________________ 298 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ___ अन्ये तु शतवर्षजीवी देवदत्तो जीवी गृह एव, गृहे नास्तीति प्रमाणेषु द्वयोरविरोधेऽपि तृतीयमादाय विरोधज्ञानमस्ति, तत्र जीवी गृह एवेत्यप्रमाणघटितप्रमाणद्वयविरोधज्ञानजनिताप्रामाण्यसंशयाहितजीवनसंशयात् प्रमाणयोरविरोधोपपादकमप्रमाणविरोधि बहिःसत्त्वं कल्प्यते, यथोक्तसंशयस्यायमेव स्वभावो यद् वस्तुगत्या अप्रमाणं तद्विरोधि कल्पयति, विरोधघटकस्य वस्तुगत्या अप्रमाणत्वमेव विनिगमकत्वमिति, तत् तुच्छम् अप्रमाणस्यापि प्रमाणत्वेन ज्ञानात्, तर्कादिभिर्विशेषदर्शनं विना यथोक्तसंशयानन्तरं बहिरस्तीति ज्ञानमसिद्धम्, अतो न फलबलेन तथार्थापत्तिकल्पनम् / अर्थापत्तौ मतान्तरमाह - अन्ये त्विति / अन्ये मीमांसकैकदेशिनः इत्यर्थः / ते प्रकारान्तरेणार्थापत्तिं साधयन्ति / तथाहि शतवर्षजीवी देवदत्त इत्येको नियमः, पश्चात् प्रत्यक्षेण जीवी गृह एवेति द्वितीयो नियमः / ततो गृहे नास्तीति तृतीयं प्रत्यक्षमभावग्राहकं प्रमाणम् / आद्ययोः द्वयोरभावग्राहकप्रमाणप्रवृत्तेः पूर्वमविरोधे सति तृतीयाभावग्राहकप्रमाणप्रवृत्त्यनन्तरं विरोधि(ध)ज्ञानमस्ति आद्ययोः अत एवाभावज्ञानानन्तरमेव द्वयोः शतवर्षजीवित्वगृहसत्त्वयोविरोधि(ध)ज्ञानमुत्पद्यते / ततः किमित्यत आह - तत्रेति / तथा च जीवी गृह एवेति अत्र वस्तुगत्या द्वयोः प्रमाणत्वं नास्तीति यत एकमप्रमाणमेवेति अप्रमाणघटितमेवेत्यर्थः / तथा अप्रमाणघटितं यत् प्रमाणद्वयं तयोर्यद् विरोधज्ञानं तजनितो योऽप्रामाण्यसंशयः पूर्वोक्तद्वयविषयकः तदाहितो यो जीवनसंशयः तस्माजीवनसंशयापनोदाय प्रमाणयोर्द्वयोरविरोधापादकमेकस्याप्रामाण्ये विरोधस्तु गत एवेति कृत्वाऽविरोधापादकमप्रमाणविरोधि बहिःसत्त्वं कल्प्यते। ननु संशयस्योभयत्राविशेषात् यथा गृहसत्त्वविरोधि बहिःसत्त्वं कल्प्यते तथा जीवित्वविरोधि मरणमपि कुतो न कल्प्येतेत्यत आह - यथोक्तेति / तथा च यथोक्तसंशयस्यायमेव स्वभावो [148 B] यद् वस्तुगत्या अप्रमाणं तद्विरोध्येव कल्पयति / वस्तुगत्याऽप्रमाणं च गृहनियमग्राहकमेवोत्तरकाले बाधात् / ततः वस्तुगत्याऽप्रमाणं यनियमग्राहकं तद्विरोधि यद् बहिःसत्त्वं तदेव कल्प्यते / ननु तत्रापि संशयस्य यथोक्तस्वभावे किं नियामकमित्यत आह - विरोधि(ध)घटकस्येति। तथा च विरोधि(ध)घटकस्य वास्तवं यदप्रमाणत्वं तदेव संशयेन बहिःसत्त्वकल्पनायां विनिगमकम् / तथा च पूर्वमताद् एतस्मिन् मतेऽयमेव भेदः / तथाहि - पूर्वमीमांसकमते गृहाभावज्ञानं करणम्, संशयो व्यापारः, तर्कादिसहकारिवशात् बहिःसत्त्वज्ञानं फलम् / अत्र मते तु संशयोऽप्रमाणसंशयाहितो जीवनसंशय एकं(व) व(क)रणं करणस्य व्यापारवत्त्वानियमात् / बहिःसत्त्वज्ञानं फलम् / बहिःसत्त्वकल्पनायां च नियामकं तर्कादिकं न सहकारी किन्तु वस्तुगत्या गृहनियमग्राहकस्याऽप्रमाणत्वज्ञानं तदेव नियामकमित्यनयोर्भेदः / पूर्वमते तर्कः