________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ग्रन्थेनेत्यर्थः / मतान्तरमाशक्य दूषयति - एतेनेति मूलम्।शब्द इति मूलम्। लिङ्गीति मूलम्। लिङ्गिधीपराणि / लिङ्गिशब्देन साध्यम् / तथा च पक्षे साध्यवत्ताप्रतिपादकानि वाक्यानि प्रतिज्ञावाक्यानि तजन्यं यद् ज्ञानं तद्वृत्तिः एवम्भूता अथ च कृतकत्वादीनि हेतूदाहरणोपनयनिगमनादिवाक्यानि तजन्यज्ञानावृत्तिर्या जातिः अथ चाप्तवाक्यजन्यज्ञानावृत्तिरित्यपि बोध्यम् / तादृशी या जातिः तद्वद् यद् ज्ञानं तज्जनकं यद् वाक्यं सा प्रतिज्ञा / एतेन तदपि निरस्तमित्यन्वयः / पूर्वोक्तमेव दूषणम् / तथाहि विजातीयज्ञानविशेषजनकत्वं सर्वासु प्रतिज्ञास्वनुगतरूपमन्तरेण न सम्भवति / तज्ज्ञानमपि न सम्भवति / न च प्रतिज्ञात्वं जातिरनुगतं रूपमिति वाच्यं जातिसङ्करोक्तेः / उपाधिरपि ज्ञानविशेषजनकत्वं स चात्र न सम्भवति / अनुगतरूपमन्तरेण ज्ञानविशेषजनकत्वं यदनुगतरूपं तन्न सम्भवतीति निरासार्थः / अत्राशङ्कते - नन्विति मूलम् / प्रतिज्ञा न साधनाङ्गम् न न्यायाङ्गमित्यर्थः / कुतः ? ननु यदि प्रतिज्ञा न साधनाङ्गं तदा हेत्वाकाङ्क्षा कथं भविष्यतीत्यत आह - विप्रतिपत्तेरिति मूलम् / तथा च विप्रतिपत्तिर्विरुद्धार्थप्रतिपादकं वाक्यं शब्दो नित्यो न वेत्यादिरूपम् / तया विप्रतिपत्त्या एकोऽनित्यत्वपक्षोऽपरो नित्यत्वपक्षस्तत्परिग्रहे सति तत्र तस्मिन् एकपक्षपरिग्रहे प्रमाणाकाङ्क्षायां हेत्वभिधानमेवोचितम्। तथा चहेत्वादयश्चत्वारएव न्यायावयवाः सन्तु न प्रतिज्ञेत्याशङ्कार्थः [167 B|समाधत्ते - विप्रतिपत्तीति / न केवलं विप्रतिपत्त्यनन्तरमेव कथा प्रवर्तते किन्तु विप्रतिपत्त्यनातरं] समयबन्धानन्तरम् / समयबन्ध ईदृशो मयाऽनित्यत्वं साधनीयं त्वया नित्यत्वं साधनीयमिति / समयबन्धे जाते सति तदनन्तरं मध्यस्थस्यापि यद् वाक्यं शब्देऽनित्यत्वं साधय इति रूपमिति / मध्यस्थवाक्यानन्तरं वादिना शब्दानित्यत्वं साधनीयम् / तत्र यदि साध्यपक्षनिर्देशं विनापि हेतुवाक्यस्य प्रयोगः क्रियते तदा हेतुवाक्यं निराकाङ्क्षम् अन्वयबोधासमर्थमिति कृत्वाऽवश्यं पूर्वं पक्षे साध्यनिर्देशरूपा प्रतिज्ञा कर्तव्या, अन्यथा तया विना अनाकाक्षिताभिधानेऽनित्यत्वसाधकवादिनो निग्रह एव भविष्यतीतिप्रतिज्ञाऽपि साधनाङ्गम्। निष्प्रतियोगीति मूलम्। अन्वयप्रतियोग्युपस्थितिं विनान्वयबोधासमर्थमित्यर्थः / अत्र शङ्कते -नचेति मूलम्। तथाचवादिवाक्ये हेतुवाक्ये परस्य प्रतिवादिनोऽनुपस्थिता(तम)पि पक्षसाध्यादिकं योग्यतयाऽन्वेति इति न च वाच्यमित्यन्वयः। समाधत्ते - अतिप्रसङ्गादिति मूलम्।यदिप्रतिवादिनोवादिवाक्याज्जायमाने ज्ञानेऽनुपस्थितमपियोग्यतयाऽन्वेति तदाऽतिप्रसङ्गः / तथाहि - यदि प्रतिज्ञावाक्यं न प्रयोक्तव्यं तदा हेत्वादिवाक्यान्यपि न प्रयोक्तव्यानि, केवलं निगमनमेव प्रयोक्तव्यम्, हेत्वादिवाक्यानां योऽर्थः सोऽनुपस्थित एव योग्यतया निगमनार्थेऽन्वेष्यति किं हेत्वादिवाक्यप्रयोगेणेत्यतिप्रसङ्गः / तथा च यदि प्रतिवादिनोऽनाप्तत्वेन वाक्यादनुपस्थितार्थो नान्वेतीति हेत्वादिप्रयोगः कर्तव्यस्तदा प्रतिज्ञाप्रयोगोऽपि कर्तव्य इति तुल्यम् / शङ्कते - न चेति मूलम् / तथा च विप्रतिपत्त्या शब्दानित्यत्वोपस्थितौ सत्यांतत्र हेत्वाकाङ्क्षायांप्रतिज्ञावाक्यं विनाऽपिहेतुप्रयोगो भविष्यतिकिंप्रतिज्ञावाक्येनेत्याशङ्कार्थः /