________________ 308 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सहकारिवशात् मनसैव स्मृतदेवदत्तविशेष्यकोऽपि तृतीयलिङ्गपरामर्शो भवतीति नानुपपत्तिः / मनसा व्याप्तिस्मरणसहकारिवशात् देवदत्तो बहिःसत्त्वव्याप्यगृहनिष्ठात्यन्ताभावप्रतियोगित्ववान् अयमिति मानसो देवदत्तविशेष्यकः परामर्शो भविष्यत्येव / यथा घटमहं जानामीत्यत्र घटज्ञानवान् अहमिति ज्ञानविषयो घटश्चेति मानसे बोधे घटस्य विशेषणत्वं विशेष्यत्वमपि तद्वत् देवदत्ते स्मृत्युपनीयवशात् देवदत्तविशेष्यकोऽपि मानसः परामर्शो भविष्यत्येव। एतावता देवदत्तविशेष्यकोऽपितृतीयलिङ्गपरामर्शः समर्थितः। ननु तर्हि स्मृतिरूपोपनयस्य प्रमाणान्तरत्वं स्यादित्यत आह - यथेति। यथा उपनयस्य प्रमाणान्तरत्वं न सम्भवति तथोपपादितम् अधस्तात् पूर्वं परामर्शग्रन्थे उपपादितम् / तथाहि उपनयस्य प्रमाणान्तरत्वभयेन यदि उपनयो मनसः सहकारी न भवेत् तथा(दा) बाह्यपदार्थानां घटादीनां मानसे बोधे अनुव्यवसाये भानं न स्यात् तेषामपि प्रमाणान्तरत्वं स्यात्, तथा च बाह्येन्द्रियजन्यबोधे एव मनसः सहकारिणः प्रमाणान्तरत्वं न तु मानसे बोधे / अन्यथा भवन्मतेऽपि घटादीनामनुव्यवसाये भानं न स्यात् तेषामपि मनसः सहकारित्वात् इत्यत्र विस्तर इति / प्राभाकरैकदेशिनामर्थापत्तिसाधकान्तरमवतारयति - नन्विति / तथा च एतादृशज्ञानानन्तरं पर्वतनृत्यज्ञानजनकं यत् प्रमाणं सैवार्थापत्तिः / अत्राशय निराकरोति - न चेति / इदं ज्ञानं व्यतिरेकिणैव भविष्यति इत्याशङ्कां निराकरोति - पर्वतेति / यथानुमानम् मयूरः पर्वते नृत्यति पर्वतेतरस्मिन्ननृत्यत्वे सति नृत्यसम्बन्धित्वात् इत्यत्रानुमाने . व्यतिरेकिणिपर्वतमयूरनृत्यरूपसाध्यस्याप्रसिद्धौ व्यतिरेक्यनुमानानवकाशात्। एतदेवाह - व्यतिरेकव्याप्त्येति / अनिरूपणादज्ञानादित्यर्थः। ___नच पर्वतनृत्याप्रसिद्धौ तेन विनानुपपत्तिप्रतिसन्धानमपि नेति कथमर्थापत्तिरपीति वाच्यम् / अधिकरणं विनानुपपद्यमानं नृत्यं प्रसिद्धाधिकरणबाधसहकृतं प्रसिद्धतरमधिकरणं कल्पयतीति चेत् / न / मयूरनृत्यं साधिकरणं नृत्यत्वात् इति सामान्यतोदृष्टं प्रसिद्धाधिकरणबाधसहकृतं प्रसिद्धतरं पर्वतमधिकरणमादाय नृत्यज्ञानं जनयति। यद्वा पर्वतेतरे न नृत्यतीति शब्देन नृत्याभावबोधानन्तरं मयूरो नृत्यतीति शब्दाज्जायमानं ज्ञानं पर्वतनृत्यं गोचरयति प्रसिद्धविशेषबाधसहकृतसामान्यज्ञानजनकप्रमाणस्य प्रसिद्धतरं पर्वतमधिकरणविशेषमादाय ज्ञानजनकत्वनियमात् / अत एवानित्यज्ञानबाधानन्तरं क्षित्यादौ ज्ञानजन्यत्वं सिद्धनित्यत्वमादायैव सिद्धयतीत्याचार्याः / यद्वा मयूरनृत्यं पर्वताधिकरणकं पर्वतेतरानधिकरणत्वेसतिसाधिकरणत्वात् पर्वतत्ववत् इति अन्वय