________________ न्यायलक्षणनिरूपणम् 319 व्यग्रत्वात् मानसं विशिष्टवैशिष्टयज्ञानं नोत्पद्यते तदभावे च कथं चरमः परामर्श इति न तत्रातिव्याप्तिरित्यर्थः / न्यायलक्षणं मूलकृता यत् योजितं प्रतिज्ञादीत्यादिग्रन्थेन [158 A] तत्रस्थने(स्थेन) न चेति पदे आशङ्कते - न चेति / तथा च प्रथमतो न्यायजन्यं शाब्दज्ञानं तदनन्तरमेव चरमः परामर्श उत्पद्यतां किं मध्ये मानसज्ञानेनेत्याशङ्कार्थः / समाधत्ते - तस्येति / तस्य वादिवाक्यस्यानाप्तोक्तत्वेनाप्रामाण्यशङ्काकवलितेन परामर्शेऽसमर्थत्वमित्यर्थः / मध्ये मानसज्ञानास्वीकारे बाधकमाह - अन्यथेति। यदि मध्ये मानसं ज्ञानं न स्वीक्रियते तदा शाब्दज्ञानोत्तरं चरमो लिङ्गपरामर्शोऽपि किमर्थं स्वीक्रियते शाब्दज्ञानरूपपरामर्शादेवानुमित्युत्पत्तेः आप्तवाक्यजन्यज्ञानवत् इति। उपसंहरति - तस्मादिति। तथा चप्रतिवाक्यजन्यज्ञानस्याप्रामाण्यशङ्काकवलितत्वेन स्वयं युक्त्या यावत्पर्यन्तं धूमविशिष्टे वह्रिवैशिष्ट्यंगृहीतं नास्ति तावत्पर्यन्तं चरमः परामर्शो नोत्पद्यते। तेन मध्ये मानसं ज्ञानं स्वीकर्तव्यमेव / ननु मानसज्ञानमेवास्तु किं चरमपरामर्शेनेत्यत आह - तेनेति टीका / तथा च मध्ये यद् मानसं ज्ञानं तद् व्याप्तिपक्षधर्मतोभयविषयकं न भवति किन्तु धूमविशिष्टे वह्निवैशिष्ट्यावगाहिज्ञानमात्रम्, परामर्शरूपं तु ज्ञानं व्याप्तिपक्षधर्मतामात्रविषयकम् / न त्वेवमप्रामाण्यशङ्काकवलितं श्रुतिवादिवाक्यम् / न्यायजन्यज्ञानजनकं यद् वाक्यं तद् निरर्थकं स्यात्, न्यायजन्यज्ञानस्याप्रामाण्यशङ्काकवलितत्वात् इत्यत आह] - तद्वाक्यस्येति टीका / न्यायवाक्यस्य न व्यर्थता / तत्र हेतुमाह - पदार्थमात्रोपस्थापकत्वेनेति / तथा च परामर्शजनकीभूतंयमानसंज्ञानं तत्रविशेषणीभूता येपदार्थावह्निधूमादयस्तदुपस्थापकत्वेन तस्य न्यायवाक्यस्य सार्थकत्वात्। न तु तद्वाक्यस्य वाक्यार्थज्ञानद्वारोपयोगो नास्तीति वदन्ति। अत्रैव टीकाकारव्याख्यानं प्रकटयति - अन्ये त्विति / मानान्तरमुत्थाप्यते इत्यस्य व्याख्यानान्तरमाह - अन्ये त्विति / मानान्तरं मनोलक्षणम् / उत्थाप्यते इत्यस्य व्याख्यानमाह - स्वात्मसहकारिरूपसम्पन्नीक्रियत इत्यर्थः / स्वशब्देन श(शा)ब्दं ज्ञानं तदेवात्मासएवार्थः तद्रूपोयः पदार्थः शाब्दज्ञानलक्षणः तत्सम्पन्नीक्रियते तत्स्वरूपयोग्यं क्रियते। एतावताऽयमर्थः / पूर्वं यत् शाब्दज्ञानं तद् मानसज्ञानं विना शाब्दबोधजनकं न भवति स्वरूपायोग्यत्वात् / किन्तु मानसे ज्ञाने जाते तस्य स्वरूपयोग्यताऽतो मानसंज्ञानमङ्गीकर्तव्यमित्येकाव्याख्या। ऋजवस्तुमानान्तरं मनोलक्षणमुत्थाप्यते, मन एव यथा परामर्श सहकारि भवति तथा न्यायजन्यशाब्दज्ञानेन क्रियते, ततो मानसं ज्ञानं मध्ये किमर्थं स्वीक्रियते मन एव चरमलिङ्गपरामर्शमुत्पादयिष्यतीति[158B] एतन्मते मानसंज्ञानं मध्ये नास्तीतिज्ञेयम्।आहुरित्यस्वरसबीजं यथा न्यायजन्यज्ञानस्याप्रामाण्यशङ्काकवलितत्वात् न्यायजन्यशाब्दज्ञानमकिञ्चित्करमेव जातमिति मानसज्ञानस्वीकारे कुतो मानान्तरं मनोलक्षणमुत्थाप्यत इति व्याख्या किमर्थं स्वीक्रियत इत्यर्थः / अवयवलक्षणमाह मूले अनुमितीति। अनुमितिचरमकारणीभूतो यो लिङ्गपरामर्शः तत्प्रयोजकं यत् शाब्दज्ञानं न्यायजन्यशाब्दज्ञानमिति यावत् तज्जनकं यत् शाब्दज्ञानम् अवयववाक्यजन्यं शाब्दज्ञानं तज्जनकं यद् वाक्यं सोऽवयव इत्यर्थः / तथाहि