SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ अर्थापत्तिनिरूपणम् 313 इति शब्दोऽवश्यं कल्पनीय इति तत्राह - अयोग्यतैव नास्ति। तथाहि योग्यतालक्षणमाह यथा - बाधकेति। एकपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभावो योग्यता। इयं योग्यता अग्निना सिञ्चेत् इत्यत्र नास्ति यथा एकपदार्थसंसर्गः सेकसंसर्गः तस्यापरपदार्थो योऽग्निस्तन्निष्ठोऽत्यन्ताभावः सेकसंसर्गस्य तत्प्रतियोगित्वं सेकसंसर्गेऽस्ति इति कृत्वा तत्र योग्यता नास्ति। जलेन सिञ्चेत् इत्यत्रसेकसंसर्गस्यापरपदार्थो जलपदार्थस्तनिष्ठात्यन्ताभावप्रतियोगित्वाभावो वर्तते इति कृत्वा योग्यतास्तीति बाधकप्रमाणाभावार्थः / बाधकप्रमाणं नाम सेकसंसर्गबाधकप्रमाणं जले नास्तीति तत्र योग्यताऽस्ति / आचार्यमतेनाह - अन्वयविरोधिरूपविरहो वा योग्यता / अस्यार्थो यथा पदार्थानां परस्परं योऽन्वयस्तद्विरोधि यद् रूपं तद्विरहः / अग्निना सिञ्चेत् इत्यत्र सेकसंसर्गान्वयविरोधिरूपम् अग्नित्वं तद्विरहो नास्ति।जलेन सिञ्चेत् इत्यत्र सेकसंसर्गविरोधिरूपं[? अग्नित्वंतद्विरहो वर्तत एव इति योग्यता अस्त्येव / तथा च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र दिवाभोजनाभावान्वयाविरोधि रूपं पीनत्वमेवात्रास्ति अतो योग्यता नास्ति / दिवाऽभोजी पीन इत्यत्र दिवाऽभोजनान्वयविरोधि पीनत्वं न भवति / कथम् ? सामान्यावच्छिन्नाभाव एव प्रकृतसंसर्गविरोधी न तु विशेषाभावः / सामान्याकारण प्रकृतपदार्थसंसर्गविरोधी। तथा च भोजनसामान्यसाध्ये पीनत्वे दिवाऽभोजनरूपविशेषाभावान्वये विरोधि रूपं किमपि नास्तीति भोजनविशेषाभावान्वयो दिवाभोजनरूपविशेषाभावान्वयो भवतीति / तथा च दिवाऽभोजी पीन इत्यत्र वाक्ये भोजनसामान्याभावस्याप्रतीयमानत्वात् भोजनविशेषाभावान्वयो दिवाभोजनरूपविशेषाभावान्वयो बाधकं नास्तीति दिवाऽभोजी पीन इत्यत्र वाक्यात् बोध उत्पद्यते एव अयोग्यताया[155A]अभावात् इति कृत्वा न प्रतीत्यनुपपत्तिः / ननु यदि अयोग्यताज्ञानाभावे प्रतीत्यनुपपत्तिर्नास्ति तदा रात्रौ भुङ्क्ते इति रात्रिभोजनकल्पनापि न स्यादित्यत आह - किन्त्विति / यद्यपि दिवाऽभोजी पीन इत्यत्र पीनत्वप्रतीतेर्दिवा(5)भोजिनोऽनुपपत्तिर्नास्ति तथापि दिवा अभोजिनः प्रतीयमानं यत् पीनत्वं तत् एकविशेषो दिवाभोजनं तस्य बाधे इतरस्यापि भोजनविशेषस्य यदि बाधः स्यात् तदा पीनत्वं नोत्प(पप)द्यतैवेति प्रतीतपीनत्वानुपपत्त्या रात्रिभोजनं कल्प्यते इति त्वया यदुक्तं प्रतीतेरनुपपत्त्या योग्यताघटकशब्द उपस्थाप्य इति तदयुक्तम् / योग्यतायाः सत्त्वात् प्रतीत्यनुपपत्तिरेव नास्तीति भावः / एवं दृष्टान्तोऽपि न सङ्गच्छत इत्याह - अत एवेति। यथा यागे साक्षात्साधनत्वबाधेऽपि साधनत्वसामान्यबाधो नास्ति। यदि साधनत्वसामान्यान्वये बाधः स्यात् तदा अपूर्वं वाच्यं स्यात् / तथा च अपूर्वं कल्प्यमेव, न तु लिङादिवाच्यम् / ननु प्रतीतपीनत्वानुपपत्तिरेवार्थापत्तिर्भविष्यतीत्यतआह - तस्मादिति।साचव्यतिरेक्यनुमानमेव यथा देवदत्तोरात्रौ भुङ्क्ते दिवाऽभोजित्वे सति पीनत्वात् इति व्यतिरेक्यनुमानादेव रात्रिभोजनसिद्धिः इत्यर्थः / इत्यर्थापत्तिमूलवादे व्याख्यानम् / / इत्यर्थापत्तिनिरूपणं समाप्तम्।
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy