________________ प्रतिज्ञानिरूपणम् 323 विवक्षामाह - पञ्चावयवेति / आप्तवाक्याद् विजातीयमेव शाब्दज्ञानमुत्पद्यते / एवं पञ्चावयववाक्यादपि विजातीयं शाब्दज्ञानमुत्पद्यते। एवं च शृङ्गग्राहिकान्यायेन विजातीयशाब्दज्ञानविशेषजनकवाक्यत्वमेव न्यायत्वम्। तथा चयथान्यायवाक्यात् विजातीयंशाब्दज्ञानमुत्पद्यते तथा आप्तवाक्यात्नोत्पद्यते किन्तु आप्तवाक्यात् विजातीयमेव शाब्दज्ञानमुत्पद्यते यथाऽनुभवसिद्धविलक्षणमधुरत्वावान्तरजातिविशेषवद्रसजनकत्वमिक्ष्वादौ शर्करादौ तु तद्विलक्षण एव रसः, एवं चाप्तवाक्ये नातिव्याप्तिः / यथा न्यायवाक्यस्य विलक्षणशाब्दज्ञानविशेषजनकत्वं वर्तते तथा आप्तवाक्ये नास्तीति न तत्रातिव्याप्तिरिति भावः / एवं न्यायलक्षणोक्तरीत्या प्रतिज्ञादिलक्षणान्यप्याह - प्रतिज्ञादीति मूलम् / यथा पर्वतो वह्रिमान् इति आप्तोक्तवाक्यापेक्षया प्रतिज्ञावाक्यस्यापि विजातीयशाब्दज्ञानजनकत्वंतदाप्तवाक्येऽपिनातिव्याप्तिः। एवं पञ्चभिरवयवैः पञ्चविलक्षणानि ज्ञानान्युत्पाद्यन्ते, तत्तद्ज्ञानविशेषजनकत्वं तत्तदवयवत्वम् / तद्धीति / परस्परविक्षणधीजनकशब्दत्वमेव अवयवत्वम् / दूषयति - तन्नेतिमूलम्। ज्ञानविशेषेति। तथा चन्यायवाक्ये विलक्षणज्ञानजनकतावच्छेदकात् ज्ञाने ज्ञानविशेषजनकत्वं ग्रहीतुंनशक्यते।कथम् ? न्यायवाक्ये विलक्षणशाब्दज्ञानविशेषजनकतान्यायवाक्यत्वेन रूपेणग्रहीतुं न शक्यते येन न्यायवाक्यत्वस्यैवेदं निर्वचनम् / नापि वाक्यत्वेन तस्य न्यायवाक्यातिरिक्ताप्तवाक्यादावपि वृत्तिामादतिप्रसङ्गः ।नापितत्तद्वाक्यत्वेन तत्तन्न्यायवाक्यत्वं यद्यप्याप्तवाक्ये नास्ति तथापि तत्सर्वेषुन्यायवाक्येष्वेकं नास्तीति नावच्छेदकम्, एवं प्रतिज्ञादिवाक्येष्वपि जनकता ग्रहीतुं न शक्यते इत्यर्थः / एतदेवाह - न्याये इति मूलम् / न्याये न्यायवाक्ये प्रतिज्ञादौ चावयवे। अनतिप्रसक्तमिति। वाक्यत्वं त्वतिप्रसक्तमित्यर्थः / अनुगतरूपमिति / तत्तद्वाक्यत्वम् एतद्वाक्यत्वमित्यादिरूपं त्वननुगतमिति नावच्छेदकमित्यर्थः / ननु तत्तच्छाब्दज्ञानविशेषजनकतावच्छेदको जातिविशेषो न्यायवाक्ये एवं प्रतिज्ञादिवाक्येष्वपि तथाविधो जातिविशेषो भविष्यतीति तेनैव तज्जनकताग्रहो भविष्यतीत्यत [160 B] आह - अन्यथेति मूलम् / जातिसङ्करो यथा चैत्रशरीरप्रयोज्यशब्दनिष्ठजातिविशेषेण सह सङ्करः / यत्र यत्र चैत्रशरीरप्रयोज्यशब्दनिष्ठो जातिविशेषस्तत्र तत्र न्यायत्वं नास्ति। यत्र यत्र न्यायत्वं तत्र तत्र चैत्रशरीरप्रयोज्यशब्दनिष्ठो जातिविशष एवं नास्ति। मैत्रन्यायवाक्ये न्यायत्वं तिष्ठतीति तत्र चैत्रशरीरेत्यादि नास्ति / उभयमपि चैत्रन्यायवाक्येऽप्यस्तीति सङ्करः अतोऽस्मदुक्ताम्] एवानुमितिचरमकारणेत्यादिन्यायलक्षणं समीचीनम् / अथ न्यायलक्षणमुक्त्वा प्रतिज्ञालक्षणमाह - तत्रेति मूलम् / प्राचीनकृतं प्रतिज्ञालक्षणं दूषयति - साध्यनिर्देशेति / साध्यप्रतिपादकशब्द इति भावः / दूषयति - साध्येति / तथा च वह्निमान् इति साध्यप्रतिपादकपदेऽतिव्याप्तिः / प्रतिज्ञालक्षणे सिद्धान्तमाह - उद्देश्येति। उद्देश्यानुमितिहेतुभूतो यो लिङ्गपरामर्शस्तत्प्रयोजकं यद् वाक्यार्थज्ञानं न्यायजन्यवाक्यार्थज्ञानं तजनकत्वे सति अथ चोद्देश्या याऽनुमितिस्तदन्यूनानतिरिक्तविषयकं यत् शाब्दज्ञानं तज्जनकं यद् वाक्यं सा प्रतिज्ञेत्यर्थः / इदं लक्षणं पर्वतो