________________ प्रतिज्ञानिरूपणम् 325 नजातिः। यदिचानुगतकार्यकारणभावाभावेऽपिजातिस्तदाभूतत्वमपि मूर्तत्वेन सह परस्परविरहसमानाधिकरणजातिद्वयसमावेशलक्षणा जातिः स्यात् / तथा च सङ्करे सति जातिर्न भवति / सङ्करे दूषकताबीजमिदमेव / सास्नाजन्यां गोव्यक्तिं विहाय यदि गोत्वमन्यत्राश्वादिव्यक्तौ तिष्ठति तदा गोत्वस्य जातित्वमेव न सिद्धयति / जातिर्हि सा सिद्धयति याऽनुगतकार्यकारणभावबलात् सिद्धयति / यदि च गोत्वं गोव्यक्तिं विहाय सुणर्वगवि तिष्ठति तदा सास्नात्वेन गोत्वेन कार्यकारणभावबलात् गोत्वं जातिः सिद्धयति। गोत्वं यदि सास्नादिजन्यव्यक्तिं विहायापि तिष्ठति तदा सास्नाद्यनुगतः कार्यकारणभाव एव न सिद्धयेत् इति कृत्वा गोत्वं जातिरेव न सिद्धयेत् / इदमेव जातिसङ्करबीजम् / गोत्वं जातिः सास्नाद्यनुगतकारणता जन्यतावच्छेदकत्वेनायाति / यदि गोत्वे पृथिवीत्वेन सह जातिसङ्करस्तदा गोत्वं पृथिवीं विहाय सुवर्णगवि चेत् तिष्ठति तदा सास्नाजन्यतावच्छेदकत्वमेव जातिः यत्र च सास्नाजन्यता नास्ति तत्रापि गोत्वस्य विद्यमानत्वात् / व्यभिचारिणः कारणत्वाभावात् गोत्वस्य जातित्वमेव व्याहतं स्यात्। प्रतिज्ञालक्षणे सत्यन्तप्रयोजनमाह - अत्रेति।न्यायेऽप्रविष्टं न्यायबहिर्भूतमित्यर्थः / तथा च न्यायबहिर्भूतं [161 B] यत् प्रतिज्ञासमानाकारम् आप्तवाक्यं पर्वतो वह्निमान् इत्यादिरूपं तत्रातिव्याप्तिः तद्वारणाय सत्यन्तम्।उद्देश्यानुमित्यन्यूनातिरिक्तविषयकं यत् शाब्दज्ञानं तज्जनकत्वम् आप्तवाक्येऽपि तिष्ठतीति / उद्देश्यानुमितिरपिपर्वते वह्निवैशिष्ट्यावगाहिनी।आप्तवाक्यादा जायमानो बोधोऽपिपर्वते वह्निवैशिष्ट्यावगाहीति कृत्वाऽतिव्याप्तिः तद्वारणाय सत्यन्तम् / तथा चाप्तवाक्ये उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकवाक्यार्थज्ञानजनकत्वंनास्तिकिन्तु उद्देश्यानुमितिहेतुलिङ्गपरामर्शजनकवाक्यार्थज्ञानजनकत्वमेववर्ततेन तुप्रयोजकत्वम् / ननु सत्यन्ते वाक्यार्थपदं व्यर्थमित्यत आह - वाक्यार्थपदमिति टीका / सम्पातायातं व्यर्थमित्यर्थः / प्रथमोद्देश्यपदव्यावृत्तिमाह - न्यायान्तरेति टीका / यत्र चैत्रमैत्रौ विवादिनौ तयोः कथायां चैत्रेणोक्तम् पर्वतो वह्रिमान् इति। अपरत्र देवदत्तयज्ञदत्तयोः चैत्रमैत्रौ त्वाप्तौ। तत् कथायां सा प्रतिज्ञा न भवति, देवदत्तयज्ञदत्तौ प्रति चैत्रमैत्रयोरनाप्तत्वाभावात्। तथा च तद्वारणाय प्रथमोद्देश्यपदम्। तेन चैत्रमैत्रयोर्या प्रतिज्ञा सा देवदत्तयज्ञदत्तौ प्रति चेत्आपाद्यते तदा उद्देश्यानुमिति इत्याद्यंदलं नास्ति। चैत्रमैत्रौ प्रतियाप्रतिज्ञा तस्याः प्रतिज्ञायाः देवदत्तयज्ञदत्तयोर्या उद्देश्यानुमितिस्तद्धताभूतेत्यादि दलमेव नास्ति। कथम् ? न हि चैत्रेणोच्चारिता पर्वतो वह्निमान् इति प्रतिज्ञा सा स्ववाक्यार्थज्ञानद्वारा देवदत्तयज्ञदत्तयोर्महावाक्यार्थज्ञानमुत्पादयति। महावाक्यार्थज्ञानेन च मानसं विशिष्टवैशिष्ट्यावगाहि ज्ञानं तेन चानुमितिहेतुचरमलिङ्गपरामर्श इति अयं क्रमस्तदा स्यात् यदि देवदत्तयज्ञदत्तयोः चौत्रमात्रौ अनाप्तौ स्याताम्, तत् तु नास्ति इति न तत्रातिव्याप्तिः। द्वितीयोद्देश्यपदस्य व्यावृत्त्यमाह - पर्वत इति टीका। चैत्रमैत्रयोविवादः पर्वतो वह्निमान् इत्यादिर्जायते / यत्र च देवदत्तयज्ञदत्तौ प्रति यो धूमवान् सोऽग्निमान् 1. सुवर्णगवे। “गोरतद्धितलुकि'' इति टचि सिद्धयति /