________________ 306 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्राभाकरः समाधत्ते - न कथञ्चिदिति। स्मृत्युपनीते पर्वतस्थलेऽनुमानात् वह्रिज्ञानं न जायत एवेत्यर्थः / तत्र कथं वह्रिज्ञानमित्याह - कथं तहीति आशङ्का / समाधानं यथाह - पक्षधर्मेति / तथा च पक्षे धर्मो यो धूमः स वह्नि विनाऽनुपपन्न इत्यनुपपत्तिज्ञानादेव स्मर्यमाणधूमस्थलेऽनुमितिः / तथा च तत्रानुपपत्तिरेवार्थापत्तिरेव प्रमाणम्, तथा च पूर्वं धूमस्मरणं तदनन्तरमनुपपत्तिज्ञानं तदेव व्यापाररूपमेव प्रमाणमित्यर्थः / एवं च सन्निकृष्टधूमस्थलेऽपि पर्वतो वह्निमान् इत्यादौसन्निकृष्टोधूमो वह्नि विनाऽनुपपन्नइति यत्रज्ञानं तत्राप्यनुपपत्तिरेव प्रमाणं नानुमानं व्याप्तिस्मरणाभावेऽप्यनुपपत्तिमात्रादेव वह्रिज्ञानस्य जायमानत्वात् / ननु तर्हि कुत्रानुमानं प्रमाणं भविष्यतीत्यत आह - यदा त्विति / यदा धूमादिकं लिङ्गमनुपपत्तिज्ञानं विना व्याप्यत्वेन प्रतिसन्धीयते तदाऽनुमानं प्रमाणम् / यथा 'तव मते एकस्यैव धूमस्यान्वयव्याप्त्यप्रतिसन्धानदशायां केवलव्यतिरेकित्वं तद्वत् प्रकृतेऽपि व्याप्त्यप्रतिसन्धानदशायामापत्तिः प्रमाणमिति प्राभाकरमतसंक्षेपः / प्राभाकरः उपसंहरति - तस्मादिति। तथा च व्यतिरेकव्याप्तिरेवानुपपत्तिस्तामुपजीव्य तत्सहकारात् देवदत्ताभावो ज्ञायमानो बहिःसत्त्वं कल्पयति / तथा च देवदत्ताभावः करणम्, अनुपपत्तिः व्यापारः, बहिःसत्त्वज्ञानं फलमिति निष्कर्षः। .. उच्यते / देवदत्तासन्निकर्षेऽपि तस्य गृहनिष्ठाभावप्रतियोगित्वं प्रत्यक्षेण गृह्यते तथाहिगृहे देवदत्तस्याभावइतिप्रत्यक्षंदेवदत्तंषष्ठ्यर्थंचाभावसम्बन्धं प्रतियोगित्वलक्षणं गोचरयति सम्बन्धज्ञानस्य सम्बन्धिद्वयविषयत्वात्, प्रतियोगिना सममभावस्य सम्बन्धान्तराभावात्गृहनिष्ठाभावप्रतियोगित्वेचप्रत्यक्षोपस्थिते स्मृतव्याप्तिवैशिष्ट्यमपिप्रत्यक्षेणसुग्रहम्।नचदेवदत्तविशेष्यकंबहिःसत्त्वव्याप्यगृहनिष्ठाभावप्रतियोगित्वज्ञानं नास्तीति वाच्यम् / पक्षवृत्तिलिङ्गपरामर्शमात्रस्यानुमितिजनकत्वात् अधिकस्य गौरवपराहतत्वात्।अथवाअनतिप्रसक्तसहकारिवशात् मनसैवस्मृतदेवदत्तविशेष्यकस्तृतीयलिङ्गपरामर्शः यथा च न सहकारि मानान्तरं यथोपपादितमधस्तात् / ननु मयूरः पर्वतेतरेननृत्यति नृत्यतिचेतिज्ञानानन्तरंपर्वते नृत्यतीतिज्ञानमस्ति, नचव्यतिरेकिणस्तत् सम्भवति, पर्वतनृत्यस्य साध्यस्याप्रतीतौ व्यतिरेकव्याप्त्यनिरूपणात् / _नैयायिकः सिद्धान्तयति- उच्यते इति।देवदत्तो बहिरस्ति जीवित्वे सतिगृहनिष्ठात्यन्ताभावप्रतियोगित्वात् इत्यनुमाने परामर्श समर्थयति - देवदत्तेति / तथा च देवदत्तेन यद्यपीन्द्रियसन्निकर्षो नास्ति तथापि 1. नैयायिकमते।