________________ 320 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका - पर्वतो वह्निमान् इत्येतादृशे प्रतिज्ञारूपेऽवयवे वर्तते / पूर्वोक्तन्यायलक्षणोक्तरीत्याऽनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकं यत् शाब्दज्ञानं न्यायजन्यं शाब्दज्ञानं तजनकं यत् शाब्दज्ञानं तत् प्रतिज्ञावाक्यजन्यमपि भवतीत्येवं हेत्वाद्यवयवजन्यानि पञ्च शाब्दज्ञानानि भवन्ति तज्जनकत्वं पञ्चावयवेषु वर्तते इति लक्षणसङ्गतिः। लाघवादाह - न्यायजन्यज्ञानपरमिति। तथा चलाघवाद् न्यायजन्यज्ञानजनकं यत्शाब्दज्ञानं प्रतिज्ञावाक्यादिशाब्दज्ञानंतजनकत्वं पञ्चस्वपिवाक्येषुवर्ततइति एतावदेवलक्षणंसुस्थम्।न्यायजन्यशाब्दज्ञानजनकशाब्दज्ञानजनकपदकृत्यं यथा शाब्दज्ञानजनकं वाक्यम् अवयवी इत्येवास्तु, तदा न्यायबहिर्भूते आप्तवाक्येऽतिव्याप्तिः तद्वारणाय न्यायजन्यशाब्दज्ञानजनकेति पदम्। एतदेवाह - न्यायबहिर्भूतमिति टीका / अत्राशङ्कते - न चेति / तथा चन्यायजन्यशाब्दज्ञानस्य जनकं यथाऽवयववाक्यजन्यं शाब्दज्ञानं जनकं भवति तथाऽवयवावयवजन्यमपि शाब्दज्ञानं भवत्येव।तथा चन्यायजन्यं शाब्दज्ञानम् अवयवावयवजन्यं शाब्दज्ञानं तज्जनकत्वं त्ववयवावयवेऽपि वर्तत एवेति कृत्वा तत्रातिव्याप्तिरित्याशङ्कार्थः / समाधत्ते - तस्येति। तस्यावयवावयववाक्यस्य न्यायजन्यज्ञानजनकेति। तथा न्यायजन्यं यत् शाब्दज्ञानं सम्पूर्णन्यायजन्यं तजन्यं यत् शाब्दज्ञानम् अवयवजन्यं शाब्दज्ञानं तज्जन्यं यत् शाब्दज्ञानम् अवयवावयवजन्यं शाब्दज्ञानं तजनकत्वम् अवयवावयवे वर्तते न तु न्यायजन्यशाब्दज्ञानजनकशाब्दजनकत्वम् / यतः प्रथमतोऽवयवावयवजन्यं वाक्यार्थज्ञानं तदनन्तरमवयवजन्यं वाक्यार्थज्ञानं तदनन्तरं महावाक्यजन्यं शाब्दज्ञानं पर्वतीयवह्रिज्ञानकारणीभूतज्ञानविषयो धूमो वह्रिव्याप्योऽबाधितविषयोऽसत्प्रतिपक्षश्चेति [159 A] महावाक्यजन्यो बोधः तज्जनकत्वं तु अवयवजन्ये वाक्यार्थबोधे वर्तते, न तु अवयवावयवजन्ये वाक्यार्थबोधे तस्यावयवावयवजन्यवाक्यार्थः (र्थ)बोधस्यावयववाक्यार्थबोधेनान्यथासिद्धत्वादित्यर्थः ।अतिव्याप्त्यन्तरमपि निराकरोति - अत एवेति टीका। कण्टकोद्धार इति।नायमाभासः इति कण्टकोद्धारवाक्यम् / अनेनापि कण्टकोद्धारवाक्येनाबाधितत्वज्ञानं शाब्दरूपं तदेव च योग्यताज्ञानमित्याहुः / तस्यापीति।कण्टकोद्धाररूपवाक्यस्य न्यायजन्यं यद् ज्ञान महावाक्यजन्यं ज्ञानंतजनकं यद् व्याप्तिज्ञानं तज्जनकं यद् योग्यताज्ञानं तज्जनकत्वंकण्टकोद्धारस्यापि वर्तत इति परं कण्टकोद्धारवाक्यस्य न्यायजन्यं यद् ज्ञानं तजनक यद् व्याप्तिज्ञानं तज्जनकत्वं नास्ति किन्तु योग्यताज्ञानजनकत्वमेव तस्येति न तत्रातिव्याप्तिः / ननु अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्देत्यत्र शाब्दपदम् अथवा न्यायजन्यज्ञानजनकशाब्दज्ञानजनकवाक्यत्वमवयवत्वमित्यत्रापिशाब्दपदं व्यर्थम्।कुतः ? वाक्येन न्यायजन्यज्ञानजनकमुत्पादनीयं तत्तु शाब्दातिरिक्तमिति शाब्दपदं व्यर्थमित्यत आह - सम्पातायातमिति टीका।सम्पातः करणापाटवं तेन भ्रमादुक्तं व्यर्थमित्यर्थः / अथ वाक्यपदव्यावृत्तिमाह - आत्मादाविति / आत्मादीनां सर्वज्ञानजनकत्वात् तत्रातिव्याप्तिः तद्वारणार्थं वाक्यपदम्। आत्मनि तु वाक्यत्वं नास्तीति नातिव्याप्तिः / ननु तावत्पदेभ्यो यावन्ति पदानि सम्पूर्णे न्यायवाक्ये वर्तन्ते