SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 302 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रति। मीमांसकःसमाधत्ते - सामान्येन हीति। तथा च सामान्यतो बहिःसत्त्वं विनाजीविनोगृहासत्त्वमनुमे(मै)वेति सामान्यतोऽनुपपत्तिज्ञानं करणम्, तस्माच्च जीविनो देवदत्तस्य गृहासत्त्वानुपपत्त्या देवदत्तबहिःसत्त्वज्ञानं फलम्, तथा चसामान्यतोऽनुपपत्त्या यत्रगृहासत्त्वं तत्र बहिःसत्त्वं पर्यवसन्नम्। तथाहीत्यारभ्यपर्यवस्यतीतिप्रघट्टकार्थः / निष्कर्षस्तु उक्तसामान्यतोऽनुपपत्तिज्ञानात् विशेषसिद्धिर्देवदत्तबहिःसत्त्वसिद्धिः फलमितिभावः। अत्रैव दृष्टान्तमाह - यथेति। वह्निमात्रव्याप्तात् धूमात् पर्वतीयवह्रिसिद्धिः / न तु पर्वतीयवह्नित्वेन रूपेण पर्वतीयधूमत्वेन च रूपेण व्याप्तिज्ञानम् / व्याप्तिज्ञानं तु सामान्यतो धूमत्ववह्नित्वरूपेणैव। ___ अथोपपादकाभाववत्युपपाद्याभावनियमोऽनुपपत्तिर्नत्वभावमात्रमतिप्रसङ्गात्, एवं च व्यतिरेकव्याप्तिमत उपपाद्यात् व्यतिरेक्यनुमानमुद्रयैव साध्यसिद्धेः किमर्थापत्त्या, तथाहि देवदत्तो बहिः सन् जीवित्वे सति गृहासत्त्वात् यन्नैवं तन्नैवं यथा मृतो गृहस्थितो वा / न चान्यव्याप्त्या अन्यस्य गमकत्वे अतिप्रसङ्गः साध्याभावव्यापकाभावप्रतियोगित्वस्य नियामकत्वात् / न चार्थापत्तौ स्वरूपसती व्याप्तिर्लिङ्गं नानुमान इति वाच्यम् / अनुपपत्तेर्ज्ञानं विना कल्पनानुदयात् अर्थापत्त्याभासानवकाशाच्च / मैवम्। तत्र हि व्यतिरेकव्याप्तिरन्वयस्य पक्षधर्मत्वमिति व्याप्तिधीजन्यमपि बहिःसत्त्वज्ञानं नानुमिति: तस्या व्याप्तपक्षधर्मताज्ञानजन्यतानियमात्। नैयायिकः शङ्कते - अथेति। तथा चोपपादकाभाववति उपपाद्याभावनियमोऽनुपपत्तिः। उपपादकं तत् येन कृत्वा यदुपपद्यते, [150 A] यथाऽनुपपन्नं गृहासत्त्वं बहिःसत्त्वेनोपपद्यते अतो बहिःसत्त्वमुपपादकम् / इयमेवानुपपत्तिर्न त्वभावमात्रम् / उपपादकाभावे उपपाद्याभावनियम एवानुपपत्तिरिति, न तु यस्य कस्यचिद् व्यतिरेके यस्य कस्यचिद् व्यतिरेक इति अतिप्रसङ्गादिति। देवदत्तबहिःसत्त्वव्यतिरेकेण चैत्रगृहासत्त्वमप्यनुपपन्नं स्यादित्यतिप्रसङ्ग इत्यर्थः / ततः किमित्यत आह - एवं चेति / तथा च इयमेव व्यतिरेकव्याप्तिः यथा उपपादकं व्यापकम् उपपाद्यं व्याप्यम्, तथा चव्यापकाभावे व्याप्याभाव एव व्यतिरेकव्याप्तिः। तथा चव्यतिरेकव्याप्तिमुद्रयैव उपपाद्यात्गृहासत्त्वात् उपपादकस्य बहिःसत्त्वस्य सिद्धिर्भविष्यति, किमर्थापत्त्या इत्याशङ्कार्थः।व्यतिरेक्यनुमानं दर्शयति - तथाहीति / अनुमाने मीमांसकः शङ्कते - अभावे व्याप्तिः यथा यत्र यत्र बहिःसत्त्वं नास्ति तत्र तत्र जीवित्वे सति गृहासत्त्वमपि नास्ति यथा मृते गृहस्थिते वा। इयं व्याप्तिरभावे पक्षधर्मता तु गृहासत्त्वस्य, तेन यत्र व्याप्तिस्तत्र पक्षधर्मता इति नास्ति। तथा चान्यत्र यदि व्याप्तिरन्यत्र पक्षधर्मता चेत् गमिका तदा अतिप्रसङ्गो यथा
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy