________________ प्रतिज्ञानिरूपणम् [165 A] / अनुमित्यपेक्षया प्रतिज्ञावाक्यार्थजन्ये बोधेऽतिरिक्तविषयकत्वमेव, पक्षसाध्यसंसर्गस्यापि प्रतिज्ञावाक्येऽतिरिक्तस्यापिभानात्। अत्रापिसत्यन्तप्रयोजनमाह-न्यायप्रविष्टेति।पर्वतोवह्निमान् इति उदासीनवाक्ये आप्तवाक्ये लिङ्गाविषयकशाब्दज्ञानजनकत्वं वर्तते परन्तु न्यायजन्यवाक्यार्थज्ञानजनकत्वं नास्तीति नाप्तवाक्येऽतिव्याप्तिः / अवयवान्तरे हेत्ववयवादौ अतिव्याप्तिवारणाय लिङ्गाविषयकेति हेत्वाद्यवयववाक्यं लिङ्गविषयकमेवेति न तत्रातिव्याप्तिः / ननु प्रतिज्ञालक्षणे शाब्दपदं व्यर्थमित्यत आह - स्पष्टार्थमिति टीका। तथा च शाब्दपदस्य न तथाविधं प्रयोजनमित्यर्थः / ननु तथापि प्रतिजैकदेशे पर्वत इत्यंशेऽतिव्याप्तिः यतो न्यायजन्यं यद् वाक्यार्थज्ञानं तजनकत्वं प्रतिज्ञैकदेशेऽप्यस्तीति कृत्वा तत्रातिव्याप्तिवारणाय वाक्यपदम् / ननु प्रतिजैकदेशोऽपि वाक्यं भवत्येवेत्यत आह - वाक्यपदमिति टीका। अवयवावयवव्यतिरिक्तत्वे सतीत्यर्थः / प्रतिज्ञैकदेशस्तुअवयवावयवएवेतिनतत्रातिव्याप्तिः। वक्ष्यमाणदोषभियाव्याचष्टे-लिङ्गाविषयकज्ञानजनकत्वं चेति टीका।लिङ्गाविषयकज्ञानजनकत्वमित्येतस्यायमर्थः - लिङ्गविषयकज्ञानजनकत्वनियतो योऽवयवस्तदन्यत्वे सतीत्यर्थः / तेन हेत्वाद्यवयवे तु लिङ्गविषयकज्ञानजनकत्वनियतत्वमेव वर्तते इति न तत्रातिव्याप्तिः / ननु तथापि सदोषो वक्ष्यमाणदोषस्तदवस्थ एवेत्यत आह - तेनेति टीका। तेन हेत्वाद्यवयवचतुष्टयान्यत्वं लिङ्गाविषयकेति पदस्यार्थः / उक्तदोषमनुवदति - अन्यथेति टीका / यत्र प्रतिज्ञायां पृथिवी इतरेभ्यो भिद्यते इत्येवंरूपायां पृथिवीत्वमेव हेतुः पृथिवीत्वमेव पक्षतावच्छेदकम् / तस्यां प्रतिज्ञायां लिङ्गाविषयकत्वं नास्ति किन्तु लिङ्गा(ङ्ग)विषयकत्वमेवास्तीति कृत्वाऽव्याप्तिः। अत्राशङ्कते -नचेति लिङ्गतेति। पृथिवी इतरेभ्यो भिद्यते इति प्रतिज्ञायां पृथिवीत्वं लिङ्गं यद्यपि पक्षतावच्छेदकविधया भासते तथापि लिङ्गतावच्छेदकरूपेण तु न भासते। हेत्वाद्यवयवेतु पृथिवीत्वादित्यादौ हेतुतावच्छेदकरूपेणपृथिवीत्वादित्युच्यमाने पृथिवीत्वत्वेनरूपेण पृथिवीत्वं भासते। प्रतिज्ञावाक्ये तु शुद्धं पृथिवीत्वं भासते न तु पृथिवीत्वत्वेन रूपेण / ततस्तत्र नातिव्याप्तिरित्याशङ्कार्थः / समाधत्ते - धूमकालादेरिति / यत्र धूमकालीनः पर्वतः पक्ष इत्यत्र धूमकाल एव पक्षतावच्छेदकः कृतस्तत्र धूमत्वेनैव रूपेण धूमोऽपि भासते। तथा च तत्र हेतुतावच्छेदकरूपेण पृथिवीत्वं भासते। प्रतिज्ञावाक्ये तु शुद्धं पृथिवीत्वं भासते / प्रतिज्ञावाक्ये तु लिङ्गविषयकत्वं] नास्ति किन्तु लिङ्गाविषयकत्वमेवेति प्रतिज्ञावाक्ये 'पुनरव्याप्तिरेवेत्यर्थः / तस्मात् उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वे [165 B] सति लिङ्गविषयकत्वज्ञानजनकत्वनियतावयवान्यत्वं प्रतिज्ञात्वम् / तथा च प्रतिज्ञावाक्येऽव्याप्तिर्न भवति यतः प्रतिज्ञारूपोऽवयवो लिङ्गविषयकत्वनियतावयवभिन्नो भवत्येव लिङ्गविषयकत्वनियता अवयवा हेत्वादयस्तद्भिन्नत्वमस्त्येवेति।अत्राशङ्कते - नचेति टीका। विवक्षितेऽपीति टीका। विवक्षितं लिङ्गविषयकत्वज्ञानजनकत्वनियतावयवान्यत्वम् इति, विवक्षितेऽपि लिङ्गविषयकत्वज्ञानजनकत्वनियमो यः हेत्वादितत्तदवयवव्यक्त्यवच्छेदेन