________________ 328 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सर्वनाम्नो बुद्धिस्थवाचकत्वम्।तथा चयेन रूपेण बुद्धिस्थता तत्प्रकारकोपस्थितिः क्रियते तथा चपर्वतत्ववन्योः सामानाधिकरण्यं निगमने भासते तेन प्रतिज्ञाजन्यबोधापेक्षया निगमनस्यान्यूनविषयत्वं भवतीति कृत्वा निगमनेऽतिव्याप्तिः तद्वारणाय अनतिरिक्तपदम् / प्रतिज्ञावाक्यापेक्षया निगमनवाक्ये वह्निव्याप्यधूमवत्त्वादिकमप्यधिकंभासते इतिन निगमनेऽतिव्याप्तिः। ननु तथापि तस्माद्वह्निमान् इत्यत्र निगमनवाक्यस्थं तस्मादित्यंश परित्यज्य वह्निमान् अयम् इति निगमनैकदेशेऽतिव्याप्तिस्तदवस्थैवेत्यत आह - एवं चेति। एतन्मते अनतिरिक्तपदं येन प्रक्षिप्तं तन्मते निगमनावयवान्यत्वे सतीत्यपि विशेषणं दातव्यम् / तेन निगमनैकदेशे नातिव्याप्तिः / अथ प्रतिज्ञालक्षणे उत्तरदलस्थशाब्दपदंप्रयोजनमाह - न चेति शङ्केयम् / अत्र कस्यचित् समाधानमाह - घटशब्देति टीका / घटशब्दो गुणः द्रव्यकर्मान्यत्वे सति सत्त्वात् / अत्र घटशब्दो गुण इति प्रतिज्ञावाक्यम्, पञ्चम्यन्तं हेतुः / यत्र यत्र द्रव्यकर्मान्यत्वे सति सत्त्वं तत्र तत्र गुणत्वं यथा यदा घटशब्द गुण इत्ययमेव दृष्टान्तः कृतस्तदा प्रतिज्ञावाक्यमेव दृष्टान्तो जातः, तत्रोदाहरणैकदेशे प्रतिज्ञालक्षणस्यातिव्याप्तिः, दृष्टान्तवाक्यं प्रतिज्ञावाक्यसमानाकारकमिति तदा तत्राति(नि)वारकत्वात् / कथं शाब्दपदेन तद्वारणमित्यत आह - न हीति टीका / तस्येति टीका / तस्येति घटशब्दो गुण इति प्रतिज्ञावाक्यरूपदृष्टान्तस्य यदनुमितीत्यादि अनुमितिहेतुलिङ्गपरामर्शप्रयोजकवाक्यार्थज्ञानजनकत्वं यत् तत् शाब्दज्ञानजनकत्वेन नास्ति।नहि प्रतिज्ञारूपेण दृष्टान्तेन स्ववाक्यार्थज्ञानं जनयित्वा पश्चाद् उदाहरणजन्यबोधद्वारा परम्परयाऽनुमितिहेतुलिङ्गपरामर्शप्रयोजकवाक्यार्थज्ञानं जन्यते। स्वज्ञानत्वेनेति।घटशब्दो गुण इतिप्रतिज्ञावाक्यरूपदृष्टान्तस्य स्वज्ञानं दृष्टान्तस्य ज्ञानमात्रंन्यायजन्यमहावाक्यार्थबोधं प्रति स्वरूपसत्स्वज्ञानेनैवोपयुक्तम् न तु स्ववाक्यार्थबोधद्वारा / तथा च शाब्दपदे दत्तेऽनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकता यासाअनुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानत्वेन न किन्तु स्वज्ञानत्वेन[163B] यथा ध्वन्यात्मकशब्दस्य ज्ञानमात्रमुपयुक्तं तथा एतस्यापि ज्ञानमात्रमुपयुक्तं न तु एतद्वाक्यार्थज्ञानमुपयुक्तम् / एतदेवाह - विवक्षितं त्विति टीका / शाब्दज्ञानत्वेन रूपेण अनुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकत्वेन उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वं विवक्षितमित्यर्थः / दूषयति - तस्येति। प्रतिज्ञात्वेन सङ्ग्राह्यत्वात् यत्र प्रतिज्ञारूप एव दृष्टान्तः कृतस्तत्र सा प्रतिज्ञा भवत्येवेति कृत्वा तद्व्यावृत्त्यर्थं शाब्दपदं न देयमेव / ततः शाब्दपदं व्यर्थम् / उपसंहरति - तस्मादिति टीका / सम्पातायातं शाब्दपदं पूर्व व्याख्यातम् / अथ प्रतिज्ञालक्षणे वाक्यपदप्रयोजनमाह - पक्ष इति / पक्षवाचकं पदं साध्यवाचकं च पदम् / तत्र साध्यवाचके पदेऽतिव्याप्तिः / पक्षवाचकं पदं पर्वत इति पदम् / साध्यवाचकं पदं वह्रिरिति / प्रतिज्ञालक्षणस्थं पूर्वदलमप्यस्ति उत्तरदलमप्यस्ति / तथा च प्रतिज्ञाजन्ये बोधे स्वार्थज्ञानद्वारा वाक्यार्थबोधं प्रति उद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकत्वं तिष्ठति परं प्रतिजैकदेशे प्रतिज्ञात्वं नास्तीति अतिव्याप्तिवारणाय