________________ 305 अर्थापत्तिनिरूपणम् गृहनिष्ठात्यन्ताभावस्य अथ च बहिःसत्त्वस्य च व्यधिकरणत्वात् कथमनुमितिः स्यादित्यर्थः। नापि गृहनिष्ठाभावप्रतियोगित्वम्, तत्प्रतियोगित्वस्य देवदत्तधर्मतया तदसन्निकर्षे प्रत्यक्षेण ज्ञातुमशक्यत्वात् / अत एव विशेष्यासन्निकर्षात् तृतीयलिङ्गपरामर्शोऽपि न प्रत्यक्षेण।नच व्यतिरेकव्याप्ति-गृहनिष्ठाभावयोर्ज्ञानं सहकार्यासाद्य मनसैवजन्यत इति वाच्यम् / सहाकारिण एव मानान्तरत्वप्रसङ्गात् / अथ व्याप्तिज्ञानानन्तरं स्मर्यमाणधूमात् कथमनुमितिः उक्तन्यायेन तत्रापिलङ्गपरामर्शाभावादिति चेत्, न कथञ्चित्, कथं तर्हि वह्निज्ञानं पक्षधर्मधूमस्मृतिसहितात् धूमो वह्निं विना नास्तीत्यनुपपत्तिज्ञानादिति गृहाण, अत एव दृश्यमानो धूमो वह्नि विनानुपपन्न इति यदा ज्ञायते तदार्थापत्तिरेव यदा त्वनुपपत्तिज्ञानं विनाव्याप्यत्वेन प्रतिसन्धीयते तदानुमानत्वयापितत्रत्रिविधानुमानस्वीकारात् / तस्माद् व्यतिरेकव्याप्तिमुपजीव्य जीविदेवदत्ताभावो बहिःसत्त्वं कल्पयति। . अत्राशङ्कते - नापीति / समाधानम् - स(त)त्प्रतियोगित्वेत्यादिना / तथा च गृहनिष्ठात्यन्ताभावप्रतियोगित्वमपि हेतुर्न / कुत इत्यत आह - तत्प्रतियोगित्वेति / तथा च गृहनिष्ठात्यन्ताभावप्रतियोगित्वं देवदत्तनिष्ठो धर्मः / देवदत्तस्य तु बहिर्विद्यमानत्वेन तदसन्निकर्षात् पक्षे हेतोर्ज्ञानं न सम्भवति, कथमनुमानमिति भावः / न केवलं हेतुज्ञानं न सम्भवति किन्तु तृतीयलिङ्गपरामर्शोऽपि दुर्ग्रह इत्याह - अत एवेति / यत एव देवदत्तवृत्तिप्रतियोगित्वं देवदत्तरूपविशेष्यासन्निकर्षे दुर्ग्रहः (हम्) अत एव / देवदत्तरूपविशेष्यासन्निकर्षे तृतीयलिङ्गपरामर्श चोपपादयति न चेत्यनेन नैयायिकः / यथा यत्र यत्र बहिःसत्त्वाभावस्तत्र तत्र जीवित्वे सति गृहनिष्ठात्यन्ताभावप्रतियोगित्वाभावो यथा मृते गृहस्थिते वेति व्यतिरेकव्याप्तिः / तत एनां व्याप्तिस्मृति सहकारिणीमासाद्य स्मृत्युपनीते देवदत्ते स्मृत्युपनीतपर्वतवत् मनसैव तृतीयलिङ्गपरामर्शो भविष्यतीत्याशङ्कार्थः / समाधत्ते मीमांसकः - सहकारिणेति। तथा च देवदत्तस्मरणस्य व्याप्तिस्मरणस्य च प्रमाणान्तरत्वप्रसङ्गः स्यात् यदसाधारणेत्यादिनेत्यर्थः / नैयायिकः शङ्कते - अथेति। यदि च मनसः सहकारिणः प्रमाणान्तरत्वप्रसङ्गभयेन [151 B] स्मृत्युपनीते परामर्शो मानसो न भवेत् ततः स्मर्यमाणधूमात् कथमनुमितिः स्यात् / यथा स पर्वतो वहिव्याप्यधूमवान् इतिरूपात् परामर्शात् - वस्तुगत्या महानसे व्याप्तिर्गृहीता सा स्मृता पर्वतेऽपिधूमः स्मृतः ततः पर्वतः स वहिव्याप्यधूमवान् इति रूपात् - अनुमितिर्भवत्येवेत्यर्थः, सा च न स्यात् / कुत इत्यत आह - उक्तन्यायेति / व्याप्तिस्मरणस्य प्रमाणान्तरत्वप्रसङ्गभयेन परामर्शो न स्यात् तदभावान्नानुमितिरिति भावः /