________________ 333 प्रतिज्ञानिरूपणम् अथ मूलम् / अन्यूनानतिरिक्तेति मूलम् / उत्तरदले उद्देश्यानुमित्यन्यूनानतिरिक्तेत्यादिदले उद्देश्यानुमित्यन्यूनानतिरिक्तेत्यंशं परित्यज्य लिङ्गाविषयकशाब्दज्ञानजनकत्वमेव लक्षणम् / लिङ्गं विषयो न विद्यते यस्मिन् तल्लिङ्गाविषयकम् / एवम्भूतं यत् शाब्दज्ञानं पर्वतो वह्निमान् इत्येवरूपं तज्जनकं यद् वाक्यम् / अन्येषां हेत्वाद्यवयवानां लिङ्गविषयकशाब्दज्ञानजनकत्वात् सर्वत्र प्रतिज्ञातिरिक्तस्थले लिङ्गविषयकत्वमेवेति नातिव्याप्तिः / आप्तवाक्येऽतिव्याप्तिवारणाय पूर्वोक्तमुद्देश्यादि सत्यन्तमत्र लक्षणे विशेषणं ग्राह्यमेव / लिङ्गाविषयकस्येत्यस्य प्रयोजनमाह - तेनेति टीका। लिङ्गाविषयकपदेनेत्यर्थः / उदाहरणादिवाक्यं तु लिङ्गविषयकशाब्दज्ञानजनकमेवेति न तत्रातिव्याप्तिः / ननु निगमनैकदेशे तस्माद्वह्निमान् इत्यंशे लिङ्गाविषयकशाब्दज्ञानजनकत्वं वर्ततेऽतो हि तत्रातिव्याप्तिरित्यत आह - निगमनं चेति मूले। चकारः कटाक्षे। तथा च यत्र निगमनं सम्पूर्णमपि न परामर्शहेतुः कुतस्तदेकदेशः परामर्शहेतुरित्यर्थः / तथा चोद्देश्यानुमितिहेतुभूतो यः परामर्शः उपनयजन्यः परामर्शो वहिव्याप्यधूमवांश्चायमिति रूपः तज्जनकत्वं निगमनस्य नास्ति कुतो निगमनावयवस्य तज्जनकत्वम् ? तथाहि - प्रतिज्ञाहेतूदाहरणोपनयैर्मिलित्वा एकमनुमितिरूपं हेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानमुत्पाद्यते।वहिव्याप्यधूमवांश्चायमित्येतादृशपरामर्शजनकीभूतंशाब्दज्ञानमुत्पाद्यते। तदनन्तरं निगमनेनानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानमुत्पाद्यते यथाऽबाधिताऽसत्प्रतिपक्षिवहिव्याप्यधूमवान् अयम् इति चरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानं जन्यते तथा च निगमनेऽनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वं वर्तते परमनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वं नास्ति / यतः तेन चरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानमेव जन्यते न तु अनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानम् / तेन निगमने नातिव्याप्तिरिति भावः। ... अबाधितासत्प्रतिपक्षितत्वज्ञानजनकत्वात् / हेत्वभिधानप्रयोजकजिज्ञासाजनकवाक्यत्वंवा।लिङ्गाविषयक-लिङ्गिविषयकज्ञानजनकन्यायावयववाक्यत्वंवा इतरावयवानां लिङ्गविषयकज्ञानजनकत्वात् / प्रतिज्ञात्वं जाति: अनुगतानतिप्रसक्ततान्त्रिकव्यवहारादिति केचित्, तन्न, देवदत्तप्रभवत्वादिना जातिसङ्करप्रसङ्गात्, प्रतिज्ञाजन्यं विजातीयं ज्ञानं व्यवहारादिति तजनकं वाक्यं प्रतिज्ञेत्यपि न, तज्ज्ञानजनकत्वं जनकत्वज्ञानं वा नानुगतरूपमन्तरेण सम्भवतीत्युक्तस्यानुसरणीयत्वात् / एतेन शब्दोऽनित्य इति लिङ्गिधीपरवाक्यजन्यज्ञानवृत्तिकृतकत्वादित्यादिवाक्यजन्यज्ञाना