________________ 292 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका मानमावश्यकमित्यनुमित्यनन्तरं तर्कसहकारिवशात् प्रत्यक्षमेव बाध्यते इत्यर्थः / दूषणान्तरमाह - किञ्चेति / तथा च विरोधज्ञानानन्तरमेकमप्रमाणमेकं बाध्यमिति धीर्नास्ति यदि तदा विरोधज्ञानानन्तरमिदं वा प्रमाणमिदं वेति प्रामाण्यसंशयो न स्यात्, प्रामाण्यसंशयाभावे च जीवनसंशयोऽपि न स्यादित्याह - न स्याच्चेति मूलम् / तत्र हेतुमाह - द्वयोरपीति मूलम् / तथा च द्वयोः प्रमाणत्वे जीवनग्राहकप्रमाणेन जीवनं प्रमापितम्, मरणज्ञापकप्रमाणेन प्रत्यक्षेण मरणं प्रमापितम्, तत उभयोरपि निश्चय एव स्यान्नैव संशयः स्यादित्यर्थः। ___ अथैकमनयोरप्रमाणमिति ज्ञानं जनयित्वा सामान्यतोदृष्टस्य पर्यवसितत्वात् तजनितनियमद्वयसंशयाहितजीवनसंशयानन्तरं तर्कावतारे बहिरस्तीति ज्ञानं जायमानं संशयस्य कारणत्वं व्यवस्थापयतीति चेत् / न / यदेव हि विरुद्धार्थग्राहकत्वं तर्कविनाकृतमनिर्धारितैकाप्रामाण्यानुमितिमजीजनत् तदेव तर्कसहकृतं पुनरनुसन्धीयमानं गृहनियमग्राहकप्रमाणमित्यनुमिति बहिःसत्त्वज्ञानानुकूलां जनयति सहकारिवैचित्र्येणैकस्यापि विचित्रफलजनकत्वात्। न च जीवनसंशयानन्तरं तदनुसन्धानमसिद्धं गृहनियमग्राहकस्य जीवनग्राहकविरुद्धार्थग्राहकत्वं विना बहिःसत्त्वकल्पनेऽप्यबाधप्रसङ्गात्। अत्राशङ्कते - अथेति मूलम् / अनयोरेकमप्रमाणमिति ज्ञानं सामान्यतोदृष्टानुमानेन जनयित्वा एतावता सामान्यतोदृष्टानुमानं पर्यवसन्नम् / एवं च सति प्रामाण्यसंशयोऽप्युपपन्नो जीवनसंशयोऽप्युपपन्नः / तथा च तर्कसहकारिवशात् सामान्यतोदृष्टानुमानजनितनियमद्वयसंशयाहितः संशयो यो जीवनसंशयस्तदनन्तरं जायमानं बहिःसत्त्वज्ञानम्, संशयस्य करणत्वे सिद्धे बहिःसत्त्वप्रमाकरणत्वमपि सिद्धं भविष्यतीत्याशङ्कार्थः / समाधत्तेयदेवेति मूलम् / यदेव सामान्यतोदृष्टानुमानं तर्करहितं सत् अनिर्धारितैकाप्रामाण्यानुमितिं जनयति तदेव तर्कसहकारिवशात् निर्धारितैकाप्रामाण्यानुमितिमपि जनयिष्यति, किमर्थमर्थापत्तिप्रमाणकल्पनम् / एतदेवाहगृहनियमग्राहकेति मूलम् / नन्वेकस्यैवानुमानस्य कदाचिद् निर्धारितैकाप्रामाण्यस्यानुमितिजनकत्वं यथा इदमनयोरप्रमाणं विरुद्धार्थग्राहकत्वात् / अत्रानिर्धारितैकाप्रामाण्यस्यानुमितिरेतस्मादेवानुमानात् पुनः कथं निर्धारितैकाप्रामाण्यानुमितिर्भविष्यतीत्यत आह - सहकारिवैचित्र्येणेति मूलम् / तथा च सामान्यतोदृष्टानुमानस्यैव प्रथमं तर्कासहकृतस्यानिर्धारितैकाप्रामाण्यानुमितिजनकत्वं पश्चात् तर्कसहकारात् निर्धारितैकाप्रामाण्यानुमितिजनकता यथा चक्षुषा एव दोषसहकारात् अप्रमा गुणसहकारात् च प्रमा इति सामग्रीवैचित्र्येणोभयोरप्युपपत्तिः / आशङ्कते - न चेति मूलम् / यदि जीवनसंशयानन्तरं सामान्यतोदृष्टानुसन्धानं स्यात् तदा तर्कसहकारिवशात् गृहनियमग्राहकप्रमाणबाध्यता स्यात् तदेवानुसन्धानमेव नास्तीत्याशङ्कार्थः /