________________ 294 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका गृहनियमग्राहकबाध्यत्वानुमितिरेव भवति न तु गृहनियमग्राहकबाध्यत्वप्रकारिका, अत्र तु गृहनियमग्राहकबाध्यत्वानुमितिरेवोद्देश्या न तु गृहनियमग्राहकबाध्यत्वप्रकारिका / तथा च गृहनियमग्राहकबाध्यत्वानुमितिस्तर्कसहकारादेव भविष्यति। तथा चात्र विशेषमात्रविषयिणी अनुमितिरुद्देश्या न तु गृहनियमग्राहकबाध्यत्वप्रकारिका / व्यतिरेकिस्थले तु तत्प्रकारिका विशेषानुमितिरुद्देश्येति व्यतिरेक्यादर इति भावः / प्रकारान्तरेणापि व्यतिरेकिणं समर्थयति। व्यतिरेकिणोऽपीति मूलम् / तथा चान्यत्र पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् इत्यत्र व्यतिरेकिणः सावकाशत्वात् विशेषबाधसहकारिवशात् सामान्यतोदृष्टादपि सिद्धिर्व्यतिरेक्यनुमानादपि अष्टद्रव्येत्यादिसिद्धिः / न हि एकेनोपायेन सिद्धमित्युपायान्तरेणासिद्धमिति नियमः / अन्यथा धूमेन वह्नयनुमितौ जातायामालोकेन वन्यनुमितिर्न स्यात् इत्यर्थः / अर्थापत्तिस्वीकारेण दूषणान्तरमाह - अपि चेति मूलम् / देवदत्तो जीवनमरणान्यतरप्रतियोगी अन्यतरसम्बन्धी प्राणित्वात् इति सामान्यतोदृष्टमनुमानमेव तर्कसहकारिवशात् जीवनप्रतियोगित्वमेव विषयीकरोति / ततः किमित्यत आह - तथा चेति / लिङ्गविशेषणं जीवित्वे सति / [146 B] गृहनिष्ठात्यन्ताभावप्रतियोगित्वं हेतुः / तत्र च विशेषणं जीवित्वम्, तस्य निश्चये सति इत्यर्थः / अनुमानादिति। अनुमानं यथा देवदत्तो बहिरस्ति जीवित्वे सति गृहनिष्ठात्यन्ताभावप्रतियोगित्वात् इत्यनुमानात् बहिःसत्त्वसिद्धिरित्यर्थः / अथ लाघवसाचिव्यात् सामान्यतोदृष्टस्यापि विशेषविषयत्वात् नियमग्राहकप्रमाणोत्थापितलिङ्गकमरणानुमानेन जीवनग्राहकस्यैव सत्प्रतिपक्षत्वम् एकेनापि भूयसामपि प्रतिबन्धसम्भवात् / न च तर्कात् सामान्यतोदृष्टस्य बलवत्त्वम्, व्याप्ति-पक्षधर्मते हि बलं तच्च तुल्यमेव ज्ञातं लाघवाख्यतर्कस्य विशेषमात्रपर्यवसायकत्वेन व्याप्तिग्राहकत्वस्य तुल्यत्वादिति चेत्, तर्हि पक्षधर्मताबलात् विशेषसिद्धिः क्वापि न स्यात् सर्वत्र सामान्यमुखप्रवृत्तप्रमाणस्य विशेषपर्यवसानेऽन्यसाधर्येण सत्प्रतिपक्षसम्भवात्, अप्रयोजकत्वान्न विपरीतसाधनमिति तुल्यं नियमग्राहकस्याप्रयोजकत्वात् जीवनग्राहकस्य तु सामान्यतोदृष्टस्य ज्योतिःशास्त्रात् यथार्थत्वमेव विपक्षबाधकं व्याप्तिग्राहकमस्ति, तस्मात् सामान्यमुखप्रवृत्तस्य सहकारिविशेषात् विशेषपरस्यानुमानस्य तद्विशेषविलक्षणग्राहकप्रमाणेन सत्प्रतिपक्षत्वम् / न च प्रमाणविरोधेनास्य तर्को न सहकारीति वाच्यम्।