________________ 300 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका दूषणान्तरमाह - किञ्चेति / वस्तुगत्या देवदत्तो मृतोऽस्ति [149 A], अथवा वस्तुगत्या गृहस्थितोऽस्ति, अथवा वस्तुगत्या यत्र बहिःस्थितोऽस्ति तत्र / देवदत्ते मृते वस्तुगत्या मृते जीवनग्राहकं वस्तुगत्याऽप्रमाणं तद्विरोधि मरणमेव कल्पयेत्, यतः संशयस्यायं स्वभावो यद् वस्तुगत्याऽप्रमाणं तद्विरोध्येव कल्प्यते, अत्र च मृते जीवनग्राहकमप्रमाणमिति कृत्वा तद्विरोधि मरणमेव कल्पयेत् न बहिःसत्त्वमित्यर्थः / एवं च गृहस्थिते गृहे नास्तीत्यप्रमाणम्, ततश्च तद्विरोधि गृहे नास्तीति यदप्रमाणं तद्विरोधि गृहसत्त्वमेव कल्पयेत् न तु बहिःसत्त्वम् / अत्र च बहिःस्थिते गृहनियमग्राहकमप्रमाणं तद्विरोधिबहिःसत्त्वकल्पनापादने न किञ्चिदपि प्राभाकरस्यानिष्टं तथापि दृष्टान्तविधया इदं बोद्धव्यम् / यथा वस्तुगत्या बहिःस्थिते गृहनियमग्राहकस्याप्रमाणत्वात् गृहनियमग्राहकविरोधि बहिःसत्त्वं कल्प्यते एवं वस्तुगत्या मृते जीवनग्राहकं यदप्रमाणं तद्विरोधि मरणमेव कल्पयेत् न बहिःसत्त्वम् / एवं वस्तुगत्या गृहस्थिते गृहाभावग्राहकमप्रमाणम्, तत्र च गृहसत्त्वमेव कल्पयेत् न बहिःसत्त्वं कल्पयेदित्यर्थः। नन्वनेष्टापत्तिरित्येतादा आह - अर्थापत्त्याभासश्चेति। यदि वस्तुगत्या मृते मरणमेव गृहस्थिते चगृहसत्त्वमेव कल्प्यते तत्र मृतेगृहस्थितेवाबहिःसत्त्वकल्पनां विनाऽर्थापत्त्याभासो न स्यात् तथा चाबहिःस्थिते एव बहिःसत्त्वकल्पनायामर्थापत्त्याभासः स च न स्यादित्यर्थः / मीमांसकः मतान्तरमाशङ्कते - स्यादेतदिति। तथा च पूर्वोक्तदूषणैः संशयः करणं मा भूत्, अनुपपत्तिस्तु बहिःसत्त्वज्ञानं प्रति करणं भवतु इत्यन्वयः / अनुपपत्तिमेव प्रकटयति - तथाहीति। तथा च बहिःसत्त्वज्ञानं विना जीविनो गृहासत्त्वमनुपपन्नमिति ज्ञानानन्तरं बहिःसत्त्वज्ञानं तु जायते / ततः किमित्यत आह - तत्रेति / यदनन्तरं यत् जायते तत्र तदन्वयव्यतिरेकाभ्यां तत्करणम् / बहिःसत्त्वेन विना जीविनो गृहासत्त्वमनुपपन्नमित्यनुपपत्तिज्ञानं करणम्, बहिःसत्त्वज्ञानं फलम् / अत्राशङ्कते - न चेति / देवदत्तो बहिरस्ति विद्यमानत्वे सति गृहासत्त्वात् इत्यनुमानम् / व्याप्तिं दर्शयति - विद्यमानत्वे इति। उपसंहरति - किमर्थापत्त्येति। समाधत्ते - हेतुसाध्ययोरिति / तथा चानुमाने हेतुसाध्ययोः सहचारज्ञानमपेक्षितम् / अत्र च यत्र यत्र विद्यमानत्वे सति देवदत्तगृहासत्त्वं तत्र तत्र बहिःसत्त्वमित्येतादृशसहचाराज्ञानदशायामपि उक्तानुपपत्तिज्ञानात् बहिःसत्त्वज्ञानं जायते एवेति अनुपपत्तिज्ञानं करणम् / किञ्च, नात्र विशेषतो व्याप्तिः देवदत्तबहिःसत्त्वस्य पूर्वमज्ञातत्वात्। न च सामान्यतो व्याप्तिः उपसंहारे उपयुज्यते इत्याह - सामान्यत इति / तथा चेयं सामान्यव्याप्तिरेव यथा यत्र यदा यन्नास्ति तदा तदन्यदेशे तदस्तीति रूपा / एतस्याः कुत्रापि नोपयोग इति [149 B] व्यतिरेकिग्रन्थे स्थापितम्। ननु जीविनो गृहासत्त्वमनुपपन्नं किं देवदत्तबहिःसत्त्वं विना उत बहिःसत्त्वमात्रं विना ? नाद्यः प्रथमं देवदत्तबहिःसत्त्वाप्रतीतौ तेन विनेदमनुपपन्नमिति ज्ञानाभावात्,