________________ प्रतिज्ञानिरूपणम् 329 वाक्यपदम् / न च तदपि प्रकृतिप्रत्ययाभ्यां मिलित्वा वाक्यं भवत्येवेति अत आह - तथा चेति / तादृशज्ञानं पक्षतावच्छेदकसाध्यसामानाधिकरण्यावगाहि ज्ञानं पदसमुदायः / अथवा पूर्वोक्तोद्देश्यानुमितीत्यारभ्य शाब्दज्ञानपर्यन्तं तत्तादृशज्ञानमित्यर्थः / ननु वाक्यपदेन पदसमुदायत्वं कथं लब्धमित्यत आह - वाक्यपदस्येति टीका / वाक्यपदस्य पदसमुदायवाचकत्वादित्यर्थः / अत्राशङ्कते - न चेति। पर्वतो वह्निमान् धूमात् इत्यत्र वह्नि प्रति धूमस्य न कारकत्वं वह्वेधूमाजन्यत्वात् नापि ज्ञापकत्वं करणत्वशक्तायाः पञ्चम्या ज्ञापकत्वे लक्षणापत्तेः / न चेष्टापत्तिः सुब्विभक्तौ लक्षणानङ्गीकारात् / तत्रापि लक्षणाङ्गीकारे व्यत्ययानुशासनवैयर्थ्यं स्यात् / तथा च पञ्चम्यनन्विता स्यादितिं कृत्वा प्रतिज्ञायां ज्ञातव्यत्वलक्षणा, तेन पर्वतो वह्रिमान् इत्यस्य कोऽर्थः ? वह्निमत्तया ज्ञातव्यः पर्वतः। तथा च प्रतिज्ञाजन्ये बोधे वह्रिज्ञानं भासते। अनुमितौ वह्निज्ञानं न भासते किन्तु वह्निरेव भासते। ततः प्रतिज्ञावाक्यजन्यस्य बोधस्यानुमित्यन्यूनानतिरिक्तविषयता नास्ति किन्तु अनुमित्यपेक्षयाऽधिकविषयता तथा चासम्भव इत्याशङ्कार्थः / समाधत्ते - वह्निमानिति।वह्निमान् इत्यस्य हेत्वन्वयानुपपत्त्या हेतुत्वप्रतिपादकपञ्चमीविभक्त्यर्थान्वयानुपपत्त्या ज्ञातव्यत्वलक्षणया वाक्यार्थबोधात् पूर्वमन्वयानुपपत्तिप्राक्कालीनमुख्यार्थबोधमादायानुमित्यन्यूनानतिरिक्तविषयता प्रतिज्ञावाक्यस्योपपादनीया। [164 A] यथा लक्षणास्थले बोधद्वयम् - एकः प्राथमिकः शक्यार्थबोधः , तदनन्तरं लाक्षणिको बोधः / यथा यष्टीः प्रवेशयेत्यत्र यष्टीनां प्रवेशनान्वयबोधः शक्यार्थान्वयबोधः, तदनन्तरं पाकपदार्थोपस्थित्यनन्तरं निष्पन्ने पाके यष्टीनामनन्वयात् यष्टिपदस्य यष्टिधरे लक्षणा। तथाच यष्टिधरान्प्रवेशय इति द्वितीयोऽन्वयबोधः / तदनन्तरं प्रविष्टयष्टिधरप्रयोजनकः पाकइति तृतीयोऽन्वयबोधः / तद्वत् अत्रापिपर्वतो वह्निमान् एतस्माद्वाक्यात्प्रथमतः पर्वतवह्निवैशिष्ट्यावगाहि ज्ञानं शक्यों बोधः / तदनन्तरं वह्रिज्ञानं प्रति पञ्चम्यन्तधूमपदप्रतिपाद्यधूमनिष्ठहेतुत्वान्वयबोधस्तृतीयः' / तथा च वह्निज्ञानं(ने) धूमः कारणमिति यावत्।इति बोधप्रक्रिया। तथा चप्रतिज्ञाजन्यद्वितीयबोधमादायन लक्षणं योजनीयं किन्तु प्राथमिकबोधमादायैव लक्षणं योजनीयमिति नासम्भवः / एतदेवाह - प्राक्कालिकमुख्यार्थान्वयबोधेति टीका / मतान्तरमाह - केचित् त्विति / तथा च प्रतिज्ञावाक्ये ज्ञानलक्षणैव नास्ति / ननु तर्हि पञ्चम्यन्तहेतुत्वान्वयानुपपत्तिरिति चेन, हेतुत्वमपि न पञ्चम्याः शक्योऽर्थः, अपादाने पञ्चमीत्यनुशासनात् इत्यवधिः पञ्चम्याः शक्योऽर्थः / तथा चात्रावधित्वमनुपपन्नमिति कृत्वा ज्ञापकत्वे लक्षणा। न चैवं व्यत्ययानुशासनवैयर्थ्य स्यात् इति वाच्यम्।अन्यविभक्तेरननुशिष्टान्यविभक्त्यर्थे लक्षणा नास्ति। एतत्प्रतिपादनार्थं व्यत्ययानुशासनमपि सार्थकमिति इत्याहुरित्यस्यार्थः / शङ्कते - नन्विति। प्रतिज्ञा]लक्षणे शङ्केयम् / सर्वं प्रमेयम् इत्यत्र प्रतिज्ञा भवति परमत्र प्रतिज्ञालक्षणं न वर्तते / तथाहि अनुमित्यन्यूनानतिरिक्तविषयकेत्यत्र तादृशं शाब्दज्ञानं विवक्षितम् / 1. द्वितीयान्वयबोधप्रतिपादकं वाक्यं प्रतौ नास्ति /