________________ 324 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वह्निमान् इत्येतस्यां प्रतिज्ञायां वर्तते / तथाहि इदं प्रतिज्ञावाक्यम्, तत् हि पर्वते वह्निवैशिष्ट्यावगाहिनी याऽनुमितिः यथा पर्वते वह्निरिति तद्धेतुभूतो यो लिङ्गपरामर्शः वहिव्याप्यधूमवान् चायम् इति रूपः तस्य कारणं मानसं ज्ञानं तस्य कारणं महावाक्यार्थज्ञानमिति प्रयोजकत्वं तजनकं भवति प्रतिज्ञावाक्यम् / कथम् ? प्रतिज्ञावाक्यार्थज्ञानद्वारा न्यायजन्यवाक्यार्थबोधे न्यायजन्यवाक्यस्य कारणत्वात् / अथ चोद्देश्या याऽनुमितिः पर्वते वह्निवैशिष्ट्यावगाहिनी तदन्यूनानतिरिक्तविषयकं यत् शाब्दज्ञानं तजनकं भवति प्रतिज्ञावाक्यम् / शेषं टीकायाम्। पूर्वं यत् त्विति ग्रन्थे मूले उक्तं परामर्शप्रयोजकवाक्यत्वेनाप्तवाक्यमपि न्यायोऽस्तु तदनुपपन्नं प्रयोजकत्वं जनकजनकत्वं न तु जनकत्वम्। तथा च आप्तवाक्यं जनकमेव, तस्मादाहत्य वाक्यार्थबोध एव भवति न तु मध्ये मानसंज्ञानमिति तेन लिङ्गपरामर्शप्रयोजकत्वमेवाप्तवाक्ये नास्ति कथमाप्तवाक्यं न्याय एवेति मूलं सङ्गच्छते इत्यत आह टीकायाम् - प्रयोजकत्वमिति। तथा चैतन्मते प्रयोजकत्वं जनकेऽपि तिष्ठति जनकजनकेऽपि तिष्ठति। तत आप्तवाक्यमपिपरामर्शजनकत्वेन परामर्शप्रयोजकमिति तदपि न्यायत्वेन लक्ष्यमिति। ननु मूले उक्त(म्) अन्यथा चक्षुरादेरपि न्यायत्वापत्तिरिति तदयुक्तम् / चक्षुरादौ परामर्शजनकत्वेऽपि परामर्शजनकवाक्यत्वाभावादित्यत आह - वाक्यत्वास्यापीति टीका / परामर्शप्रयोजकवाक्यत्वं न्यायत्वमित्यत्र वाक्यत्वं किमर्थं प्रवेशनीयम्, [161 A] परामर्शप्रयोजकत्वेनैव न्यायत्वमस्तु विनिगमकाभावादित्यर्थः / ननु चक्षुरादौ आकाङ्क्षादिकं नास्तीति किन्तु तत्स्वरूपसदेव परामर्शहेतुः आप्तवाक्ये तु आकाङ्क्षादिकं तिष्ठति इत्येवं वैषम्यादाप्तवाक्यं न्यायो न तु चक्षुरादिकमित्यत आह - विशिष्टवैशिष्टयेति टीका / प्रतिज्ञावाक्यानन्तरं हेतोरेवाकाङ्क्षा न तु व्याप्तिविशिष्टस्य हेतोः पक्षे वैशिष्ट्याकाङ्क्षा / तथा च न्यायत्वप्रयोजिका इयमेवाकाङ्क्षा, विशिष्टवैशिष्ट्ये या आकाङ्क्षा सा तु प्रथमतः चक्षुरादावपि नास्ति आप्तवाक्येऽपि नास्ति उभयं न न्याय इत्यर्थः / अन्यथेत्यस्य मूलस्य परामृश्यमाहजातीति टीका / तथा चानुगतः कार्यकारणभावो यः स एव जातिस्वीकारे बीजं यथा दण्डत्वेन घटत्वेनानुगतो वर्तते इति कृत्वा तद् द्वयं जातिर्दण्डत्वं [घटत्वं] च न तु घटपटोभयसाधारणा एका काचन, इतरव्यावृत्ता स्तम्भादिव्यावृत्ता जाति स्ति, अतो घटपटोभयसाधारणः कार्यकारणभावो नास्तीति कृत्वा नैका जातिः। तद्वत् अत्रापि सर्वेषु न्यायवाक्येषु तजन्यबोधेषु चानुगतः कार्यकारणभावो नास्ति इति कृत्वा जाति स्ति / अनुगतकार्यकारणाभावे यदि जातिः स्यात् तदा जातिसङ्करप्रसङ्गः यथा भूतत्वमूर्तत्वयोः / यतो भूतत्वम् अनुगतकार्यस्य कारणतावच्छेदकं न भवति अनुगतकारणस्य कार्यतावच्छेदकमपि न भवति इति कृत्वा भूतत्वं 1. अनुमितिरपि पर्वते वह्निवैशिष्ट्यावगाहिनीति प्रतिज्ञावाक्यात् जायमानो बोधोऽपि पर्वते वह्निवैशिष्टयावगाहीति अन्यूनानतिरिक्तविषयकः तथा चानुमितिरन्यनानतिरिक्तविषयिका। प्रतौ टिप्पणी।