________________ 332 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विवक्षितः किंवा हेत्ववयवत्वाद्यवच्छेदेन वा / आद्ये आह - तादृशेति टीका / तादृशी या प्रतिज्ञा इत्यादि / धूमकालीनः पर्वतो वह्निमान् इत्यादिप्रतिज्ञायामेतत्प्रतिज्ञाद्यवच्छेदेन लिङ्गविषयकज्ञानजनकत्वमेव वर्तते इति कृत्वातदन्यत्वंनास्तीतिप्रतिज्ञायामव्याप्तिः।द्वितीयमुट्टक्य दूषयति- अथेतिटीका।यदि हेत्ववयवत्वाद्यवच्छेदेन लिङ्गविषयकज्ञानजनकत्वनियतत्वं विवक्षितंतथाचधूमकालीनेत्येतत्प्रतिज्ञाव्यक्त्यवच्छेदेन लिङ्गविषयकज्ञानजनकत्वनियतत्वं वर्तते तथापि पर्वतो वह्निमान् इत्यादिप्रतिज्ञायां लिङ्गविषयकत्वेत्यादि नास्ति / अतः प्रतिज्ञात्वावच्छेदेन तन्नास्तीति कृत्वा नाव्याप्तिः एवं चेत् तर्हि यथाश्रुतमेवास्तु / तथाहि लिङ्गाविषयकज्ञानजनकतावच्छेदकं यदवयवत्वंतद्वत्त्वंप्रतिज्ञात्वमिति तथा चैतत्सर्वस्यां प्रतिज्ञायांवर्तते, कथम् ? लिङ्गाविषयकज्ञानजनकतावच्छेदकं प्रतिज्ञात्वम्, तद्वत्त्वं तु धूमकालीनेत्यादिप्रतिज्ञायामप्यस्ति इति भावः / दूषयति - प्रतिज्ञात्वस्येति / प्रतिज्ञात्वस्यैव लक्ष्यतावच्छेदकत्वेनैव तदपरिचये लक्ष्यतावच्छेदकापरिचये प्रतिज्ञात्वावच्छेदेन लिङ्गाविषयकज्ञानजनकत्वमेव ग्रहीतुं न शक्यते यत आदौ प्रतिज्ञात्वमेव न ज्ञातं तदा कथं प्रतिज्ञात्वावच्छेदेन लिङ्गाविषयकज्ञानजनकत्वं ग्राह्यं तथा चान्योन्याश्रयो भविष्यति / यतः प्रतिज्ञात्वे ज्ञाते प्रतिज्ञात्वावच्छेदेन लिङ्गाविषयकज्ञानजनकतावच्छेदकत्वग्रहः तस्मिन् चलिङ्गाविषयकज्ञानजनकतावच्छेदकत्वग्रहे सति च एतद्घटितप्रतिज्ञात्वम् इति प्रतिज्ञात्वग्रहः इत्यन्योन्याश्रयः / ननु विवक्षितेऽपि लिङ्गविषयकज्ञानजनकत्वनियतावयवान्यत्वरूपेऽन्योन्याश्रयो भविष्यति, यतो हेत्ववयवत्वे ज्ञाते सति हेत्ववयवत्वावच्छेदेन लिङ्गविषयकज्ञानजनकत्वनियमो ग्राह्यः तस्मिंश्च गृहीते तद्घटितं लिङ्गविषयकज्ञानजनकत्वनियतावयवान्यत्वं प्रतिज्ञात्वंतद्भिन्नत्वंप्रतिज्ञावयवभिन्नत्वंचहेत्ववयवत्वादिकमित्यन्योन्याश्रयमित्यतआह- हेत्ववयवादेस्त्विति टीका / हेतुरूपो हेतुवचनरूपो धूमवान् इति रूपो योऽवयवस्तदादेः, तथा च लिङ्गविषयकज्ञानजनकत्वं हेत्ववयवत्वावच्छेदेन ग्राह्यम् / एवमुदाहरणाद्यवयवत्वाद्यवच्छेदेन लिङ्गविषयकत्वं यथा यो यो धूमवान् स वह्निमान् इति / हेत्ववयवत्वं च न प्रतिज्ञाघटितम् / कथम् ? यदि [166 A] प्रतिज्ञेतरावयवत्वं हेत्वाद्यवयवमित्युच्यते तदा प्रतिज्ञाघटितं स्यात्, तथा न कृतम्, अतो नप्रतिज्ञाघटितम्, किन्तु अग्रे तेषां लक्षणं प्रतिज्ञाद्यघटितमेव करिष्यति किन्तु पञ्चम्यन्तेत्यादिनैवाग्रे ज्ञानं भविष्यतीति भावः / एतदेवाह - लक्षणान्तरप्रमितत्वेनेति / लक्षणान्तरं पञ्चम्यन्तेत्यादि / तदवच्छेदेन हेत्ववयवत्वावच्छेदेनैव लिङ्गविषयकज्ञानजनकत्वं सुग्रहमेव। अन्यूनानतिरिक्तपदं विहाय लिङ्गाविषयकत्वं वा ज्ञानविशेषणं तेनोदाहरणादिव्युदासः, निगमनं च न परामर्शहेतुः /