________________ 295 अर्थापत्तिनिरूपणम् अत्र शङ्कते - अथेति / तथा च पूर्वोक्तलाघवसहकारिवशात् सामान्यतोदृष्टं यज्जीवनमरणान्यतरप्रतियोगित्वरूपं तत्र विशेषो नाम जीवित्वं यदि विषयः तदा नियमग्राहकं यन्मानं प्रत्यक्षं तदुत्थापितं यल्लिङ्गम्, यथा देवदत्तो मरणप्रतियोगी गृहनिष्ठात्यन्ताभावप्रतियोगित्वात् इत्यनुमानेन जीवनग्राहकं यदनुमानं तत् सामान्यतोदृष्टम् / अस्यानुमानस्यानेन सत्प्रतिपक्षत्वम् / ननु जीवनग्राहकाणां ज्योतिःशास्त्रकथितलिङ्गानां सामान्यतोदृष्टप्रभृतीनां सत्त्वात् कथमेकेन गृहनियमग्राहकमानोत्थापितमरणा(ण)लिङ्गकानुमानेन सत्प्रतिपक्षत्वं स्यादित्यत आह - एकेनेति मूलम् / तथा च एकेनापि मरणलिङ्गकानुमानेन जीवनानुमानानां जीवनग्राहकानुमानानां सत्प्रतिपक्षत्वं सम्भवति, शतमपि अन्धानां न पश्यतीति न्यायात् / यथा एकेनापि चक्षुष्मता सर्वेऽन्धास्तिरस्त्रि(स्क्रि)यन्ते तद्वदित्यर्थः / आशङ्कते - न चेति / तुल्यबलत्वे हि सत्प्रतिपक्षत्वं स्यात् / प्रकृते च तुल्यबलत्वमेव नास्ति। कुतः ? तर्कसाचिव्यात् / सामान्यतोदृष्टस्य जीवनमरणान्यतरप्रतियोगीत्यादिरूपस्याधिकबलत्वेन कथं सत्प्रतिपक्षः स्यात् / तथा चानयोस्तुल्यबलत्वज्ञानाभावात् कथं सत्प्रतिपक्षत्वं स्यादित्याशङ्कार्थः / समाधत्ते प्राभाकरः - व्याप्तीति / यत् त्वयोक्तं सामान्यतोदृष्टानुमानं प्रबलं तत्रोच्यते - किं बलम्, व्याप्निपक्षधर्मताज्ञानं हि बलम्, तच्चोभयत्राविशिष्टं जीवनग्राहकप्रमाणेष्वपि तद् वर्तते मरणग्राहकेऽपि वर्तते इति समानबलत्वमुभयोरिति / नैयायिकः समाधत्ते - तीति / व्याप्तिपक्षधर्मते हि बलं यदि सामान्यमुखे प्रवृत्तानुमानस्य विशेषविषयत्वे अन्यसाधर्म्यण सत्प्रतिपक्षत्वं तर्हि पर्वतो वह्निमान् धूमात् इत्यत्रापि पर्वतीयवह्रिसिद्धिर्न स्यात्, पर्वतो वह्निमान् धूमात् इत्यत्रापि पक्षधर्मताबलात् पर्वतीयवह्रिसिद्धिर्जायते सा न स्यात् / कुतः ? यतः पर्वतः पर्वतीयवह्नयभाववान् धूमात् महानसवत् इत्यनेन अनुमानेन विशेषसिद्धिपर्यवसन्नस्य पर्वतो पर्वतीयवन्यभाववान् इत्यस्य सत्प्रतिपक्षत्वं स्यात्, पर्वतो वह्रिमान् इति यत् सामान्यतोदृष्टमनुमानं पर्वतीयवह्रिसाधकम् अस्यापि सत्प्रतिपक्षेऽनुमानमात्रोच्छेदप्रसङ्गादित्यर्थः / अन्यसाधर्येणेति मूलम् / अन्यः पर्वतीयवह्नयभाववान् महानसादिस्तेन सह साधर्म्यं धूमवत्त्वलक्षणं यतस्तत् पर्वतीयवह्निमत्यपि वर्तते पर्वतीयवह्नयभाववत्यपि [147 A] वर्तते इत्यर्थः / तथा चानुमानमात्रोच्छेदप्रसङ्गः स्यात् / नन्वनुमानमात्रोच्छेदो न भवति, यथा पर्वतो वह्निमान् धूमात् इत्यत्र पर्वतीयवह्रिसाधने पर्वतः पर्वतीयवह्नयभाववान् धूमात् इति सत्प्रतिपक्षो न भवति / कुतः ? यदग्रेतनमनुमानं तदप्रयोजकं पर्वतीयधूमस्य पक्षधर्मतात्वात् पर्वतीयवहेरपि पक्षधर्मतात्वात्, ततः सामान्यतोदृष्टानुमानं प्रथमं प्रबलं द्वितीयानुमानमप्रयोजकत्वात् दुर्बलमिति न सत्प्रतिपक्ष इत्याशङ्कते - अप्रयोजकत्वादिति / समाधत्ते - तुल्यमिति / तथा चात्रापि तद्वत् मरणसाधकानुमानस्याप्रयोजकत्वात् दुर्बलत्वमित्यर्थः / तुल्यशब्दार्थमेव विवृणोति - नियमग्राहकस्येति। नियमग्राहकस्य प्रत्यक्षस्याप्रयोजकत्वात् / गृहनिष्ठात्यन्ताभावप्रतियोगित्वमस्तु मरणप्रतियोगित्वं मास्तु इत्यप्रयोजकमित्यर्थः / ननु जीवनग्राहकेऽपि प्रथमेऽप्रयोजकत्वमस्तु इत्यत आह - जीवनग्राहकस्येति /