________________ 326 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका धूमवानिति पक्षः / प्रतिज्ञाक्रममादाय यत्र न्यायप्रवृत्तिः तत्र पर्वतो वह्रिमान् इति क्रममादाय न्यायप्रवृत्तिः / यो धूमवान् सोऽग्निमान् इति उदाहरणवाक्यं चैत्रमैत्रौ प्रति प्रतिज्ञा स्यात्, चैत्रमैत्रयोरुद्देश्याऽनुमितिः पर्वते वह्रिरिति, उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वम् उदाहरणवाक्ये चैत्रमैत्रयोरुदाहरणवाक्ये वर्तते / अनुमितीत्याद्युत्तरदलमपि तत्र वर्तते / कथम् ? यद्यपि पर्वतो वह्निमान् इत्युद्देश्यानुमितिस्तदन्यूनानतिरिक्तवृत्तिताविषयता उदाहरणवाक्ये नास्ति यतस्तत्र धूमोऽपि भासते तथापि चैत्रमैत्रयोरनुद्देश्यायां देवदत्तयज्ञदत्तयोः कथायामनुमितिर्यो धूमवान् स वह्निमान् इत्यादिरूपा [162 A] अनुमितिस्तदन्यूनानतिरिक्तविषयता एतस्योदाहरणस्य वर्तते, इदमुदाहरणं चैत्रमैत्रयोः प्रतिज्ञा स्यात् / तदर्थं द्वितीयमुद्देश्यपदम् / तथा च यस्यां कथायां प्रतिज्ञात्वमापादनीयं तस्यां कथायां या उद्देश्यानुमितिः पर्वतो वह्निमान् इत्यादिरूपा तदन्यूनानतिरिक्तविषयता एतस्योदाहरणवाक्यस्य नास्ति किन्तु अनुद्देश्या याऽनुमितिः यो यो धूमवान् सोऽग्निमान् इति रूपा तदन्यूनानतिरिक्तविषयत्वमेव तिष्ठति इति कृत्वा उदाहरणावाक्ये नातिव्याप्तिः / एतदेवाह - अग्रेऽपीति टीका / तथा चोद्देश्यानुमितिपरम्पराप्रयोजकन्यायवाक्यान्तर्गतोदाहरणस्य यो धूमवान् सवह्निमान् इत्यादिरूपस्य यो धूमवान् स वह्निमान् इत्याद्यनुमित्यन्यूनानतिरिक्तविषयकत्वं यद्यपि वर्तते तथापि उद्देश्यानुमितिरेवेयं न भवति। उद्देश्यानुमितिस्तु पर्वतो वह्निमान् इत्येव न तु धूमवान् वह्निमान् इतिरूपा। तथा चोद्देश्यपदेनैव तद्वारणम्। ननु उद्देश्यपदे दत्तेऽपि असम्भवः / कथम् ? धूमवत्त्वाद् वह्निमान् इति उद्देश्यानुमितिः, एतादान्यूनानतिरिक्तवृत्तिता प्रतिज्ञायां नास्ति / लिङ्गोपहितलैङ्गिकभानं धूमवत्त्वाद् वह्रिमान् इति रूपम् / तत्र प्रतिज्ञावाक्यजन्ये बोधे लिङ्गं न भासते यतो वह्रिमान् इत्येव प्रतिज्ञावाक्यम् / ततोऽनुमित्यपेक्षया न्यूनविषयत्वं प्रतिज्ञावाक्यजन्यबोधस्येत्यसम्भव इत्यत आह - लिङ्गाभानपक्षे इति टीका / तथा च यन्मते लिङ्गोपहितलि(लै)ङ्गिकभानपक्षो नास्ति तन्मते / चिन्तामणिकारमते उद्देश्यानुमित्यन्यूनानतिरिक्त विषयकत्वं प्रतिज्ञावाक्यस्य वर्तते एवेति कृत्वा नासम्भव इति / एतदर्थमिति टीका / न्यायान्तरस्थप्रतिज्ञाया यो धूमवान् स वह्निामानि]त्यादिरूपायाः पर्वतो वह्निमान् इत्यादिन्याये प्रतिज्ञात्वं मा भूदित्यर्थः / तथा च यो धूमवान् स वह्निमान् इति प्रकृतन्याये उदाहरणवाक्यम् न्यायान्तरे चेदं प्रतिज्ञावाक्यम् / प्रकृतन्याये यो धूमवान् स वह्रिमान् इत्युदाहरणवाक्यस्य प्रतिज्ञात्वं स्यात्, यो धूमवान् सो वह्निामानि]त्याद्यनुमितिस्तदनुमित्यन्यूनानतिरिक्तविषयता तिष्ठति / प्रकृतानुमितिरुद्देश्यानुमितिः पर्वतो वह्रिमान् इत्यादिका। तदनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वमुदाहरणवाक्यस्यास्ति इति अतिव्याप्तिवारणार्थं द्वितीयमुद्देश्यपदम् / तथाहि चैत्रमैत्रयोर्वादे उद्देश्यानुमितिः पर्वतो वह्निमान् इति रूपा / देवदत्तयज्ञदत्तयोर्विवादे प्रतिज्ञावाक्यं यो धूमवान् सोऽग्निमान् इति वह्निव्याप्यत्वात् / तस्मात् धूमवान् वह्निमान् 1. वाचस्पतिमते / प्रतौ टिप्पणी।