________________ 304 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नैयायिकः शङ्कते - साध्याभावेति / साध्याभावस्य व्यापको योऽभावो हेत्वभावस्तस्य प्रतियोगित्वेन पक्षधर्मस्य ज्ञानमनुमितिप्रयोजकम्। तच्च प्रकृतेऽप्यस्तीति। तथा च साध्याभावव्यापकाभावप्रतियोगित्वेन यत् पक्षधर्मताज्ञानं तदेवानुमितिप्रयोजकं तच्च बहिःसत्त्वज्ञानेऽप्यस्तीति कृत्वा बहिःसत्त्वज्ञानमप्यनुमितिरूपमेव / दूषयति - केवलान्वयिनीति / प्रमेयत्वादौ साध्याभाव एवाप्रसिद्धः इति कृत्वा तदनुमितिप्रयोजकं न भवति किन्तु व्याप्तिविशिष्टे (ष्ट)पक्षधर्मताज्ञानमेवेत्यर्थः / ननु केवलान्वयिनि अन्यैव सामग्री भविष्यतीत्यत आह - तदपेक्षयेति / तथा च साध्याभावव्यापकाभावप्रतियोगित्वज्ञानापेक्षया साध्यव्याप्यत्वे(त्व)ज्ञानस्य लघुत्वात् साध्यव्याप्यत्वज्ञानमेवानुमितौ कारणमस्तु इत्यर्थः / अत्र शङ्कते - अथेति। तथा च पृथिवी इतरभेदवती पृथिवीत्वात् इत्यत्र यत्र इतरभेदाभावस्तत्रपृथिवीत्वाभाव इतिव्यतिरेकसहचारात्पृथिवीत्वमितरभेदव्याप्यमिति व्यतिरेकसहाचारादन्वयव्याप्तिज्ञानं जायते / तथा च भवतु त्वदुक्तरीत्या साध्यव्याप्यत्वज्ञानमेव कारणं तच्च व्यतिरेकिणि वर्तते एवेति व्यतिरेकी(कि) प्रमाणं भविष्यतीति। ननु व्यतिरेकिणि चेत् अन्वयव्याप्तिरेवगृह्यते तदा अनुमानत्रैविध्यमेव न स्यात्, यतो व्यतिरेकिण्यपि अन्वयव्याप्तिरस्ति तेनान्वय्येवायं स्यादित्यत आह - एवं चेति / तथा चान्वयसहचारात् यत्रान्वयव्याप्तिज्ञानं सोऽन्वयी, यत्र च व्यतिरेकसहचारात् यत्रान्वयव्याप्तिज्ञानं स व्यतिरेकी यथा यत्र यत्र इतरभेदाभावस्तत्र पृथिवीत्वाभाव इत्येतस्माद् व्यतिरेकसहचारात् पृथिवीत्वमितरभेदव्याप्यमित्यन्वयव्याप्तिबुद्धिर्भवति सव्यतिरेकी, यत्र वाऽन्वयव्यतिरेकसहचाराभ्यामुभाभ्याम् अन्वयव्याप्तिग्रहः सोऽन्वयव्यतिरेकीति त्रैविध्ये नानुपपत्तिरित्यर्थः / ननु यदा धूमेऽन्वयव्याप्तिज्ञानदायां केवलान्वयित्वं व्यतिरेकसहचारज्ञानदशायां केवलव्यतिरेकित्वं स्यात् तथा चान्वयव्यतिरेकी नस्यादित्यत आह - अतएवेति / तथा च यदा [151 A] धूमेऽन्वयमात्रसहचार उपस्थितस्तदा धूमोऽन्वयी, यदा च व्यतिरेकसहचारमात्रमुपस्थितं तदा व्यतिरेकी, यदा चोभयसहचारोपस्थितिस्तदाऽन्वयव्यतिरेकीतीष्टापत्तिरित्यर्थः / मीमांसकः समाधत्ते - अस्त्विति। तथा च जीविदेवदत्ताभावो बहिःसत्त्वं नानुमापयति। यथा देवदत्तो बहिरस्ति यतो जीविनो देवदत्तस्य गृहेऽभाव इत्यनुमाने हेतुसाध्ययोर्वैयधिकरण्यं देवदत्ताभावो गृहे बहिःसत्त्वं तु देवदत्ते इति / तथा च हेतोर्देवदत्तरूपपक्षावृत्तित्वान्न बहिःसत्त्वं साधयति / एतदेव विवृणोति - बहिःसत्त्वे इति / तथा च हेतुसाध्ययोळधिकरणत्वे किं दूषणमित्यत आह - नियतेति / हेतुसाध्ययोर्नियतसामानाधिकरण्यरूपा व्याप्तिर्नास्तीति तदभावेऽनुमितिः कथं स्यादित्यर्थः / ननु उपरि सविता [भूमे]रालोकवत्त्वात् इत्यादौ हेतुसाध्ययो wधिकरणत्वेऽप्यनुमितिर्दृष्टा / उपरीति / तथा चालोकवत्त्वं हेतुर्भूमौ वर्तते सवितृरूपं साध्यं भूमेरूर्ध्वम्, कथं सामानाधिकरण्यमित्यत आह - उपरीति / तथा चात्र उपरि न सवितृत्वं साध्यं किन्तु सन्निहितसवितृकत्वं साध्यम् / तथा च भूमेरालोकवत्त्वस्य सन्निहितसवितृकत्वस्य च सामानाधिकरण्यं वर्तते एवेत्यर्थः / तथा च