________________ अर्थापत्तिनिरूपणम् 303 वह्निधूमव्याप्तिज्ञानात व्याप्तिर्वर्तते धूमो(मे) पक्षधर्मता चघटेऽपि तिष्ठति तथा चधूमो वह्रिव्याप्यो घटवांश्च पर्वत इति ज्ञानादप्यनुमितिः स्यादित्यर्थः / समाधत्ते नैयायिकः - साध्याभावेति / व्यतिरेकिणि व्याप्तिविशिष्टस्य पक्षधर्मता न नियामिका किन्तु साध्याभावव्यापकाभावप्रतियोगित्वमेव नियामकं यथा यत्र यत्र इतरभेदाभावः तत्र पृथिवीत्वाभाव इति / तथा च इतरभेदाभावव्यापकाभावप्रतियोगि पृथिवीत्वमिति ज्ञानात् यथाऽनुमितिस्तथाऽत्रापि / अत्र प्राभाकरः शङ्कते - न चेति। तथा चानुमाने व्याप्तिज्ञा (आ)नम् अर्थापत्तौ तु स्वरूपसती। अनुमानादर्थापत्तेरयं विशेषः / अनुमाने व्याप्तिर्ज्ञातैव हेतुः अर्थापत्तौ तु स्वरूपसती अज्ञातैवोपयुज्यते इति। तथा चाज्ञातव्याप्तिबलात् यत्र साध्यज्ञानं साअर्थापत्तिः / नैयायिकः समाधत्ते - अनुपपत्तेरिति। यस्य मते अर्थापत्तिः प्रमाणं तन्मतेऽपि अनुपपत्तेर्ज्ञानं विना कल्पना नास्ति / तथा चानुपपत्तिर्व्यतिरेकव्याप्तिरेव, ततो व्यतिरेकव्याप्तिज्ञानद्वाराऽनुमितिरेव बहिःसत्त्वविषयिणीति। विपक्षेबाधकमाह - अर्थापत्त्याभासेति। यदि अनुपपत्तिज्ञानं कारणं नास्ति तदाऽर्थापत्त्याभासोऽपि न स्यात्, यतोऽनुपपत्तिभ्रमादेवार्थापत्तिभ्रमः यथा धूमभ्रमात् वह्रिभ्रमः, यदि चानुपपत्तिज्ञानं नास्ति तदा अर्थापत्तिभ्रमो न स्यात् / तस्मादनुपपत्तिातैवोपयुज्यते, अनुपपत्तिज्ञानं च व्यतिरेकव्याप्तिाज्ञानम्], तदा अनुमानमेव प्रमाणम् / मीमांसकः समाधत्ते (150 B] - मैवमिति / तत्र हीति। व्यतिरेक्यनुमाने व्यतिरेके(क)व्याप्तिः अन्वयिहेतोः पक्षधर्मत्वम्, तत्र] पक्षधर्मे व्याप्तिर्नास्ति इति कृत्वा व्यतिरेकी(कि) प्रमाणं न भवति। तथा च व्यतिरेकव्याप्तिजन्यमपिबहिःसत्त्वज्ञानं नानुमितिः किन्तु अर्थापत्तिरेव / तस्या इति अनुमितेः इत्यर्थः / व्याप्तिविशिष्टे या पक्षधर्मता तस्या यद् ज्ञानं तजन्यत्वात् / इयं तु न व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्या / व्याप्तिव्यतिरेके तत्र पक्षधर्मतात्वा(मत्वा)भावात् / न च साध्याभावव्यापकाभावप्रतियोगित्वेन पक्षधर्मस्य ज्ञानमनुमितिप्रयोजकं तच्चेहाप्यस्तीति वाच्यम्।केवलान्वयिनि तदसम्भवात्तदपेक्षया साध्यव्याप्यत्वज्ञानस्य लघुत्वाच्च / अथ व्यतिरेकसहचारात् हेतोरेव व्याप्तिर्गृह्यते एवं चान्वयस्य व्यतिरेकस्य उभयस्य वासहचारात्व्याप्तिग्रहत्रैविध्येऽनुमानत्रैविध्यम्, अतएवधूमोदशाविशेषेऽन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति चेत्, अस्तु तावदेवं तथापि जीविदेवदत्ताभावो गृहे वर्तमानो न बहिःसत्त्वे लिङ्गं देवदत्तावृत्तित्वात् बहिःसत्त्वगृहनिष्ठाभावयोर्त्यधिकरणत्वेन नियतसामानाधिकरण्यरूपव्याप्त्यभावाच्च, उपरिसविताभूमेरालोकवत्त्वात् इति अत्र भूमेरुपरिसन्निहितसवितृकत्वेनानुमानात् /