________________ प्रतिज्ञानिरूपणम् 327 इति अनुमितिवाक्यम् एतदनुमित्यपेक्षया चैत्रोदाहरणवाक्यम् अन्यूनानतिरिक्तविषयकं भवतीति प्रतिज्ञालक्षणमुदाहरणवाक्येऽतिव्याप्तमिति स्पष्टोऽर्थः / तद्वारणायोत्तरदलस्थमुद्देश्यपदम्।।162 B] नन्वनुमितौ लिङ्गभानपक्षे तु असम्भवः / कथम् ? उद्देश्यानुमितिन्यूनविषयत्वमेव प्रतिज्ञावाक्यस्येत्यत आह - तद्भानपक्ष इति / अनुमितौ लिङ्गभानपक्षे तु असम्भववारणार्थमुद्देश्यपदम् / ननु तथाप्युद्देश्यपदे दत्तेऽपि पुनरसम्भवः तथाहि लिङ्गोपहितलैङ्गिकभानपक्षे इत्यर्थः / यद्विषयत्वेनेति टीका। तथा च यादृशे विषयांशेऽनुमितेरुद्देश्यत्वंतादृशांशेऽनुमितेरन्यूनानतिरिक्तविषयकत्वं विवक्षितमस्ति। तथा च धूमवत्त्वांशेऽनुमितेरुद्देश्यत्वं नास्ति किन्तु पर्वतवह्नयंश एव / तथा चाग्रिमदले याद्देश्यपदं त्यज्यते तदाऽसम्भव एव। यतो लिङ्गोपहितलैङ्गिकभानपक्षेप्रतिज्ञावाक्यजन्यबोधस्य धूमवत्त्वात् पर्वतो वह्निमान् इत्येवंरूपा या अनुमितिस्तदपेक्षयाऽपि न्यूनविषयत्वं वर्तते तदर्थमुद्देश्यपदम्। तथा चधूमवत्त्वांशेऽनुमितेरुद्देश्यत्वमेव नास्ति किन्तुपर्वतवयंश एव। तथा चपर्वतवह्नयंशे याऽनुमितिस्तदपेक्षया प्रतिज्ञावाक्यस्यान्यूनानतिरिक्तविषयकत्वमेवास्ति, एवमसम्भवो निरस्तः / एवं लिङ्गोपहितलैङ्गिकभानपक्षापक्षाभ्याम् अग्रिमोद्देश्यपदस्य व्यावृत्तिरुक्ता। अन्यूनपदस्य कृत्यमाह - प्रतिज्ञेति टीका / पर्वत इत्यस्मिन् भागे वावह्निमान् इत्यस्मिंन्भागेवाअतिव्याप्तिः। यथा - प्रतिज्ञावाक्यार्थबोधद्वारा सत्यन्तं तिष्ठति अनुमित्यपेक्षयाऽनतिरिक्तविषयताऽपि तिष्ठति, अनुमितौ पर्वतोऽपि भासते वह्निरपि भासते, अत्र खण्डे वाक्ये एकत्र वह्निर्भासते एकत्र पर्वतएवभासते इति कृत्वायावन्तोऽत्रभासन्ते तावन्तोऽनुमितावावाश्यंभासते(न्ते) इतिकृत्वाऽन्यूनपदम्, प्रतिज्ञैकदेशस्तु न्यून एवानुमित्यपेक्षया। अत्राशङ्कते - नचेति। तथा च अनतिरिक्तपदं व्यर्थम् अवयवान्तराणामुदाहरणादीनामन्यूनपदेनैव वारणात् / प्रतिज्ञायामधिकं पर्वतोऽपि भासते। तच्च कस्मिन्नप्यवयवान्तरे न भासत इत्याशङ्कार्थः। समाधत्ते - यत्रेतिटीका।यत्रयत्रपृथिवीतरभिन्नत्वाभावस्तत्र तत्रपृथिवीत्वाभाव इत्युदाहरणवाक्ये पृथिवीत्वस्य पक्षतावच्छेदकस्यापि भानात् / तत्रोदाहरणवाक्ये प्रतिज्ञावाक्यापेक्षयाऽन्यूनविषयत्वं तिष्ठति तत्र पक्षतावच्छेदकस्यापि भानात् इति तत्रोदाहरणैकदेशे यत्र पृथिवीतरभिन्नत्वाभाव इत्यादौ अतिव्याप्तिः / एतद् दूषयति - तत्रेति / प्रतिज्ञावाक्यजन्ये बोधे पृथिवी इतरेभ्यो भिद्यते इति रूपे पृथिवीत्वस्य इतरभेदस्य च सामानाधिकरण्यं भासते / उदाहरणैकदेशेऽभावस्य इतरभिन्नत्वं विशेषणम्, इतरभेदे च पृथिवीविशेषणम्, पृथिव्या च पृथिवीत्वं विशेषणम्, न तु एकस्मिन् विशेष्ये पृथिव्याम् इतरभेदः पृथिवीत्वं च विशेषणम् उदाहरणैकदेशजन्ये बोधे भासते येन तदुभयसामानाधिकरण्यबोधः स्यात्। तथा चोदाहरणैकदेशे पृथिवीत्वेतरभेदसामानाधिकरण्यस्याभानात् [163 A] प्रतिज्ञावाक्यजन्यबोधापेक्षया न्यूनत्वात् न तत्रातिव्याप्तिरिति भावः। स्वयं समाधत्ते - यदि चेति टीका / तस्माद् वह्निमान् अयम् इत्याकारकं निगमनम् / तत्र निगमनेऽतिव्याप्तिरिति तद्वारणार्थम् अनतिरिक्तपदम् / अनतिरिक्तविषयत्वमुपपादयति - अयमिति / तथा चायमिति सर्वनाम भवति