________________ 337 प्रतिज्ञानिरूपणम् समाधत्ते - प्रतिवादीति। तथा चशब्दोऽनित्य इति वादिवाक्यम् अथ च शब्दो नित्य इति प्रतिवादिवाक्यम् अथ च शब्देऽनित्यत्वं साधय इति मध्यस्थस्य वाक्यम् इत्येतादृशैर्वाक्यैर्विप्रतिपत्तिवाक्यस्य व्यवहितत्वात् तजन्योपस्थितिन हेतुवाक्यार्थान्वयबोधसमर्था / ननु समयबन्धा(न्धम्) अथ च मध्यस्थवाक्यं विनापि कथा प्रवर्तताम् / तथा च व्यवधानाभावात् विप्रतिपत्तिवाक्योपस्थित एवार्थो हेतुवाक्यार्थेन सहान्वेष्यतीत्यत आह - परविप्रतिपत्तीति / तथा च समयबन्धमध्यस्थवाक्यैर्विना स्थापनैव नास्ति / यदि चैकस्य नित्यत्वपक्षोऽथ चान्यस्यानित्यत्वपक्षस्तदनन्तरं मध्यस्थस्य सन्देहस्तदनन्तरं मध्यस्थो वदति अनित्यत्वे प्रमाणं वद इति / मध्यस्थप्रमाणाकाङ्क्षायां शब्दानित्यत्वं साधय इति शब्दानित्यत्वं स्थाप्यम् / एवं च यदि तादृशमध्यस्थवाक्यप्रमाणाकाक्षे यदिनस्तस्तदास्थापनैवनास्तीतिस्थापनायाएवाभावात्कथं न्यायावतारः। दूषणान्तरमाह - विप्रतिपत्तीतिमूलम्। तथा च विप्रतिपत्तिवाक्यं [168A]पक्षपरिग्रहमात्रेण निराकाङ्क्षन हेत्वाद्यन्वययोग्यम् / एतदेवाह - पक्षेति मूलम् / पर्यवसिततयेति मूलम् / तथा च वाक्यस्यापर्यवसाने सति आकाङ्क्षावाक्यस्य पर्यवसाने तु निराकाङ्क्षमेव। अतएवाभिधानाऽपर्यवसानम् आकाङ्क्षाइतिआकाङ्क्षालक्षणमुक्तम्। एतावता प्रतिज्ञाऽपि साधनाङ्गमित्युक्तं भवति / ननु मध्यस्थस्य प्रमाणाकाङ्क्षायां सत्यां पूर्वोक्तविप्रतिपत्ति]वाक्यस्याऽऽवृत्तिः कर्तव्या यथा शब्दोऽनित्यः / तथा च आवृत्ते वाक्योपस्थितेऽर्थे हेत्वन्वयो भविष्यति किं प्रतिज्ञावाक्येनेत्यत आह - आवृत्तौ त्विति / यदि विप्रतिपत्त्येकदेशस्य शब्दोऽनित्य इत्यस्य आवृत्तिः क्रियते तदा इयमावृत्तिरेव प्रतिज्ञा, इति सिद्धं प्रतिज्ञापि साधनाङ्गमिति।नचेति मूलम्। ननु अवयवान्तरादेव हेत्वन्वययोग्या साध्योपस्थितिर्भविष्यतीत्याशङ्कां निराकरोति-नचेति।तथा चहेत्वन्वययोग्यसाध्योपस्थिति स्तिअवयवान्तरे साध्यस्य विधेयत्वाभावात् / विधेयतया साध्योपस्थितिः पर्वतो वह्निमान् इति रूपा, सैव हेत्वन्वययोग्या, न चैतादृशं विधानमवयवान्तरेऽस्तीति भावः / न त्ववयवान्तरात् हेत्वादेः साध्यस्य आक्षेपो भविष्यतीत्यत आह - नापीति मूलम् / हेतुरूपावयवेन तदाक्षेपः सापेक्षो न भवति / कुतः ? तथा सति अन्योन्याश्रय इत्याह - साध्यान्वयेति मूलम्।साध्यान्वये सति कुतः साध्यमत्रेत्याकाङ्क्षायां हेतोरभिधानम्, हेत्वभिधाने चहेतोरन्वये च हेत्ववयवात् साध्याक्षेप इत्यन्योन्याश्रय इत्यर्थः / उपसंहरति - तस्मादिति मूलम् / आक्षेपोऽनुपपत्तिः / अप्रतीतानुपपत्तिः प्रतीतानुपपत्तिर्वा / आद्यार्थस्तु ज्ञानमेव न जायते इति कृत्वा आक्षेपः / द्वितीयार्थस्तु ज्ञातस्य पदार्थस्य याऽनुपपत्तिः सा प्रतीतानुपपत्तिः / इदमुभयमत्र नास्ति। साध्योपस्थितिं विना हेत्वभिधाने आकाङ्क्षा नास्ति इति कृत्वा साध्यानुपस्थितौ हेत्वन्वय एव नास्तीति हेत्वन्वये प्रतीतानुपपत्तिरपि नास्ति।नापि हेतुः प्रतीतो यतो हेत्वभिधाने आकाङ्क्षव नास्ति इति कृत्वाप्रतीतानुपपत्तिरपि नास्ति / तस्माद् हेत्ववयवात् साध्याक्षेपो नास्तीति कृत्वाऽवयवान्तरेणआक्षेपात् साध्योपस्थितिर्न सम्भवति किन्तुप्रतिज्ञावाक्य एव सम्भवतिइत्याशयः।