________________ 312 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावात् प्रसिद्धपदसामानाधिकरण्यानुपपत्तिरिति योग्यताज्ञानाय परम्परासाधनताघटकमपूर्वं लिङादिवाच्यं कल्पयति, ततः स्वर्गसाधनं याग इति ज्ञानं जायते अन्यथा अपूर्वमपि वाच्यं न स्यादिति / उच्यते / बाधकप्रमाणाभावोऽन्वयविरोधिरूपविरहो वा योग्यता, अतो दिवा अभोजने रात्रिभोजनाप्रतीतावपि भोजनसाध्यपीनत्वात् दिवा न भुङ्क्ते इति शब्दात् धीरुत्पद्यते न प्रतीत्यनुपपत्ति: किन्तु प्रतीतानुपपत्त्या रात्रिभोजनं कल्प्यते अत एवापूर्वमपिनवाच्यमिति वक्ष्यते, तस्मानार्थापत्तिरनुमानादतिरिच्यत इति / ननु कल्पनापि वस्तुविषयिणी, तथा च रात्रौ भुङ्क्तेऽयं शब्द उच्चारित एव नास्ति, यदि चोच्चारितः स्यात् श्रोत्रा चेन्न श्रुतः तत्र श्रोत्रा शब्दः कल्पनीय इत्यत आह - शब्द इति / रात्रौ भुङ्क्ते इति शब्दो यद्यपि वक्त्रा नोच्चारितः तथाप्यभिप्रायस्थः शब्दो वर्तते सश्रोत्रा कल्प्यते।अत्रस्वमतानुरोधेन प्राभाकरः योग्यतावच्छेदकरूपेणोपस्थितिं विना नान्वयबोध इत्यत्र संमतिमाह - यथेति / यजेतेत्यत्र इष्टसाधनत्वा(त्व)ज्ञानं प्रवर्तकम् / इष्टसाधनत्वं यागे बाधितम् / इष्टसाधनत्वं साक्षाद् वा परम्परया वा / नाद्यः, कालान्तरभाविनि फले यागस्य ध्वस्तत्वात्। न द्वितीयः, परम्पराघटक(का)पूर्वोपस्थितिं विना परम्परयापीष्टसाधनतान्वयबोधो न भवति। तथा : चपरम्पराघटकापूर्वस्योपस्थितिर्वक्तव्या। परम्पराघटकंयदपूर्वं तदुपस्थितिं विना परम्परयापीष्टसाधनतान्वयबोधो न भवति / परम्पराघटकं यदपूर्वं तदुपस्थितिं विना प्रसिद्धं पदं यत् यजिपदं तेन सहेष्टसाधनत्वस्यान्वयबोध एव न भवति इति कृत्वा लिङ्पदस्य वाच्यमपूर्वमेव कल्प्यते / [154 B] तथा च अयमर्थः - लिङ्त्वेन रूपेणापूर्वे शक्तिः नैयायिकमतानुरोधेनेष्टसाधनत्वे शक्तिः, तथा च यदा इष्टसाधनत्वे शक्तिः इष्टसाधनं शक्तं तदा अपूर्वोपस्थिति स्ति इति कृत्वा अपूर्वमपि लिङ्गादिवाच्यं कल्प्यते / नैयायिकप्राभाकरयोरयमेव विशेषः - नैयायिकेनोच्यते लिङर्थ इष्टसाधनत्वम्, अपूर्वं त्वनुमानेन कल्प्यते। चिरध्वस्तयागो न(ना)पूर्वमेव वाच्यम्, यथा यजेतेत्यत्र यागविषयकं' कार्यम् अपूर्वम्, यागेन सहापूर्वस्यान्वयबोधो जातः, न तु तावन्मात्रेण प्रवृत्तिरतोऽपूर्वान्वयबोधानन्तरं परम्परयाइष्टसाधनत्वबोधस्ततः प्रवृत्तिरिति तयोर्भेदः। तथा चएतावता प्रबन्धेन लिङादिवाच्यं यदि अपूर्वं जातं तदा योग्यतावच्छेदकरूपेणापूर्वस्योपस्थितिर्जाता पश्चाद् योग्यतावच्छेदके उपस्थिते योग्यं यदिष्टसाधनत्वं तस्याप्यन्वयो भवतीत्यर्थः। ततः सर्वत्र शाब्दे बोधेश्रुतार्थान्वयानुपपत्त्यनुरोधात् योग्यतोपस्थापकः रात्रौ भुङ्क्ते इति शब्दोऽवश्यं कल्पनीय इतीयमेव श्रुतार्थापत्तिः / समाधत्ते नैयायिकः - उच्यते इति। यदुक्तं त्वयाऽयोग्यतयाऽन्वय एव न भवतीति अन्वयबोधाय योग्यताघटकोपस्थितये रात्रौ भुङ्क्ते 1. विषयकत्वं जन्यत्वम् / प्रतौ टिप्पणी।