________________ 321 न्यायलक्षणनिरूपणम् तावत्पदेभ्य एकदैव तावत्पदार्थस्मृतौ सत्याम् एकदैव वाक्यार्थबोधो जायते / तत्र चावयववाक्यार्थबोधस्य खण्डवाक्यार्थबोधस्य महावाक्यार्थबोधेऽपेक्षैव नास्ति। तथा चावयवलक्षणमसम्भवग्रस्तम्। कुतः ? अवयववाक्यार्थबोधस्य महावाक्यार्थबोधे कारणत्वाभावादित्यत आह - एतच्चेति टीका / तथा च यन्मतेऽवान्तरवाक्यार्थज्ञानं महावाक्यार्थज्ञाने कारणमस्ति तन्मते इदं लक्षणं योजनीयम् / अन्यथा बाधकमाह - यदि चेति टीका। तावत्संस्कारमेलकात् यदि तावतां पदानां समूहालम्बनरूपास्मृतिस्तदनन्तरम्एकदैव महावाक्यार्थबोधस्तदा खण्डवाक्यार्थज्ञानस्य महावाक्यार्थज्ञाने कारणत्वाभावात् / उक्तलक्षणेऽवयवलक्षणेऽसम्भव एव स्यादित्यर्थः / अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनकवाक्यत्वमवयवत्वम् / अत एव वह्निव्याप्यधूमवान् अयम् इति वाक्ये तदवयवे च न न्यायतदवयवलक्षणातिव्याप्तिः तेन परामर्शस्य तदवयवेन परामर्शजनकस्य जननात् / यत् तु संक्षेपतः परामर्शप्रयोजकवाक्यत्वेन विशेषाभावात् सोऽपि न्याय ऐवति, तन्न, कथायामाकाकाक्रमेणाभिधानमिति प्रथमं विशिष्टवैशिष्टय आकाङ्क्षा नास्तीति तदभिधाने निग्रहादिति वक्ष्यते / अन्यथा चक्षुरादेरपि परामर्शजनकतया न्यायत्वापत्तिः आकाङ्क्षाविरहस्तुल्य एव।अन्ये तु पञ्चावयववाक्यात् विजातीयमेवशाब्दज्ञानमुत्पद्यते इति तद्धीजनकवाक्यत्वं न्यायत्वम्, एवं प्रतिज्ञाद्यवयवादपि प्रत्येकं विजातीयं शाब्दज्ञानमिति तत्तद्धीजनकशब्दत्वमेव तत्तल्लक्षणमिति, तन्न, ज्ञानविशेषजनकत्वं तत्तज्ज्ञानजनकत्वं वा न्याये प्रतिज्ञादौ चानतिप्रसक्तमनुगतरूपमन्तरेण दुर्निरूपमिति तत्स्वीकारे तस्यैव लक्षणत्वात् अन्यथा जातिसङ्करप्रसङ्गः / तत्र प्रतिज्ञा न साध्यनिर्देश: साध्यपदेऽतिव्याप्तेः किन्तु उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकवाक्यार्थज्ञानजनकत्वे सति उद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकं वाक्यम्। ___ मूले अत एवेति / वह्रिव्याप्यधूमवान् इति आप्तवाक्ये न्यायलक्षणस्य नातिव्याप्तिः / तदवयवे इति / वहिव्याप्यधूमवान् इत्येतस्य योऽवयवो वह्रिव्याप्यधूम इत्यादिरूपः तत्र तदवयवलक्षणस्यातिव्याप्तिर्नास्ति / कुतः ? न्यायलक्षणस्यानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकत्वघटितत्वात् नातिव्याप्तिः / अवयवलक्षणस्य 1. मणिकारमते / प्रतौ टिप्पणी।