________________ 296 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तथा च सामान्यतोदृष्टानुमानस्य जीवनमरणान्यतरप्रतियोगीत्यादिरूपस्य ज्योतिःशास्त्रस्य यथार्थत्वमेव विपक्षबाधकम्, तस्य विद्यमानत्वात् पूर्वस्याप्रयोजकत्वं नास्तीत्यर्थः / तथा च ज्योतिःशास्त्रयथार्थत्वलक्षणस्य विपक्षबाधकस्य विद्यमानत्वात् व्याप्तिग्राहकं सामान्यतोदृष्टानुमानेऽप्यस्तीति उपसंहरति-तस्मादिति / व्याख्यातमेव, यथा पर्वतो वह्रिमान् इति सामान्यमुखप्रवृत्तमनुमानम् / अथवा इच्छा द्रव्याश्रिता गुणत्वादिति वा सहकारिविशेषवशात् पृथिव्यादौ इच्छासत्त्वे बाधसहकारिवशात् विशेषपरस्याष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वरूपविशेषपरस्यानुमानस्य तद्विशेषविलक्षणो नाम अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वविशेषस्तस्माद्विलक्षणो यो विशेषोऽष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वाभावः तल्लक्षणो विशेषस्तत्साधकं गुणत्वादित्यादिलक्षणेन प्रमाणेन तत्सत्प्रतिपक्षत्वमित्यर्थः / सामान्यतोदृष्टानुमाने लाघवाख्यतर्कस्य सहकारिविशेषसमवधानस्य विद्यमानत्वात् सामान्यतोदृष्टानुमानस्य बलवत्त्वमित्यर्थः / शङ्कते - न चेति। प्रमाणेति। अस्य सामान्यतोदृष्टस्य गृहनियमग्राहकप्रमाणविरोधेन तर्कोऽपि सामान्यतोदृष्टानुमानस्य न सहकारी, तर्को ह्यविरुद्धे सहकारी / सामान्यतोदृष्टं गृहनियमग्राहकेण विरुद्धमिति कृत्वा न तत्र तर्कः सहकारीत्याशङ्कार्थः। तर्कानवतारे विशेषपरत्वाभावेनाविरोधात् तदवतारे तदधिकबलत्वादेव अन्यथा तर्कानवतारे सत्प्रतिपक्षस्य तदवतारेऽपि तत्त्वं न निवर्तते / किञ्चैवमर्थापत्तावपि तद्विरोधेन न सहकारी स्यात् / यदुक्तं मरणकल्पने शतवर्षावच्छिन्नजीवी गृह एवेत्यस्यापि बाध इति तत्र विशिष्टबाधो न विशेष्यबाधात् मरणेऽपि जीवी गृह एवेत्यस्य विशेष्यस्याबाधात् किन्तु विशेषणबाधात् स च शतवर्षजीवित्वबाध एव। विशेषणाभावायत्तो विशिष्टाभावोऽप्यस्तीति चेत् / न / विशेष्यवति विशिष्टाभावस्य केवलविशेषणाभावात्मकत्वात् विशिष्टस्यातिरिक्तस्यानभ्युपगमात् / समाधत्ते - तर्कानवतारेति / सामान्यतोदृष्टानुमानस्य गृहनियमग्राहकेण प्रत्यक्षेण सह विरोधस्तदा स्यात् यदि जीवनमरणयोर्मध्ये विशेषो जीवनं सामान्यतोदृष्टानुमानस्य तत्परता जीवनपरता स्यात् / यदि जीवनपरता स्यात् तदा गृहनियमग्राहकेण विरोधः स्यात् / यावत्पर्यन्तं [147 B] तर्कावतारो नास्ति तावत्पर्यन्तं विशेषपरत्वमेव नास्ति जीवनमरणयोर्मध्ये मरणेन सह नियमग्राहकस्य विरोधाभावात् / तथा च विशेषपरतायामेव विरोधः, तर्कात् पूर्वं विशेषपरतैव नास्ति इति कृत्वा विरोधाभावेन सामान्यतोदृष्टानुमानस्य तर्कः सहकारी भवत्येवेत्यर्थः / ननु तर्कसहकारिवशात् सामान्यतोदृष्टस्य विशेषपरतायां जीवनपरतायां गृहनियमग्राहकेण विरोधो भविष्यतीत्यत आह - तदवतार इति। तथा च तर्कसहकारिवशात् सामान्यतोदृष्टस्य विशेषपरत्वे सिद्धे