________________ अर्थापत्तिनिरूपणम् 293 समाधत्ते - गृहनियमेति मूलम् / तथा च जीवनसंशयानन्तरं बहिःसत्त्वकल्पने विलम्बस्तु दृश्यते, तस्मान्मध्ये किञ्चिद् विलम्बकारणं वक्तव्यम् / तच्च विरुद्धार्थग्राहकत्वरूपसामान्यतोदृष्टानुसन्धानरूपम्,तेनैव मध्ये विलम्ब इत्यवश्यं वक्तव्यम् / अत एव बाधप्रसङ्गादित्यत्र यथाश्रुतमबाधोऽनुपपन्नः, यतः तर्कसहकारिवशात् गृहनियमग्राहकस्य बाधो भविष्यतीति यथाश्रुतमबाधप्रसङ्गादित्यनुपपन्नमिति कृत्वाऽबाधप्रसङ्गादित्यर्थोऽविलम्बप्रसङ्गादित्यर्थः [146 A] सम्पन्नः। अथ यदि पर्यवसन्नमपि प्रमाणं पुनरनुसन्धीयमानं सहकारिविशेषात् फलान्तरजनकं तदेच्छा द्रव्याश्रिता कार्यत्वादिति सामान्यतोदृष्टद्रव्याश्रितत्वानुमितौ पश्चाद् अष्टद्रव्यवृत्तित्वबाधे व्यतिरेकिणा आत्मसिद्धिरिति भज्येत अष्टद्रव्यवृत्तित्वबाधसहकृतात् सामान्यतोदृष्टादेव पुनरनुसन्धीयमानात् तत्सिद्धेरिति चेत् / न / अनुमितेापकतावच्छेदकप्रकारकत्वनियमेन तत्प्रकारकबुद्धर्व्यतिरेकिसाध्यत्वात् व्यतिरेकिणोऽप्यन्यत्र सामर्थ्यावधारणेनोपायान्तरस्यादोषाच्च / अपि च देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वात् मद्वत् इति सामान्यतोदृष्टं लाघवसहकारेण जीवनप्रतियोगित्वं विषयीकरोति तथा च लिङ्गविशेषणनिश्चयादनुमानादेव बहिःसत्त्वसिद्धिः / मीमांसकः शङ्कते - अथेति / यदि एकवारं सामान्यतोदृष्टानुमानं पर्यवसन्नं पश्चात् तर्कसहकारिवशात् पुनस्तदेवानुसन्धीयमानं चेत् विशेषानुमितिजनकं तदेत्यर्थः / दूषणमाह - इच्छेति मूलम् / यथा इच्छा ट्रव्याश्रिता गुणत्वात् कार्यत्वात् वा इत्यत्र एकवारं सामान्यकारेण इच्छाया द्रव्याश्रितत्वानुमितिर्जाता तदनन्तरमिच्छाया अष्टद्रव्यवृत्तित्वबाधे व्यतिरेक्यनुमानेन अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वाभावस्तत्र तत्र अष्टद्रव्यानाश्रितत्वे सति गुणत्वाभावो यथा रूपादौ इति या व्यतिरेक्यनुमानेनाष्टद्रव्यातिरिक्तद्रव्याश्रितत्वसिद्धिरुक्ता सा विरुध्येतेत्यर्थः / कुत इत्यत आह - अष्टद्रव्येति मूलम् / तथा च इच्छायां सामान्यतोदृष्टानुमानादेव द्रव्याश्रितत्वसिद्धौ सत्यां अष्टद्रव्यवृत्तित्वबाधे पुनरनुसन्धीयमानात् तस्मादेव सामान्यतोदृष्टानुमानेनाष्टद्रव्यवृत्तित्वबाधसहकारिवशात् अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धिर्भवति। तथापि साऽनुमितिरष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वप्रकारिका न भवति किन्तु द्रव्याश्रितत्वप्रकारिका, यथा वह्नयनुमितौ यद्यपि पर्वतीयवह्निरेव भासते परं वह्नित्वेनैव प्रकारेण भासते न तु पर्वतीयवह्नित्वेन प्रकारेणेति / तथा चाष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वेन प्रकारेणाष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धये व्यतिरेक्यादरः / एवं च प्रकृतेऽपि पुनरनुसन्धीयमानात् सामान्यतोदृष्टानुमानात्