________________ अर्थापत्तिनिरूपणम 299 सहकारी अत्र मते तर्कः सहकारी नेति भेदः / एतद् दूषयति - तत् तुच्छमिति / अप्रमाणस्यापीति / यत्र वस्तुगत्या जीवित्वग्राहकमप्रमाणं तत्र गृहनियमग्राहकं प्रमाणमेव / एवं च सति जीवित्वग्राहकं यदि वस्तुगत्याऽप्रमाणं तस्य प्रमाणत्वेन ज्ञानात् ज्योतिःशास्त्रस्य प्रमाणत्वेन ज्ञानात्, वस्तुगत्या प्रमाणं गृहनियमग्राहकं तस्य अप्रमाणत्वेन ज्ञानात् या बहिःसत्त्वकल्पना जायते सा चार्थापत्त्या न स्यात् / कुतः ? यतः संशयस्यायमेव स्वभावो यद् वस्तुगत्याऽप्रमाणं तद् विरोध्येव कल्प्यते / प्रकृते च यदा जीवनग्राहकस्याप्रमाणत्वादप्रमाणविरोधिमरणमेव कल्पनीयम् न तु प्रमाणविरोधिबहिःसत्त्वम् / कल्प्यते तन्न स्यात् च कल्प्यते / वस्तुगत्या च बहिःसत्त्वं नास्ति, कल्प्यते सा कल्पना स्यात् इति भावः / ननु बहिःसत्त्वकल्पनायां वस्तुगत्या अप्रमाणत्वं न नियामकं किन्तु पूर्वोक्ततर्कादिकं विशेषदर्शनमेव नियामकम् / तथा च लाघवाख्यतर्कसहकारिवशात् यत्रापि जीवनग्राहकंमप्रमाणं तत्रापि लाघवाख्यतर्कसहकारिवशात् बहिःसत्त्वमेव कल्प्यताम् इत्यत आह - तर्कादीति / तथा च संशये यदि तर्कः सहकारी तदा पूर्वमताभेदः / पूर्वमतं च दूषितमेव / एतदेवाह - यथोक्तेति / तथा च तर्कव्यतिरेकेण बहिःसत्त्वज्ञानं च नास्त्येव(वं) च तर्क(कः) संशयस्य सहकारी किमर्थं किन्तु सामान्यतोदृष्टानुमानस्यैव सहकारी भवतु / सामान्यतोदृष्टानुमानं तु अनयोरेकं बाध्यम् विरुद्धार्थग्राहकत्वात् इति रूपम् / तथा चानेनैव तर्कसहकारिवशात् बहिःसत्त्वज्ञानं भविष्यतीति बहिःसत्त्वज्ञानरूपफलानुरोधात् नार्थापत्तिः प्रमाणम्, एतदेवोपसंहरति - अतो नेति / फलबलेन बहिःसत्त्वज्ञानरूपफलानुरोधेनत्यर्थः / - किञ्च, मृते गृहस्थिते बहिःस्थिते तादृशसंशयादेव बहिःसत्त्वं गृहसत्त्वं मरणं च कल्प्येत कस्यचित् क्वचित् वस्तुगत्या अप्रमाणत्वात् अर्थापत्त्याभासश्चैवं न स्यात् / स्यादेतत् मा भूत् संशयः करणमर्थापत्तावनुपपत्तिस्तु स्यात्, तथाहि जीवी देवदत्तो गृहे नास्तीति ज्ञाने सति बहिःसत्त्वं विनाजीवतोगृहासत्त्वमनुपपन्नमिति ज्ञानानन्तरंबहिरस्ति इति धीरस्ति, तत्रान्वयव्यतिरेकाभ्यामनुपपत्तिज्ञानं करणम् / न च देवदत्तो वहिरस्ति विद्यमानत्वे सति गृहासत्त्वात् घटवत् इत्यनुमानात् विद्यमानत्वे सति यत्र यन्नास्ति तदन्यदेशे तदस्ति यथा गृह एव कोणेऽसन्नहं मध्ये तिष्ठामीति व्याप्तिप्रभवानुमानाद्वा बहिःसत्त्वसिद्धेः किमर्थापत्त्येति वाच्यम् / हेतुसाध्ययोः सहचाराज्ञानदशायामनुपपत्तिज्ञानेऽपि बहिःसत्त्वज्ञानात् सामान्यतो व्याप्तिश्चानुमाने उपसंहर्तुमशक्येति तदन्यदेशसिद्धिरापत्त्यैव।