________________ 317 न्यायलक्षणनिरूपणम् उत्पादितस्तेन चानुमितिस्तथा चानुमितिचरमकारणं यो लिङ्गपरामर्शः स्मृतिरूपः परामर्शः तज्जनकः संस्कारः तज्जनकंयत्शाब्दज्ञानं तज्जनकमाप्तवाक्यं भवति। तत्रातिव्याप्तिनिरासाय प्रयोजकलक्षणे ज्ञानपदम्। अथानुमितिकारणलिङ्गपरामर्शेत्यस्य पदस्य कृत्यमाह - अनुमितिचरमकारणेति टीका। आप्तवाक्यजन्यशाब्दज्ञानस्यापि यत्किञ्चित् ज्ञानप्रयोजकत्वं तिष्ठत्येव। तथाहि - चैत्रलक्षणस्याप्तस्य वाक्यात् मैत्रस्य शाब्दज्ञानम्, तस्माच्छाब्दज्ञानात् अनुव्यवसायो यथा अहं पर्वतं वह्निव्याप्यत्वेन जानामीति, तस्माच्चानुव्यवसायात् प्रामाण्यसंशयः, तत्र संशये शाब्दज्ञानस्य मैत्रशाब्दज्ञानस्य प्रयोजकत्वं तिष्ठत्येव / तदर्थमनुमितिचरमकारणलिङ्गपरामर्शेति पदम् / यद्यपि संशयप्रयोजकता शाब्दज्ञानस्य तिष्ठति तथापि तस्यानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकत्वं संशयं प्रति तस्य प्रयोजकत्वात्। ननु लिङ्गपरामर्शपदं व्यर्थमित्यत आह - लिङ्गपरामर्शपदंचेति टीका।स्वरूपकथनं तुलिङ्गपरामर्शातिरिक्तमन्यदनुमितिचरमकारणंनास्तीतिबोधनाय।अन्यथाऽनुमितिचरमकारणं किमित्याकाङ्क्षायां स्वरूपावेदनपरं परमतिव्याप्त्यादिदोषवारणाय नास्तीत्यर्थः / अथ शाब्दज्ञानपदस्य कृत्यमाह - अनुमितीति टीका।अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकजनकमित्युच्यमाने पर्वतो वह्निव्याप्यधूमवान् अयमिति सम्पूर्ण वाक्यं तस्यैकोऽवयवो वह्निव्याप्यधूमवान् इति रूप एतस्याप्येकोऽवयवो वह्रिव्याप्य इत्यन्तस्तथा चवहिव्याप्य इत्यंशेन व्याप्तिज्ञानं [157 A] जन्यते तेन व्याप्तिज्ञानेन विशेषणज्ञानमर्यादया धूमविशेष्यकव्याप्तिविशेषणं व्याप्तिविशिष्टधूमज्ञानं जन्यते तेन च व्याप्तिविशिष्टधूमज्ञानेन व्याप्तिविशिष्टधूमविशेषणपर्वतविशेष्यकं लिङ्गपरामर्शरूपं वह्रिव्याप्यधूमवान् अयमित्याकारकं ज्ञानं जन्यते तथा च वह्निव्याप्तिरिति प्रथमं ज्ञानं ततो वह्निव्याप्यधूमवान् इति द्वितीयं ज्ञानं ततो वह्रिव्याप्यधूमवान् पर्वत इति तृतीयं ज्ञानम् इति तृतीयं ज्ञानं प्रति द्वितीयज्ञानद्वारा पथमं ज्ञानं प्रयोजकं भवत्येवेति तन्निरासाय शाब्दज्ञानपदम् / ननु वह्निव्याप्य इत्यस्मात् शब्दाजायमानं यज्ज्ञानं तदपिशाब्दज्ञानं भवत्येवेत्यत आह - तदर्थस्त्विति टीका। उक्त एवेति। अनुमितिचरमकारणं यो लिङ्गपरामर्शस्तदपेक्षया यन्न्यूनविषयकं न भवति / अयमत्र भावः - तथा च वहिव्याप्य इत्यंशेऽतिव्याप्तिर्न भवेत् / एतस्माज्जायमानं यत् शाब्दज्ञानं तद् वहिव्याप्यधूमवान् इति ज्ञानापेक्षया न्यूनविषयकमेव / प्रथम व्याप्तिज्ञानं भासते / अत्र व्याप्तिपक्षधर्मता इत्येते समुदिता भासन्ते इति पूर्वज्ञानं न्यूनविषयकम्, अन्यूनविषयं न भवति इति तद्व्याप्तिज्ञानम् / वाक्यपदस्य कृत्यमाह - आत्मादाविति टीका / आत्मादौ अनुमितीत्यारभ्य ज्ञानजनकान्तत्वं तिष्ठति परं तत्र' वाक्यत्वं नास्तीति तद्व्यावृत्तिः। मिश्रमाह - अन्ये त्विति टीका / अनुमितिचरमकारणं यो लिङ्गपरामर्शः तज्जनकं यद् व्याप्तिज्ञानं तज्जनकं यद् योग्यताज्ञानम् अन्वये विषयाबाधलक्षणम्, तज्जनकत्वं कुत्रेत्यत आह - तादृशेति। तादृशोऽनुमितिचरमकारणं यो लिङ्गपरामर्शस्तजनकं यद् ज्ञानं व्याप्ति१. आत्मादौ।