________________ अर्थापत्तिनिरूपणम् 311 रात्रौ भुङ्क्ते इति वाक्यं कल्पयित्वा तेन सहान्वयबोधंजनयति।नचैवंलाघवात् रात्रिभोजनमेव कल्पयितुं युक्तम्, शाब्दी हि आकाङ्क्षा शब्देनैव प्रपूर्यत इति न्यायेन शब्दोपस्थापितमादाय शब्दस्यान्वयबोधजनकत्वात् / एवं च श्रूयमाणशब्दस्यान्वयबोधकत्वं योग्यताघटकोपस्थापकेन शब्देन विनानुपपद्यमानं तं कल्पयित्वा यत्रान्वयबोधं जनयति तत्र श्रुतार्थापत्तिः। अत्र श्रुतार्थापत्तिप्रमाणवादी शङ्कते - अथेति / तथा च यत्रान्वयानुपपत्त्या शब्दः कल्प्यते सा श्रुतार्थापत्तिः, यत्रानुपपत्त्याऽर्थः कल्प्यते सा दृष्टार्थापत्तिः। तथाहि - केऽपीति। श्रुतं वाक्यम् अभोजी पीन इति, अत्रान्वयानुपपत्तिः यथा अभोजी पीन एव न भवतीति / तथा पीनो दिवा न भुङ्क्ते इत्यत्रापि अनुपपत्तिरेव पीनत्वस्यभोजनसाध्यत्वात्। दिवाऽभोजीतिपदादिवाभोजनं बाधितम्।पीनत्वेन सह दिवाऽभोजित्वस्यान्वयो न भवतीतिअयोग्यत्वात् इति कृत्वाऽन्वयबो(बा)धेयोग्यताघटकयोग्यताऽप्रतीतिः।अयोग्यतयाऽन्वयानुपपत्तिरेव [154 A] / ततः किमित्यत आह - अतो योग्यतेति मूलम् / तथा च योग्यताघटकोपस्थितिं विनाऽन्वयबोधो नभवतीति योग्यताघटकोपस्थितिरवश्यमपेक्षिता।रात्रिभोजनमेव योग्यताघटकमिति कृत्वारात्रिभोजनप्रतिवाक्यं कल्पनीयम्, तेन पीनो देवदत्तो दिवा न भुङ्क्ते किन्तु रात्रौ भुङ्क्ते इत्याध्या]हारे कृतेऽन्वयबाधो न भवतीत्यर्थः / अत्राशङ्कते - न चेति / तथा च रात्रिभोजनरूपोऽर्थ एव कल्पनीयः किमर्थं वाक्यं कल्पनीयमित्याशङ्कार्थः / शाब्दीति / तेन शाब्दे बोधे शब्दोपस्थापित एवार्थो भासते न तु प्रत्यक्षादिनोपस्थितोऽर्थो भासते, अन्यथा प्रत्ये(त्यक्षे)ण कलायादिकेषु पदार्थेषूपस्थितेषु पचतीत्युक्ते कलायं पचतीत्यन्वयबोधः स्यात् न चैवम् / अन्वयबोधस्तुकलायपदोच्चार एव भवतीति।शाब्दी शब्दजन्या या आकाङ्क्षा जिज्ञासा शब्दनिष्ठस्तात्पर्यविशेषः शब्देनैव सा पूर्यते शब्देनैव निवर्तते / तेन शब्द एव रात्रिभोजनपदाद(पदमे)व कल्प्यते इत्यर्थः / एतस्या अर्थापत्तेः श्रुतार्थापत्तित्वं विवृणोति - एवं चेति। श्रूयमाणशब्दस्तु एतावानेव पीनो दिवा न भुङ्क्ते / योग्यताघटकोपस्थापकशब्दस्तु रात्रौ भुङ्क्ते इति रूपः / तेन शब्देन विनाऽनुपपद्यमानोऽन्वयस्तं कल्पयति / ततः श्रुतशब्देन विनाऽनुपपत्तिः श्रुतार्थापत्तिरित्यर्थः / द्वारमित्यादौ पिधेहीति शब्दकल्पनं श्रुतार्थापत्तिरेव / शब्दश्च यद्यपि श्रूयमाणो बाधितस्तथाप्यभिप्रायस्थः कल्प्यते यथा गुरुमते स्वर्गकामो यजेतेत्यत्र साक्षात् साधनताबाधे परम्पराघटकस्यानुपस्थित्या परम्परासाधनताज्ञानविरहो योग्यताज्ञाना