________________ 318 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ज्ञानं तजनकं यद् योग्यताज्ञानं तज्जनकं नायमाभास इति यद् ज्ञानम् / नायमाभास इति अयं भ्रमो न किन्तु प्रमैव एतज्जनकं यन्नायमाभास इति कण्टकोद्धाररूपं वाक्यं तत्रातिव्याप्तिः कथमित्यत आह - व्याप्त्यादीति / तथा चोक्तपरामर्शस्य जनकंयव्यप्त्यादिवैशिष्टयज्ञानं तज्जनकंयद्योग्यताज्ञानं तज्जनके वाक्येऽतिव्याप्तिस्तन्निरासाय शाब्दज्ञानपदम् / न च दत्तेऽपि शाब्दज्ञानपदे तद्दोषतादवस्थ्यं कण्टकोद्धाररूपवाक्याज्जायमानमपि ज्ञानं . शाब्दज्ञानं भवत्येवेति / न चेति टीकास्थपूर्वपक्षार्थः / उत्तरमाह - शाब्देति / तस्य योग्यताज्ञानस्य शाब्दज्ञानजनकत्वेन नास्ति किन्तु योग्यताज्ञानत्वेनैवेति न तत्रातिव्याप्तिरित्यर्थः / एतदेवाह - न चेति टीका / शाब्दज्ञानपदे दत्ते सति लक्ष्ये योजयति।न्यायजन्येति टीका। तथा चन्यायजन्यज्ञानस्यानुमितिचरमकारणलिङ्गपरामर्श [157 B] प्रति जनकत्वं नाम प्रयोजकं तत्तु शाब्दज्ञानत्वेनैवेति अर्थः / कण्टकोद्धारवाक्ये तु योग्य-. ताज्ञानत्वेनैवेति न तत्रातिव्याप्तिरिति भावः / ननु वह्रिव्याप्यधूमवान् अयमित्याप्तवाक्येऽतिव्याप्तिं निराकरोति - वाद्युक्तेति टीका। तथा चोक्ता याऽनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकता तिष्ठतिआप्तवाक्ये त्वप्रामाण्यशङ्काया अभावेन तस्माद् वाक्यादाहत्य' लिङ्गपरामर्शस्यैवोत्पत्तेरिति न तस्य प्रयोजकतेति न तत्रातिव्याप्तिरित्यर्थः / मिश्र एव वाक्यपदप्रयोजनमाह - आप्तेति टीका / आप्तोक्ते वह्रिव्याप्यधूमवान् अयमिति महावाक्यं तस्यावयवो वह्निव्याप्याधूमावान् इतिरूपस्तस्याप्यवयवोवहिव्याप्य इतिरूपस्तज्जनकेंऽशेऽतिव्याप्तिस्तद्वारणाय वाक्यपदम्। : न च तदपि वह्निव्याप्येति पदद्वयरूपत्वाद् वाक्यं भवत्येवेत्यत आह - महावाक्यपरमिति / तथा वाक्यपदं महावाक्यपरम् / अन्ये त्वित्यारभ्य आहुः पर्यन्तं मिश्रमतम् / अत्राशङ्कते - न चेति। न चेत्यारभ्य न्यायभिन्नपर्यन्तमित्यन्वयः / तथा च यथा पर्वतो वह्निमान् इति सम्पूर्णावयवं न्यायवाक्यं तत्समानार्थकमेवेदमपरं वाक्यं पर्वतेऽग्निधूमो यत इत्यादि तत्रातिव्याप्तिः / तथाहि - यथा वादिना यत् न्यायवाक्यं प्रयोक्तव्यं तथेदमपि न्यायभिन्नमिदमेव वाक्यं प्रयुक्तम् तत्समानार्थकत्वात् तन्न तत्रातिव्याप्तिस्तत्र न्यायव्यवहाराभावात् / इति पूर्वपक्षः / समाधत्ते - तादृशेति टीका / तथा च तत्र वाक्ये लक्षणमेव नास्तीत्याह - तादृशेति टीका / कथम् ? यतस्तस्मादनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानमेव नोत्पद्यते किन्तु शाब्दज्ञानानन्तरं विचारव्याकुलीभावेन मानसज्ञानानुत्पत्तेः परामर्शोऽपिन भवतीत्यर्थः।व्याकुलीभावमेव विवृणोति - सर्वतान्त्रिकेति टीका।नवस्य सर्वतान्त्रिकविरुद्धत्वे किं दूषणमित्यत आह - अनभ्यस्तत्वेनेति। तथा च सर्वैस्तान्त्रिकैः पर्वतो वह्निमान् इत्यादिरेव प्रयोगः क्रियते न त्वन्यथेति / तेन तत्राभ्यासो नास्तीत्यर्थः / व्याकुलीभावेऽपि किमित्यत आह - सर्वसम्प्रदायेति टीका / तथा च सर्वसम्प्रदायसम्मतप्रयोगं परित्यज्यानेन सभापण्डितमानिना कथं प्रयोगान्तरं कृतमित्यत्र बीजगवेषणे एव व्यग्रता / ततः किमित्यत आह - विशिष्टवैशिष्टयेति / तेन तत्र 1. साक्षात् /