________________ 316 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पक्षः [इति पक्षपरिग्रहः] 3 / मतव्यवस्थावयवो यथा अन्वयी, व्यतिरेकी, अन्वयव्यतिरेकी चेति त्रयमपि प्रमाणमिति त्रिभिरपि साध्यं साधनीयम् 4 / उभयशास्त्रज्ञानवती परिषत् [तनिश्चयोऽपि 5 / एवं मतान्तरेण दशापि / तन्निराकरणाय मूले प्रतिज्ञादीनामेवोद्देशः कृत इत्याह - तन्निरासमिति टीका / ननु बौद्धमतमेवास्तु किंपञ्चभिरवयवैरित्यत आह - पञ्चानामपीति। तथा च यथा यथा यस्य यस्योपयोगस्तथा तथा तन्निरूपणप्रस्ताव एव वक्ष्यते इत्यर्थः / ननु लिङ्गपरामर्शस्य चरमकारणत्वमेव नास्तीति / परामर्शोत्तरं सति प्रतिबन्धके बाधादिरूपेऽनुमितिर्न जायते तेन प्रतिबन्धकाभावस्याप्यपेक्षत्वं यतः परामर्शानन्तरमनुमितिरूपमेव ज्ञानं जायते न तु किञ्चिदन्यत् ज्ञानान्तरम्, प्रतिबन्धकाभावस्तु ज्ञातो न कारणं स्वरूपसन्नेव स कारणम् / स इति परामर्श एव चरमकारणम्। ननु अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकं यत् शाब्दज्ञानं प्रतिज्ञावाक्यजन्यज्ञानं तज्जनकत्वं वर्तते प्रतिज्ञावाक्यस्येत्यतिव्याप्तिरित्यत आह - प्रयोजकत्वमिति / प्रयोजकत्वं तु जनकज्ञानजनकत्वं न तु जनकजनकजनकज्ञानजनकत्वम्। प्रतिज्ञावाक्यं तु परामर्शजनकं मानसज्ञानं तज्जनकं शाब्दज्ञानं तस्य च जनकं यत् प्रतिज्ञावाक्यजन्यं शाब्दज्ञानमित्युक्तरूपप्रयोजकत्वाभावात् नातिव्याप्तिः / वक्ष्यमाणवाक्यावयवेऽतिव्याप्तिवारणाय व्याचष्टे - शाब्दज्ञानपदं चेति टीका / वाक्यावयवस्तु प्रतिज्ञादिरूपः, स चरमकारणलिङ्गपरामर्शापेक्षया न्यूनविषयकमेव येन प्रतिज्ञावाक्यात् पर्वते वह्निवैशिष्ट्यं ज्ञानमात्रं जायते, चरमकारणपरामर्शे तु : व्याप्त्यादिवैशिष्टयमपि भासते इति कृत्वाप्रतिज्ञादिवाक्यस्य न्यूनविषयत्वमेव।सत्यन्तप्रयोजनमाह - वह्रीति / तथा चवहिव्याप्यधूमवान् अयम् इत्याप्तवाक्यादाहत्य लिङ्गपरामर्श एवोत्पद्यते नतु मध्ये तस्य मानसज्ञानमन्यत् / तथा चाप्तवाक्येऽनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकत्वमेव नास्ति यत आहत्याप्रामाण्यशङ्काशून्यात् तस्मादाप्तवाक्यात् अनुमितिचरमकारणलिङ्गपरामर्श एवोत्पद्यते। न तु यथाऽनाप्तवाक्यात् [156 B] मध्ये मानसं ज्ञानं विशिष्टवैशिष्टयमन्यदप्युत्पद्यते प्रतिवादिनः तद्वदत्र नास्तीत्यर्थः / प्रयोजकपदस्य कृत्यमाह - परामर्शजनकेति टीका।प्रयोजकपदं विनाऽसम्भवः। असम्भवमेव दर्शयति-नहीति। तथा चानुमितिचरमकारणलिङ्गपरामर्शजनकं मानसं ज्ञानं विशिष्टवैशिष्ट्यावगाहि मानसं ज्ञानं तजनकं तु न्यायवाक्ये(क्यं) न सम्भवति / न्यायवाक्यस्य शाब्दज्ञानमात्रजनकत्वमेव न तु मानसज्ञानजनकत्वम्।प्रयोजकत्वं तूक्तरीत्या सम्भवत्येव। एतदेवाह - तस्येति टीका / विशिष्टवैशिष्टयज्ञानस्य मानसत्वात् मनोजन्यत्वात् इत्यर्थः / तथा च जनकजनकेति कृते नासम्भवः, अनुमितिचरमकारणस्य लिङ्गपरामर्शस्य जनकं विशिष्टवैशिष्ट्यावगाहिज्ञानं मानसंज्ञानं तस्य जनकं शाब्दज्ञानम्, पञ्चावयवात्मकं न्यायवाक्यं तेन न्यायवाक्यजन्यशाब्दज्ञानस्य प्रयोजकत्वेन नासम्भवः / प्रयोजकत्वं नाम जनकज्ञानजनकत्वम्।अत्रजनकजनकमित्येवास्तु। तथा सतिपूर्वोक्तेवह्रिव्याप्यधूमवान् इतिरूपे आप्तवाक्येऽतिव्याप्तिः / आप्तवाक्येन शाब्दज्ञानमुत्पादितम्, तेन संस्कार उत्पादितस्तेन संस्कारेण स्मृतिरूपश्चरमः परामर्शः