________________ अर्थापत्तिनिरूपणम् 307 गृहनिष्ठात्यन्ताभावप्रतियोगित्वस्य ज्ञानं सम्भवत्येव / एतदेवाह - तथाहीति। देवदत्तेति। गृहे देवदत्तस्याभाव इतिअभावप्रत्यक्षं यदा जायते तदाऽभावेऽनुयोगित्वं देवादत्ते] प्रतियोगित्वंप्रत्यक्षेणभासते, तथा चाभावप्रत्यक्षे प्रतियोग्यनुयोगिभावसम्बन्धोऽपि भासते, ततः ससम्बन्धः सम्बन्धिप्रत्यक्षं विनानभासते, तथा च देवदत्तस्याभाव इत्यत्र [152 A]षष्ठ्यर्थः प्रतियोगित्वंप्रथमार्थोऽनुयोगित्वम्, तथा च प्रतियोगित्वानुयोगित्वलक्षणसम्बन्धज्ञानं सम्बन्धिद्वयविषयकम्, सम्बन्धिनौ च देवदत्तोऽभावश्चेति, तेन सम्बन्धे भासमानेऽवश्यं सम्बन्धी भासते, ततो देवदत्तोऽप्यवश्यं प्रत्यक्षेणैव भासते।समाधानान्तरमाह - प्रतियोगिनेति।प्रतियोगीदेवदत्तः, तेन सह अभावस्य अन्यत् सम्बन्धान्तरं नास्ति, प्रतियोगित्वमेव सम्बन्धः, तच्चदेवदत्तस्य स्वरूपमेव। तथा चप्रतियोगित्वप्रत्यक्षेऽवश्यं देवदत्तप्रत्यक्षं भवत्येव / तथा च देवदत्तेन सह यद्यपि सन्निकर्षो नास्ति तथापि देवदत्तप्रत्यक्षं स्मृत्युपनीतदेवदत्तस्मरणवशात् जायते / एव(व) च देवदत्तप्रत्यक्षमानीतम्, तत्र चोपनय एव सन्निकर्ष इत्युक्तम् / अथ परामर्शमानयति - गृहनिष्ठेति। तथा चदेवदत्ते इन्द्रियासन्निकर्षेऽपिपूर्वोक्तरीत्या गृहनिष्ठात्यन्ताभावप्रतियोगित्वे प्रत्यक्षेणोपस्थिते स्मृतव्याप्तेर्वैशिष्ट्यमपि हेतौ गृहीतुं शक्यत एव यथा धूमो वह्निव्याप्यः तद्वत् गृहनिष्ठात्यन्ताभावप्रतियोगित्वं बहिःसत्त्वव्याप्यमिति परामर्शरूपं ज्ञानं देवदत्तेन सह इन्द्रिय(या)सन्निकर्षेऽपि भवत्येव / अत्राशङ्कते - न चेति। उपनीतस्य स्मृत्युपनीतस्य देवदत्तस्य विशेषणत्वेन भानात् / यथा स्मृत्युपनीतं सर्वत्र विशेषणत्वेनैव भासते परं न विशेष्यत्वेनेति नियमः / यथा चक्षुषा सुरभि चन्दनमिति ज्ञाने सौरभं विशेषणत्वेन भासते न तु विशेष्यत्वेन; घ्राणेन्द्रियेण जन्ये लौकिकबोधे सौरभं विशेष्यत्वेन भासते यथा चन्दने सौरभमिति यतः चन्दनं तत्र स्मृत्युपनीतं घ्राणेन्द्रियेण न गृह्यते इति कृत्वा चन्दनं विशेषणत्वेनैव भासते / घ्राणेन्द्रियजन्ये बोधे तु सौरभं विशेष्यत्वेनैव भासते तद्योग्यत्वात् / एवं देवदत्ताभावज्ञानकाले देवदत्तस्य स्मृत्युपनीतस्य विशेषणत्वेन भानात् यथा गृहे देवदत्तस्याभावो बहिःसत्त्वव्याप्यः इत्येव परामर्शो भविष्यति परंतु बहिःसत्त्वव्याप्यगृहनिष्ठात्यन्ताभावप्रतियोगित्ववान् देवदत्तइति देवदत्तविशेष्यकप्रत्यक्षन सम्भवतीत्याशङ्कार्थः / समाधत्ते - पक्षवृत्तीति। न हि पक्षविशेष्यकपरामर्शेऽनुमितिकारणमस्माभिरुच्यते किन्तु पक्षे व्याप्यवैशिष्ट्यावगाहिज्ञानत्वेन परामर्शस्य कारणत्वम् तत्तु देवदत्तस्य विशेषणत्वेन भानेऽपि सम्भवत्येवेत्यर्थः / ननु अन्वयव्यतिरेकाभ्यां पक्षविशेष्यक एव परामर्शः कारणमित्यत आह - अधिकस्येति / लाघवात् विशेषणविशेष्यसाधारणपक्षविषयकव्याप्यवैशिष्ट्यावगाहिज्ञानत्वेनैवकारणत्वं न तुपक्षविशेष्यव्याप्यवैशिष्ट्यावगाहिज्ञानत्वेन कारणता / तत्र हेतुर्गौरवेति। भवतु वा पक्षविशेष्यकः परामर्शः कारणं तथापि नानुपपत्तिरिति आह - अथवेति / अयमाशयः - बाह्येन्द्रियजन्ये बोधे उपनीतं विशेषणत्वेनैव भासते इति नियमः / मानसे बोधे तु उपनीतं विशेषणत्वेन [152 B] भासते विशेष्यत्वेनापि भासते। तथा चानतिप्रसक्तं यत् सहकारि व्याप्तिस्मरणं तत्