऽतएव निगमनेऽवयवलक्षणयोजनार्थं चपरामर्शमात्रंपरित्यज्य चरमकारणपरामर्शघटितं कृतमवयवलक्षणम् / ननु प्रतिज्ञालक्षणं हेत्वभिधानप्रयोजकजिज्ञासाजनकवाक्यत्वं पर्वतो वह्निमान् इति आप्तवाक्येऽतिव्याप्तमित्यत आह - हेत्विति टीका। हेत्ववयवेति टीका। तथा चहेतुरूपो योऽवयवस्तदभिधानप्रयोजिका या जिज्ञासा तजनकं यद् वाक्यं सा प्रतिज्ञा, आप्तवाक्यं तु हेत्ववयवाभिधानप्रयोजकजिज्ञासाजनकं न भवति किन्तु तस्मात् पर्वते वह्रिमत्त्वबोध एव न तु तत्र हेत्वाकाङ्क्षा इति भावः / प्रतिज्ञालक्षणस्य आप्तवाक्येऽतिव्याप्तिवारणार्थं प्रकारान्तरमाह - यद्वेति टीका। तथा चोक्तप्रतिज्ञालक्षणे वाक्यपदमवयवपरं तथा च यद्यपि आप्तवाक्ये हेत्वभिधानप्रयोजकजिज्ञासाजनकवाक्यत्वमस्त्येव परंतु जिज्ञासाजनकावयवत्वं तस्य नास्ति इति कृत्वा न तत्रातिव्याप्तिरित्यर्थः / ननु पृथिवी इतरेभ्यो भिद्यते, धूमकालीनः पर्वतो वह्निमान् इति प्रतिज्ञायां तथाप्यव्याप्तिः लिङ्गाविषयकत्वं नास्तीत्यत आह - अत्रापीति टीका / लिङ्गाविषयकलिङ्गी (ङ्गि)विषयकाज्ञानजनकन्यायावयववाक्यत्वंप्रतिज्ञात्वमित्यत्रापिप्रतिज्ञालक्षणे नव्यत्यासः नव्युत्तरज्ञेयः [169 B] | तथा चलिङ्गविषयकज्ञानजनकत्वनियतावयवान्यन्यायावयवत्वम्, तदन्यार्थो नब्, तेन नाव्याप्तिरुक्तप्रतिज्ञायामित्यर्थः / ननु क्वचित् पुस्तके न्यायावयवपदं नास्ति किन्तु वाक्यपदमेव श्रूयते। लिङ्गविषयकज्ञानजनकनियतावयवान्यलिङ्गिधीपरवाक्यत्वमित्येव लक्षणम् / तथा च पर्वतो वह्निमान् इति आप्तवाक्येऽतिव्याप्तिरित्यत आहयदि चेति टीका / यदि च न्यायावयवपदमत्र नास्ति केवलं वाक्यपदमेव तर्हि वाक्यपदमेव न्यायावयवपरं