________________ अर्थापत्तिनिरूपणम् 309 व्यतिरेकी, अथवा यः सम्भाविततत्तदितरा(?र)वृत्तिः सन् तदतिरिक्तवृत्तिर्न भवति स तद्वृत्तिर्भवतीति सामान्यतो यत्तदर्थान्तर्भावेन व्याप्त्या नृत्यस्य पर्वतवृत्तित्वं सिद्धयति / एवं पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्रापि अप्रसिद्धरात्रिभोजनसाध्यपीनत्वज्ञानं रात्रिभोजनमादाय सिद्धयति। __ अत्राशते नैयायिकः - न चेति / तथा च यथाऽस्मन्मते पर्वतनृत्यरूपसाध्याप्रसिद्धौ व्यतिरेक्यनुमानं न सम्भवति तथा तव मतेऽपि पर्वतमयूरनृत्येन विना पर्वतेतरे न नृत्यति चेति ज्ञानमनुपपन्नमित्यनुपपत्तिज्ञानमपि कथं स्यात् पर्वतमयूरनृत्यस्याप्रसिद्धत्वात् / समाधत्ते प्राभाकरः - अधिकरणेति / न हि अनुपपत्तिज्ञाने पर्वतमयूरनृत्यं विषयः किन्तु नृत्यमात्रम्, तथा चैवमनुपपत्तिः इदं नृत्यमधिकरणेन विनाऽनुपपद्यमानमधिकरणं कल्पयति / ततः प्रसिद्धबाधसहकारिवशात् अप्रसिद्ध पर्वतरूपाधिकरणमादायैव नृत्यज्ञानं भविष्यतीत्यर्थः / एतदेवाह - प्रसिद्धतरमिति।प्रसिद्धेतरमधिकरणं पर्वतलक्षणमित्यर्थः। नैयायिकः समाधत्ते - मयूरनृत्यमिति / तथा चानुमानादस्मादेव पर्वतनृत्यज्ञानं [153 A] भविष्यति / यदि च प्रसिद्धाधिकरणबाधा अर्थापत्तौ सहकारी उच्यते तदाप्रसिद्धाधिकरणाबाधासहकारिवशादप्रसिद्धपर्वतनृत्यज्ञानमनुमानेनैवभविष्यति यथाइच्छा द्रव्याश्रिता गुणत्वात् इत्यत्र प्रसिद्धपृथिव्यादिबाधसहकारिवशादप्रसिद्धात्माधिकरणमादायैव ज्ञानं भविष्यति / अथवा पर्वतमयूरनृत्यज्ञानं नानुमानिकं किन्तु शाब्दमेवेत्यत आह - यद्वेति / यथा गामानयेति शब्दोच्चारानन्तरं चैत्रादिपरकीयगवानयनं तु बाधितमिति बाधसहकारिवशात् यद् गवानयनज्ञानं तद् देवदत्तीयगवानयनज्ञानमेव जायते, तद्वत् अत्रापि पर्वतेतरे न नृत्यतीति शब्देन पर्वतेतरस्मिन् नृत्याभावज्ञानं तज्ज्ञानानन्तरं च नृत्यतीति शब्दाच्च यज्ज्ञानं जायते तन्नृत्यविशेष पर्वतनृत्यमादायैव भविष्यति। ननु नृत्यतीति नृत्यसामान्यवाचकशब्देन कथं पर्वतनृत्यस्य ज्ञानम् ?, न हि सामान्यशब्देन विशेषविषयकं ज्ञानमित्यत आह - विशेषबाधेति। तथा च विशेषबाधसहकारिवशात् सामान्यशब्दस्यापि विशेषबोधजनकत्वमित्यर्थः / न केवलमियं रीतिः शब्दप्रमाणे एव किन्तु अनुमानेऽपीत्याह - अत एवेति / यथा क्षित्यादिकमुपादानगोचरापरोक्षज्ञानजन्यं कार्यत्वात् इत्यनुमानेऽनित्यस्यासर्वविषयकस्य ज्ञानस्यातीतानागतकोटिकोटिपरमाणुव्यणुकादिक्षित्युपादानविषयकत्वासम्भवेन बाधितत्वात् या ज्ञानजन्यत्वानुमितिः सा नित्यसर्वविषयकज्ञानमादायैव सिद्ध्यति, प्रमाणानामयं स्वभावः यथा इतरबाधसहकारिवशात् सामान्यज्ञानजनकेन विशेषज्ञानमवश्यं जननीयम् / एतदेवाह - नित्यत्वमादायैवेति। आचार्या उदयनाचार्याः कुसुमाञ्जलौ। तदभावाऽऽवेदकप्रमाणसद्भावादिति तृतीयविप्रतिपत्तौ एतदर्थो यथा तस्य ईश्वरस्य योऽभावस्तस्याऽऽवेदकं प्रमाणमनुपलब्धिस्तद्भावादित्यर्थः / तथा च