________________ प्रतिज्ञानिरूपणम् 335 मुदाहरणादावप्यस्ति, अतो लिङ्गाविषयकेति / लिङ्गाविषयकज्ञानजनकत्वमात्रमुदासीने घटम् आनय इति आप्तवाक्येऽतिव्याप्तम्, अतो न्यायावयवेति पदम् / अवयवान्तरेऽतिव्याप्तिं निरस्यति - इतरावयवानामिति मूलम्।हेत्वाद्यवयवानामित्यर्थः। तथाचहेत्वाद्यवयवानां लिङ्गविषयकज्ञानजनकत्वात् नातिव्याप्तिस्तत्रेत्यर्थः / मतान्तरमाह - प्रतिज्ञात्वमितिमूलम्।प्रतिज्ञात्वजातिमतीप्रतिज्ञेतिलक्षणं भवति।प्रतिज्ञात्वंचशब्दत्वावान्तरजातिविशेषः / एतजातिसाधकमाह - अनुगतेति / यथा सर्वासु गोव्यक्तिषु ऐन्द्रियगवाकारानुगतव्यवहारात् गोत्वं जातिस्तथा सर्वासु प्रतिज्ञासु प्रतिज्ञा' 'प्रतिज्ञा' इत्यनुगतैन्द्रियकव्यवहारात् प्रतिज्ञात्वमपि जातिरेव / ऐन्द्रियकेति पदम् / अन्यथा पृथिवीत्वं परमाणुसाधारणी जातिरपि आनुमानिकानुगतव्यवहारादेव सिद्धयेत् / तेनानुमानिकानुगतव्यवहारमात्रेणैव यदि पृथिवीत्वं जातिः सिद्धयेत् तदा किमर्थं गन्धसमवायिकारणतावच्छेदकत्वेन पृथिवीत्वजातिसाधनम् व्यर्थं स्यात् इत्यतोऽऽनुमानिकोऽनुगतव्यवहारो जातिसाधको न भवतीत्यत ऐन्द्रियकानुगतव्यवहारो जातिसाधक इत्युक्तम् / दूषयति - देवदत्तप्रभवत्वादीति मूलम् / तथा च प्रतिज्ञात्वं न जातिः देवदत्तप्रभवत्वेन सङ्करात् / तथाहि - देवदत्तशरीरप्रयोज्या या शब्दनिष्ठा विलक्षणा जातिर्यादृशजातिविशिष्टशब्देन देवदत्तीयत्वादिकमनुमानं क्रियते अयं शब्दो देवदत्तीयो विजातीयशब्दत्वात् विजातीयशब्दः शरीरजन्य इति कृत्वा देवदत्तशब्दनिष्ठा या जातिः सा देवदत्तशरीरप्रयोज्या इति कृत्वा तया सह सङ्करः / तथाहि - यत्र यत्र देवदत्तशरीरप्रयोज्या जातिस्तत्र तत्र प्रतिज्ञात्वमेव नास्ति। उदासीने घटम् आनय इति देवदत्तीयवाक्ये देवदत्तशरीरप्रयोज्या जातिस्तिष्ठति, प्रतिज्ञात्वं नास्ति / यत्र यत्र प्रतिज्ञात्वं तत्र तत्र देवदत्तशरीरप्रयोज्या [167 A] जातिरेवं नास्ति, चैत्रप्रतिज्ञायां देवदत्तशरीरप्रयोज्या जाति स्ति। उभयं च देवदत्तप्रतिज्ञायामस्तीति सङ्करः / एतदेवाह - जातीति मूलम् / मतान्तरे प्रतिज्ञालक्षणं दूषयति - प्रतिज्ञाजन्यमिति मूलम् / तथा च प्रतिज्ञावाक्यात् विजातीयमेव शाब्दज्ञानमुत्पद्यते तथा च तादृशं प्रतिज्ञावाक्याद् यद् ज्ञानं तदेव विजातीयं ज्ञानम्, तादृशविजातीयज्ञानविशेषजनकवाक्यं प्रतिज्ञा / ज्ञानविशेषे प्रतिज्ञाजन्यतावच्छेदिकाऽनुगता जातिस्तदा स्यात् यदि प्रतिज्ञा-ज्ञानविशेषयोरनुगतकार्यकारणभावः स्यात् / प्रतिज्ञायां यदाऽनुगतं रूपं नास्ति तदा प्रतिज्ञाज्ञानविशेषयोः कथं कार्यकारणभावः स्यात्। तथा चकार्यकारणभावाभावे ज्ञानविशेषजनकं वाक्यं प्रतिज्ञेति कथं स्यात् / एतदेवाह - तज्ज्ञानजनकत्वमिति मूलम् / प्रतिज्ञावाक्यादेर्यद् विजातीयं ज्ञानमुत्पद्यते तद् ज्ञानं प्रति या प्रतिज्ञावाक्यानां सर्वेषां जनकता साऽप्यनुगतरूपं सर्वासु प्रतिज्ञासु यावत्पर्यन्तं नास्ति तावत्पर्यन्तं जनकताज्ञानमपि न सम्भवतीति प्रतिज्ञावाक्येषु अनुगतरूपमपि न सम्भवति ज्ञानविशेषजनकत्वज्ञानमपि न सम्भवतीति विजातीयज्ञानविशेषजनकत्वरूपं लक्षणमशुद्धमित्यर्थः / तथा च लक्षणमपि न सम्भवति लक्षणज्ञानमपि न सम्भवतीत्यर्थः / एतदेवाह - उक्तस्यैवेति मूलम् / पूर्वमुक्तं न्याये प्रतिज्ञादौ वाऽनतिप्रसक्तेनेत्यनेन