________________ 310 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका यदि ईश्वरोऽस्ति तदा उपलभ्येत, नोपलभ्यते, तस्मान्नास्ति इत्यनुपलब्ध्या ईश्वरो नास्ति इति मीमांसकेन तृतीयविप्रतिपत्तौ पूर्वपक्षिते सति इदमनुमानम् यथा क्षित्यादिकं सकर्तृकमित्युक्तमनुमानम् / तथा चायमर्थः - यद्यनुपलब्धिमात्रेण वस्तु नास्ति तदा गृहान्निर्गते चार्वाकवराके सति तमपश्यन्तस्तत्पुत्रकलत्रादयोरोदनं कुर्युः, तेनानुपलब्धिमात्रं न वस्त्वभावसाधकं किन्तु योग्यानुपलब्धिमात्रम्, सा चातीन्द्रिये ईश्वरादौ कुतः योग्यानुपलब्धिः ? सा चातीन्द्रिये नास्ति। ततोऽनुमानेनेश्वरः सिद्ध इत्याहुराचार्याः / अत्रान्वयव्यतिरेकिणमपि समर्थयति - पर्वत(? मयूर)नृत्यमिति / हेतौ सत्यन्तं पर्वतेतरवृत्तिनि [153 B] महानसीयघटादौ व्यभिचारवारणाय - आकाशे पर्वतेतरानधिकरणत्वं वर्तते परं तत्र पर्वताधिकरणत्वं नास्तीति व्यभिचारः तद्वारणाय - साधिकरणपदम्। दृष्टान्तः पर्वतत्ववत् इतिअयम् अन्वयव्यतिरेकी। तथा चानेनानुमानेन मयूरनृत्यस्य पर्वताधिकरणवृत्तित्वं सिद्धं किमर्थापत्त्या / अथ विशेषानुमानमुक्त्वा सामान्यतोदृष्टव्याप्त्यापि मयूरनृत्यस्य पर्वताधिकरणवृत्तित्वं साधयति - अथवेति। तच्च तदितरच्च तत्तदितरयोवृत्तिः सम्भावितः सन् यस्तत्तदितरवृत्तिः स सम्भाविततत्तदितरवृत्तिः / एतावता वृत्तिमत्त्वे सतीति पर्यवसन्नम् / तथा च यो वृत्तिमान् तदतिरिक्तवृत्तिमान् न भवति स तद्वृत्तिरिति सामान्यव्याप्तिः / तथा च सामान्यतो यत्तदर्थान्तर्भावगर्भितव्याप्त्यैव मयूरनृत्यस्य पर्वतवृत्तित्वं सिद्धयतीति। एतदेवाह - सामान्यत इति।विषयान्तरानुरोधेनाप्यर्थापत्ति प्रमाणमित्याह - एवं पीन इति।पीन इति वाक्यं कुतोऽपि श्रुतम् अथवा स्वयं दृष्टम् / श्रुतार्थस्यान्वयानुपपत्तिः, दृष्टार्थस्य चानुपपत्तिमात्रम् / तत्र रात्रिभोजनज्ञानानुरोधेनानुपपत्तिः प्रमाणमितिये वर्णयन्ति तत्राप्यनुपपत्तिज्ञानं नस्वतन्त्रंप्रमाणं किन्तुप्रकारान्तरेण - भोजनसाध्यं यत्पीनत्वं तद् दिवाभोजनादिना न सम्भवति दृष्टं वर्तते दिवा न भुङ्क्त इति दिनभोजनस्य बाधात् इति कृत्वापीनत्वं भोजनसाध्यत्वंसिद्धयत्रात्रिभोजनसाध्यत्वमादायैवपर्यवस्यतीतिरात्रिभोजनस्याप्रसिद्धत्वेऽपि वस्तुतो रात्रिभोजनसाध्यत्वंपीनत्वेपर्यवस्यति, यथाइच्छायामष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वस्याप्रसिद्धत्वेऽपीच्छायां पृथिव्याद्याश्रितत्वबाधात् द्रव्यवृत्तित्वं सिद्धयत् आत्मवृत्तित्वमादायैवपर्यवसन्नं भवतीति नार्थापत्तिः प्रमाणम् / तथा अनुमानमेव यथा इदं पीनत्वं भोजनसाध्यं पीनत्वात् दिवाभोजिचैत्रपीनत्ववत्। अत्र तु दृष्टान्ते दिवाभोजनं सिद्धम् तत्तु देवदत्तपीनत्वेऽदर्शनात् बाधितम् इति कृत्वा प्रसिद्धबाधसहकृतात् सामान्यतोदृष्टानुमानादेव रात्रिभोजनसाध्यत्वं सिद्धयति। अथ केऽपि यथा अभोजी पीन इत्यत्रायोग्यताज्ञान तथा पीनो दिवा न भक्ते इत्यत्रापि दिवाभोजनस्य बाधात् योग्यताघटकरात्रिभोजनस्याप्रतीतेः, अतो योग्यताघटकोपस्थितिं विना अन्वयमलभमानमिदं वाक्यं योग्यताघटकरात्रिभोजनोपपादकं