________________ अर्थापत्तिमिरूपणम् 297 तस्य सामान्यतोदृष्टस्य तर्कसहकारिवशादधिकबलत्वेन गृहनियमग्राहकस्य दुर्बलत्वेन जातोऽपि विरोधोऽप्रयोजक इति सामान्यतोदृष्टस्य प्रबलत्वेन जीवने प्रमिते जीवननिश्चये च जीवित्वघटित्व(त)लिङ्गनिश्चये बहिःसत्त्वज्ञानमनुमानादेव भविष्यतीति किमर्थापत्त्येत्यभिप्रायः / ननु व्याप्तिपक्षधर्मताज्ञानमात्रं हि बलम्, तच्चोभयोस्तुल्यम्, तर्कस्तु बलमेव न भवतीति कथं सामान्यतोदृष्टानुमानस्याधिववलत्वमित्यत आह - अन्यथेति। यदि तर्को बलं न भवति तदा तर्कानवतारदशायां पर्वतो वह्रिमान् धूमात् इति पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इति उभयोरपि व्याप्तिपक्षधर्मताज्ञाने समाने सत्प्रतिपक्षे सिद्धे तर्कावतारे सति पूर्वानुमानस्य सत्प्रतिपक्षत्वं न निवर्तेत, तर्कस्तु बलमेव तव मतेन न भवति, तथा चाधिकबलाभावे सत्प्रतिपक्षत्वं कदापि न निवर्तेतेत्यर्थः / दूषणान्तरमाह - किञ्चेति / यदि सामान्यतोदृष्टानुमाने गृहनियमग्राहकविरोधेन तर्को न सहकारी तदा तव प्रमाणमर्थापत्तिस्तत्रापि सत्तर्कः सहकारी न स्यात् / वस्तुगत्या त्वयापि तर्कसहकारिवशात् अर्थापत्त्या बहिःसत्त्वं निश्चीयते / तथा च तर्कोऽपि बलमेव स्वयं सामान्यतोदृष्टानुमाने, मरणापेक्षया जीवनस्य लघुभूतत्वात् जीवनमेव कल्पयितुमुचितमिति तर्कः सहकारी सामान्यतोदृष्टानुमानस्योक्तः / परेण तु जीवनकल्पने एकस्यैव गृहनियमग्राहकस्यैव बाधः स्यात्, मरणकल्पने तु जीवनग्राहकस्य ज्योतिःशास्त्रस्य मरणज्ञापकस्य गृहनियमग्राहकस्य प्रत्यक्षप्रमाणस्यापि बाधः स्यादिति द्वयोरपि बाध इति नियमद्वयबाधापेक्षया एकनियमबाध एवोचित इति यस्तर्को उक्तो मीमांसकेन तं तर्कं दूषयति - मरणकल्पने इति / तथा च मरणकल्पने जीवित्वग्राहकस्यापि बाधः अथ च शतवर्षजीवी गृह एवेत्यस्यापि बाध इति द्वयबाधे गौरवमिति यदुक्तं मीमांसकेनेत्यर्थः / तथा च जीवित्वज्ञानमर्थापत्त्या, तयैव बहिःसत्त्वमपि, मध्ये जीवित्वकल्पना किमर्थम् ? येन प्रमाणेन जीवित्वं कल्पनीयं तेनैव [148 A] बहिःसत्त्वं कल्पनीयमित्यादि य उक्तः तर्क इति भावः / नैयायिकः वदंति - स तु तर्क एव न भवति / कथम् ? शतवर्षजीवित्वविशिष्टबाधो यद्यपि जातस्तथापि गृहनियमग्राहकं यद् विशेष्यग्राहकं यथा जीवी गृह एवेति तस्य मरणकल्पनेऽपि बाधो नास्ति, मरणकल्पनेऽपि यदा जीवी स्यात् तदा गृह एवेति नियमस्याबाधनात्, मरणकल्पने शतवर्षजीवित्वरूपविशेषणस्यैव बाधात् / ननु विशेषणबाधेऽपि विशिष्टस्यैव बाधो भविष्यतीत्यत आह - स चेति / स विशेषणबाध एव परं जीवी गृह एवेति विशेष्यस्य बाधो न भवतीत्यर्थः / ननु यथा दण्डाभावे दण्डविशिष्टपुरुषाभावस्तथा प्रकृतेऽपि शतवर्षजीवित्वरूपविशेषणबाधात् शतवर्षजीवी गृह एवेति विशिष्टस्यापि बाधो भविष्यतीत्याशङ्कते - विशेषणाभावायत्तेति / समाधत्ते - विशेष्येति / तथा च यत्रापि देवदत्तवति दण्डाभावस्तत्रापि न दण्डविशिष्टदेवदत्ताभावः किन्तु दण्डरूपं यद् विशेषणं तदभावमात्रं न तु विशिष्टाभाव इत्यर्थः / ननु विशेषणवत् विशिष्टमपि विशेष्यातिरिक्तं स्यात् तद्बाधोऽपि विशेषणबाधात् भविष्यतीत्यत आह - विशिष्टेति। नैयायिकेन विशेषणं विशेष्यं च एतद्वयव्यतिरिक्तविशिष्टं नाङ्गीक्रियते।