________________ 334 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वृत्तिजातियोगिज्ञानजनकवाक्यं प्रतिज्ञेति निरस्तम्। ननुप्रतिज्ञानसाधनाङ्गं विप्रतिपत्तेः पक्षपरिग्रहे तत्र प्रमाणाकाङ्क्षायां हेत्वभिधानस्य प्राथम्यादिति चेत्, न, विप्रतिपत्त्यग्रे हि समयबन्धानन्तरं शब्दानित्यत्वं साधयेति मध्यस्थस्य वादिनो वाकाङ्क्षायां शब्दानित्यत्वं साध्यम्, न च साध्यनिर्देशं विना हेतुवाक्यं निष्प्रतियोगिकमन्वयं बोधयितुमीष्टे। न च वादिवाक्येऽनुपस्थितमपि योग्यतया अन्वेति, अतिप्रसङ्गात्।न च विप्रतिपत्तित: साध्योपस्थिति:, तस्याः प्रतिवादिविप्रतिपत्त्या प्रमाणादिव्यवस्थया चान्तरितत्वात् परविप्रतिपत्तिं समयबन्धं च विना स्थापनाया अभावात् विप्रति-. पत्तिवाक्यस्य पक्षपरिग्रहेण पर्यवसिततया निराकाङ्क्षत्वाच्च, आवृत्तौ तु सैव प्रतिज्ञा। नचावयवान्तरात् हेत्वन्वययोग्यासाध्योपस्थितिः, नाप्यवयवान्तरेणाक्षेपात्, साध्यान्वये तदभिधानं तदभिधाने च साध्यान्वय इत्यन्योन्याश्रयात् / तस्मात् प्रतीत्यनुपपत्त्या प्रतीतानुपपत्त्या वा नेहाक्षेपः / अन्ये तु शब्दानित्यत्वे प्रमाणं वदेति यदि मध्यस्थस्यानुयोगः तथापि प्रमाणमात्रे नाकाङ्क्षा किन्तु विशिष्टे, विशिष्टं तु विशेषणं साध्यमनभिधायनशक्याभिधानम्।नचवस्तुतोयत्साध्यंतत्र प्रमाणंवदेति मध्यस्थनियोगः, वादिद्वयमध्ये तदसम्भवात् तस्मात् साध्याभिधानं विना न हेतोराकाङ्क्षा, न वान्वयबोधकत्वमिति प्रतिज्ञा साधनाङ्गमिति। कुत इत्यत आह - अबाधितेति मूलम् / [166 B] तथा चाबाधितासत्प्रतिपक्षितत्वज्ञानमेव विनिगमनेनोत्पद्यते, तेनाबाधिताऽसत्प्रतिपक्षितत्वविषयकं यद् वहिव्याप्यपक्षधर्मत्वज्ञानं तदेव चरमलिङ्गपरामर्शः / प्रतिज्ञाया लक्षणान्तरमाह - हेत्वभिधानेति। हेत्वभिधानप्रयोजिका या जिज्ञासा तज्जनकं यद् वाक्यं भवति तत्त्वम् / कुत इति कुतो हेतोरिति एतादृशी या हेत्वभिधानप्रयोजिका जिज्ञासा तजनकत्वं वर्तते / अत्र हेत्वभिधानप्रयोजिका जिज्ञासा तज्जनकत्वं वर्तते / अत्र हत्वभिधानप्रयोजकजिज्ञासाजनकवाक्यत्वम् / अत्र वाक्यपदमवयववाक्यपरम्।वाक्यत्वमुदाहरणाद्यवयवेष्वतिव्याप्तमतो हेत्वभिधानेत्यादि।हेत्वभिधानप्रयोजकजिज्ञासाजनकत्वमात्रमुदासीनवाक्येऽतिव्याप्तमतो वाक्यपदमवयववाक्यपरं तदिति। प्रतिज्ञाया लक्षणान्तरमाह - लिङ्गाविषयकेति मूलम् / तथा च लिङ्गाविषयकज्ञानजनको यो न्यायावयवः सप्रतिज्ञा / न्यायावयवत्वमात्र