________________ 330 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रकृते चानुमितिविषयः सर्वं प्रमेयमिति तदपेक्षयाऽधिको विषयोऽप्रसिद्धः सर्वप्रमेयातिरिक्तस्य वस्तुनोऽप्रसिद्धेः / तथा चातिरिक्तविषयाप्रसिद्धयाप्रतिज्ञालक्षणमस्यां प्रतिज्ञायामव्याप्तमित्याशङ्कार्थः / मध्ये शङ्कते-नचेति। तथा च तत्र विवाद एव नास्ति / यत्र विवादस्तत्रैव न्यायप्रवृत्तिः / ततोऽत्र न्यायप्रवृत्तेरभावात् कथं प्रतिज्ञात्वम् / समाधत्ते - अनुमित्सया हीति। तथा चानुमित्सयाऽपि न्यायावतारे प्रतिज्ञात्वं सम्भवत्येव। अनुमित्सया कुत्रापि न्यायप्रवृत्तिर्न दृष्टेत्यस्वरसादाह - भिन्नेति। यदि च सर्वं प्रमेयमित्यत्र सर्वथा संशय एव नास्ति तदा बाधकमाहअन्यथेति टीका / केवलान्वयिहेतुलक्षणं केवलान्वयिसाध्यकहेतुलक्षणमग्रेतनं विरुध्येत / [164 B] यदि केवलान्वयिसाध्यस्थले संशय एव नास्ति तदा तत्साध्यकंकेवलान्वयिसाध्यहेतुकरणं तद्विरुध्येत। भिन्नप्रकारकसंशयमुपपादयति - सत्त्वमिति। सर्वप्रमेयत्वस्य सर्ववृत्तित्वनिश्चये सर्वविशेष्यकप्रमेयत्वप्रकारकः सन्देहो मा भूत्, किन्तु प्रमेयत्वे सर्वपदार्थवृत्तित्वं वर्तते न वेति सन्देहो भवत्येव / तथा च भिन्नप्रकारकसन्देहेनापि विवादे न्यायप्रवृत्तौ प्रतिज्ञाकरणं सम्भवत्येवेति तत्राव्याप्तिः / अव्याप्त्यन्तरमप्याह - सत्त्वमिति टीका / तथा च सत्त्वं सर्वपदार्थवृत्ति / सर्वपदार्थवृत्तित्वं साध्यं केवलान्वयि न भवति / सर्वपदार्थवृत्तित्वस्याप्रसिद्ध्या लक्षणाव्याप्तिरिति भावः / प्रतिज्ञालक्षणे सिद्धान्तमाह - अनुमितीति टीका / अनुमित्यन्यूनानतिरिक्तस्येति कोऽर्थः ? अनुमितिविषयतासमव्याप्तविषयकत्वे सतीति विशेषणमनुमित्यन्यूनानतिरिक्तपदस्थाने दातव्यम् / अयमर्थः - तथा चोद्देश्यानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वे सति उद्देश्यानुमितिविषयतासमव्याप्तविषयकशाब्दज्ञानजनकत्वं प्रतिज्ञालक्षणम्। सत्यन्तम् आप्तवाक्ये पर्वतो वह्निमान् इति रूपेऽतिव्याप्तिवारणाय / आप्तवाक्ये उक्तरूपे सत्यन्तं नास्ति / तत्राहत्यैव चरमकारणपरामर्श उत्पद्यते। मध्ये मानसं ज्ञानं नोत्पद्यते इति न तत्र प्रयोजकत्वमिति भावः / आप्तवाक्येऽनुमितिविषयता पक्षस्य साध्यस्य चास्ति तत्समव्याप्ता विषयता वर्तते, पर्वतो वह्निमान् इत्येतस्माद्वाक्याज्जायमानं यत् शाब्दज्ञानं तत्रापिआप्तवाक्यशाब्दज्ञानजनकत्वं वर्तते / सा विषयता पर्वतेऽप्यस्ति वह्नावप्यस्तीति आप्तवाक्येऽस्तीति परं तत्र सत्यन्तत्वाभावान्नातिव्याप्तिः / उत्तरमूलं योजयति - यद्वेति टीका / समव्याप्तविषयताकत्वपक्षेऽप्यस्वरसं दर्शयति - प्रतिज्ञायामिति / तथा च पर्वतो वह्निमान् इति प्रतिज्ञायामनुमित्या सह समविषयताकत्वमपि नास्ति / तथाहि पर्वतो वह्निमान् इति प्रतिज्ञायां मतुबर्थः सम्बन्धः / तथा च मतुबर्थो वह्निसम्बन्धः, स च पदार्थस्तस्यापि संसर्गः संसर्गमर्यादया भासते / अनुमितौ च पर्वते वह्निसंसर्गमात्रमेव भासते न तु अनुमितौ वह्निसंसर्गसंसर्गः, यतोऽनुमितौ वह्निः प्रकारत्वेन भासते पर्वतो विशेष्यत्वेन भासते पर्वतवह्निसंसर्गस्तु संसर्गमर्यादया भासते / एतदेवाह - अनुमितौ त्विति टीका। तद्भाने संसर्गसंसर्गभाने इत्यर्थः / अनुमितौ तु संसर्ग एव भासते न तु संसर्गसंसर्गः / अनुमितौ पक्षसाध्यसंसर्ग एव भासते न तु पक्षसाध्यसंसर्गसंसर्गस्यापि भानमिति भावः / उपसंहरति - अनतिरिक्तेति टीका