________________ 315 न्यायलक्षणनिरूपणम् पञ्चावयवरूपोपपन्नवादिवाक्यस्य अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकत्वं कथमित्यत आह - प्रतिज्ञादीति मूलम् / व्यावृत्तिर्यथा शाब्दज्ञानजनकवाक्यमित्युच्यमाने वह्निव्याप्यधूमवान् चायमिति आप्तवाक्येऽतिव्याप्तिः यतोऽस्मात् वाक्यात् यत्शाब्दज्ञानं जायते तच्छाब्दज्ञानजनकंवाक्यं तत् भवति। तत्रातिव्याप्तिवारणार्थमनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकेतिपदम्। पूर्वोक्तवाक्याज्जायमानं यत्शाब्दज्ञानंतत् अनुमितिचरमकारणलिङ्गपरामर्शप्रंयोजकं न भवति किन्तु अनुमितिचरमकारणलिङ्गपरामर्शरूपमेवेति परामर्शप्रयोजकशाब्दज्ञानजनकं न भवतीति तत्र नातिव्याप्तिः / लिङ्गपरामर्शजनकं वाक्यं न्याय इत्युच्यमाने न्यायवाक्येऽसम्भवः, तथाहि कथं तर्हि तस्मादेव वादिवाक्यादाहत्यानुमितिचरमकारणलिङ्गपरामर्श उत्पद्यते किन्तु न्यायजन्यशाब्दज्ञानानन्तरं किञ्चिद् विशिष्टवैशिष्ट्यावगाहिमानसमेकंज्ञानंजायते।पञ्चावयवरूपे(पं) तत्वाक्यमनुमितिचरमकारणलिङ्गपरामर्शजनक न भवति किन्तु न्यायजन्यं शाब्दज्ञानं प्रथमतस्तदनन्तरं विशिष्टवैशिष्टयावगाहि मानसं ज्ञानमुत्पद्यते तदनन्तरं चरमकारणं लिङ्गपरामर्श उत्पद्यते / तथा च न्यायवाक्यस्य शाब्दज्ञानजनकत्वं वर्तते परम् अनुमितिचरमकारणलिङ्गपरामर्शजनकत्वं नास्तिकिन्तु अनुमितिचरमकारणलिङ्गपरामर्शजनकत्वं साक्षान्मानसज्ञानस्यैव, अतोऽसम्भववारणाय प्रयोजकपदम् / तथा चानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकत्वं तु पञ्चावयववाक्यरूपन्यायस्य वर्तत एव जनकस्य प्रयोजकत्वात् / ततोऽयमर्थः अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकं यत् शाब्दज्ञानं तज्जनकत्वंतु न्यायवाक्यस्य तिष्ठत्येवेति। लक्षणमेव मूले योजयति - प्रतिज्ञादीति मूलम्।प्रतिज्ञादिपञ्चवाक्यैः स्वस्वखण्डवाक्यार्थद्वारा महावाक्यार्थज्ञानमुत्पाद्यते, यथा पर्वतीयवह्निज्ञानकारणीभूतज्ञानविषयो धूमो वह्निव्याप्योऽबाधितविषयोऽसत्प्रतिपक्षश्चेति न्यायजन्यवाक्यार्थज्ञानं शाब्दज्ञानं जायते। ततः किमित्यत आह - तेन चेति मूलम् / न्यायजन्यवाक्यार्थज्ञानेनेत्यर्थः / विशिष्टवैशिष्टयेति / न्यायजन्यवाक्यार्थज्ञानस्यानाप्तोक्तवाक्यजन्यत्वेनाप्रामाण्यशङ्काकवलितया प्रयोजनाक्षमतया निरूपितमानसनिश्चयरूपं ज्ञानं वक्तव्यम्, तदेव वैशिष्ट्यावगाहि मानान्तरं यथा धूमवान् वह्निः, अत्र धूमविशिष्टे वह्निवैशिष्टयम् एतादृशं मानसं ज्ञानं तेन [156 A] च तृतीयलिङ्गपरामर्शो जन्यते यथा वह्निव्याप्यधूमवानयमिति। अथ टीका। प्रतिज्ञादिग्रन्थो योजयितुमाह - उदाहरणेति टीका। बौद्धानां मते उदाहरणोपनयरूपमवयवद्वयम्। तथाहि यो धूमवान् स वह्निमान् यथा महानसम् इत्युदाहरणवाक्यम् तथा चायमित्युपनयः इति सम्पूर्णस्तेषां मते न्यायः / अन्यमतमाह - मीमांसकेति / तथा च पर्वतो वह्निमान् धूमात् यो यो धूमवान् स वह्निमान् यथा महानसम् इति प्रतिज्ञाहेतूदाहरणरूपमवयवत्रयमेव न्यायः [इति मीमांसकमतम्] / उपलक्षणमेतत् / संशय-प्रयोजन-पक्षपरिग्रह-मतव्यवस्था-ऽभिमतपरिषन्निश्चयाः। एवं तेषां मते दशावयवा अपि / तथाहि पर्वतो वह्निमान् न वेति तटस्थस्य संशयः 1 / पर्वते वह्रिसिद्ध्या संशयनिवृत्तिः प्रयोजनम् 2 / पर्वते वह्निमत्त्वं मदीयः