________________ / अवयवनिरूपणम्। (अवयवप्रकरणे प्रतिज्ञानिरूपणम् च) तथा अनुमानं परार्थं न्यायसाध्यमिति, न्यायः तदवयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि निरूप्यन्ते / तत्र न समस्तरूपोपपन्नलिङ्गप्रतिपादकवाक्यं न्यायः, अत्रैव वाक्येऽतिव्याप्तेः, किन्तु अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः / प्रतिज्ञादिपञ्चवाक्यैरेकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते तेन च विशिष्टवैशिष्टयावगाहि मानान्तरमुत्थाप्यते तेन च चरमपरामर्श उत्पाद्यत इति न्याय-.. जन्यशाब्दज्ञानस्य परामर्शप्रयोजकता। ।अवयवनिरूपणम्। प्रसङ्गादाह - तथेति / अनुमानं स्मृतमेवास्ति प्रसक्तत्वात् / तस्योपेक्षानर्हत्वात् प्रसङ्ग एव सङ्गतिः / परार्थमिति मूलम् / परं बोधयितुमित्यर्थः / स्वार्थबोधे तु शब्दप्रयोगानपेक्षणात् प्रत्यक्षेण व्याप्तिविशिष्टपक्षधर्मताज्ञानादेवानुमितिः।प्रतिवादिम(न)सु(स्तु) व्याप्तिविशिष्टपक्षधर्मताज्ञानं नास्तीतिकृत्वा तस्य व्याप्तिविशिष्टपक्षधर्मताप्रतिपादनायाः (य) पञ्चावयवानुमानवाक्यप्रयोगः क्रियते इत्यर्थः / न्यायेति।न्याय:पञ्चावयवानुमानवाक्यम् / तत्साध्यं परार्थानुमानम्। ननु न्यायसाध्यत्वे न्यायावयवनिरूपणं किमर्थमित्यत आह - [न्यायसाध्यामिति टीका / तथा च न्यायसाध्यं न्यायावयवसाध्यं चेति / न्यायावयवोपयोगं मूलकृदेवाग्रे वक्ष्यतीति। . न्यायलक्षणमाह - समस्तेति मूलम् / समस्तानि यानि रूपाणि पक्षधर्मत्वादीनि तैरुपपन्नं सहितं यल्लिङ्गं तत्प्रतिपादकं वाक्यं स न्यायस्तत्र लिङ्गप्रतिपादकवाक्यमात्रं हेत्ववयवे धूमादित्यादिरूपे गतम् अत आह - समस्तरूपोपपन्नेति / लिङ्गविशेषणं समस्तपदं च पुनर्हेत्ववयवेऽतिव्याप्तिवारणार्थम् / दूषयति - अत्रेति / समस्तरूपोपपने लिङ्गप्रतिपादके आप्तवाक्ये अतिव्याप्तिः यथा पर्वतो वह्निव्याप्यधूमवान् अयमिति वाक्येऽतिव्याप्तिः / तथाहि धूमवान् इति वाक्यं समस्तरूपोपपन्नं यत् लिङ्गं धूमस्तत्प्रतिपादकं वाक्यं भवति परं न्यायो न भवति आप्तवाक्यत्वात् / यदि वादिवाक्यं प्रतिज्ञाद्यवयवप्रतिपादकं स्यात् तदा न्यायः स्यात् / न्यायलक्षणे सिद्धान्तमाह - किन्त्विति / अनुमितीति [155 B] | अनुमितेः चरमकारणं यो लिङ्गपरामर्शस्तत्प्रयोजकं तज्जनकज्ञानजनकत्वम् एवंभूतं यत् शाब्दज्ञानं तज्जनकं वाक्यमित्यर्थः / ननु न्यायजन्यशाब्दज्ञानस्य