________________ 322 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तुन्यायटितत्वात् नाप्तवाक्यावयवेऽतिव्याप्तिरित्यर्थः ।कुत इत्यत आह - तेनचेतिमूलम्। तेनाप्तवाक्येनेत्यर्थः / [159 B] / आप्तवाक्येन वहिव्याप्यधूमवान् चायम् इतिरूपेण साक्षादेव वहिव्याप्यधूमवान् अयम् इति ज्ञानं शाब्दबोधात्मकं जायते / तदवयवेनेति मूलम् / आप्तवाक्यावयवेन परामर्शजनकं व्याप्तिज्ञानं जन्यते / तथा च एकत्राप्तवाक्येऽनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकत्वाभावात् यतः तेन साक्षादेव परामर्शो जन्यते न तु तस्य परामर्शप्रयोजकत्वम्, अपरत्राप्तवाक्यावयवे साक्षात् परामर्शजनकं यद् व्याप्तिज्ञानं तज्जननात् नातिव्याप्तिरित्यर्थः / मतान्तरमाशक्य दूषयति - यत् त्विति। तथा चाप्तवाक्यमपि न्याय एवेति तद्वारणाय / यत् प्रयोजकत्वं तत्] जनकजनकमात्रनिष्ठमेव न तु जनकनिष्ठम्, तेन यत् त्विति पक्षे प्रयोजकत्वं जनकेऽपि तिष्ठतु जनकजनकेऽपि तिष्ठतु / न्यायवाक्ये लिङ्गपरामर्शजनकं यद् मानसं ज्ञानं तज्जनकं यत् शाब्दं ज्ञानं तज्जनकत्वंतुन्यायवाक्यस्यास्ति।आप्तवाक्यस्य साक्षात् लिङ्गपरामर्शजनकत्वमादाय प्रयोजकत्वम्, तेन मानसं ज्ञानं न जन्यते इत्येव विशेषः, तथा च सोऽपि वह्रिव्याप्यधूमवान् इत्येवमाकार; शब्दः सोऽपि न्याय एवेति न तत्रातिव्याप्तिः प्रयोजकपदेन कारणकारणमात्रस्याविवक्षणात् कारणत्वस्यापि विवक्षणात् / तद् दूषयति - कथायामिति। तथा च कथायां विवादे आकाङ्क्षाक्रमेण यावदेव वादिनोऽपेक्षितं तावदेव वक्तव्यम्, तेन पर्वतो वह्निमान् इति प्रतिज्ञावाक्यानन्तरं हेतुरेवाकाक्षितः स एव वक्तव्यः / आप्तवाक्यस्थले तु क्रम ईदृशो नास्ति वादस्थले तु क्रमो वर्तते / आप्तेन तु प्रथमत एव वहिव्याप्यधूमवान् इत्युच्यते इति कृत्वा वादिवाक्यमेव न्यायस्तथाविधाऽऽकाङ्क्षावत्त्वात् / एतदेवाह - प्रथामा मिति / तथा च वादिवाक्ये प्रतिज्ञानन्तरं हेतोरेवाकाङ्क्षा नतु व्याप्तिविशिष्टस्य पक्षधर्मत्वबोधनार्थमुापानयाकाङ्क्षा वह्रिव्याप्यधूमवान् चायम् इत्युपनयाकाङ्क्षा। प्रथममिति उदाहरणवाक्यात् पूर्वमित्यर्थः / विशिष्टवैशिष्टये उपनयरूपे धूमः पर्वतस्य विशेषणत्वं तस्य धूमस्य विशेषणं वह्रिव्याप्तिरिति विशिष्टवैशिष्टयं तत्राकाङ्क्षा प्रथमं नास्तीत्यन्वयः। प्रतिज्ञादिवाक्यात् पूर्वमेव यदि आप्तवाक्यवत् विशिष्टवैशिष्ट्यरूपोपनयप्रयोगः क्रियते तदा बाधकमाह - तदभिधान इति मूलम् / प्रथमत एवोपनयाभिधाने निग्रहात् वादिनो निग्रहो भवेत् / आप्तवाक्ये तु अयं नियमो नास्ति किन्तु तत्र प्रथमतो वह्रिव्याप्यधूमवान् अयम् इत्येव प्रयोगः क्रियते / ननु लाघवात् परामर्शप्रयोजकवाक्यत्वेनैव न्यायत्वमस्तु न तु परामर्शजनकजनकशाब्दज्ञानजनकत्वेनेत्यत आह - अन्यथेति मूलम् / यत्र प्रतिज्ञादिक्रमस्तत्रैव तान्त्रिकाणां न्याय इति व्यवहारः / यदि च तान्त्रिकव्यवहारमनादृत्य केवलं लाघवमाश्रित्य परामर्शप्रयोजकवाक्यत्वेन [160 A] न्यायता तदा वाक्यत्वमपि परित्यज्य परामर्शजनकत्वमात्रेण चक्षुरादीनामपि न्यायताऽस्तु इत्यर्थः / आप्तवाक्यापेक्षया चक्षुरादौ आकाङ्क्षाविरहे कोऽपि विशेषो नास्ति / तथा च प्रतिज्ञादिक्रमाभावात् चक्षुरादिकं यथा न न्यायस्तथा आप्तवाक्यमपिनन्याय इतिप्रघट्टकार्थः।मतान्तरमाह - अन्येत्वितिमूलम्।आप्तवाक्यस्य न्यायत्वव्यावृत्त्यर्थमेव